chevron_left द्रोण पर्व अध्याय १०२
सञ्जय़ उवाच:
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः |
१ क
सञ्जय़ उवाच:
सुदूरमन्वय़ुः पार्थाः पाञ्चालाः सह सोमकैः ||
१ ख
सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे |
२ क
सञ्जय़ उवाच:
प्रक्षय़े जगतस्तीव्रे युगान्त इव भारत ||
२ ख
सञ्जय़ उवाच:
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः |
३ क
सञ्जय़ उवाच:
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ||
३ ख
सञ्जय़ उवाच:
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः |
४ क
सञ्जय़ उवाच:
चिन्तय़ामास राजेन्द्र कथमेतद्भविष्यति ||
४ ख
सञ्जय़ उवाच:
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षय़ा |
५ क
सञ्जय़ उवाच:
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ||
५ ख
सञ्जय़ उवाच:
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् |
६ क
सञ्जय़ उवाच:
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रिय़ः ||
६ ख
सञ्जय़ उवाच:
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् |
७ क
सञ्जय़ उवाच:
चिन्तय़ाभिपरीताङ्गो धर्मराजो युधिष्ठिरः |
७ ख
सञ्जय़ उवाच:
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ||
७ ग
सञ्जय़ उवाच:
लोकोपक्रोशभीरुत्वाद्धर्मराजो महाय़शाः |
८ क
सञ्जय़ उवाच:
अचिन्तय़न्महावाहुः शैनेय़स्य रथं प्रति ||
८ ख
सञ्जय़ उवाच:
पदवीं प्रेषितश्चैव फल्गुनस्य मय़ा रणे |
९ क
सञ्जय़ उवाच:
शैनेय़ः सात्यकिः सत्यो मित्राणामभय़ङ्करः ||
९ ख
सञ्जय़ उवाच:
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै |
१० क
सञ्जय़ उवाच:
सात्यकिश्च हि मे ज्ञेय़ः पाण्डवश्च धनञ्जय़ः ||
१० ख
सञ्जय़ उवाच:
सात्यकिं प्रेषय़ित्वा तु पाण्डवस्य पदानुगम् |
११ क
सञ्जय़ उवाच:
सात्वतस्यापि कं युद्धे प्रेषय़िष्ये पदानुगम् ||
११ ख
सञ्जय़ उवाच:
करिष्यामि प्रय़त्नेन भ्रातुरन्वेषणं यदि |
१२ क
सञ्जय़ उवाच:
युय़ुधानमनन्विष्य लोको मां गर्हय़िष्यति ||
१२ ख
सञ्जय़ उवाच:
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः |
१३ क
सञ्जय़ उवाच:
परित्यजति वार्ष्णेय़ं सात्यकिं सत्यविक्रमम् ||
१३ ख
सञ्जय़ उवाच:
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् |
१४ क
सञ्जय़ उवाच:
पदवीं प्रेषय़िष्यामि माधवस्य महात्मनः ||
१४ ख
सञ्जय़ उवाच:
यथैव च मम प्रीतिरर्जुने शत्रुसूदने |
१५ क
सञ्जय़ उवाच:
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ||
१५ ख
सञ्जय़ उवाच:
अतिभारे निय़ुक्तश्च मय़ा शैनेय़नन्दनः |
१६ क
सञ्जय़ उवाच:
स तु मित्रोपरोधेन गौरवाच्च महावलः |
१६ ख
सञ्जय़ उवाच:
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ||
१६ ग
सञ्जय़ उवाच:
असौ हि श्रूय़ते शव्दः शूराणामनिवर्तिनाम् |
१७ क
सञ्जय़ उवाच:
मिथः संय़ुध्यमानानां वृष्णिवीरेण धीमता ||
१७ ख
सञ्जय़ उवाच:
प्राप्तकालं सुवलवन्निश्चित्य वहुधा हि मे |
१८ क
सञ्जय़ उवाच:
तत्रैव पाण्डवेय़स्य भीमसेनस्य धन्विनः |
१८ ख
सञ्जय़ उवाच:
गमनं रोचते मह्यं यत्र यातौ महारथौ ||
१८ ग
सञ्जय़ उवाच:
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन |
१९ क
सञ्जय़ उवाच:
शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः |
१९ ख
सञ्जय़ उवाच:
स्ववाहुवलमास्थाय़ प्रतिव्यूहितुमञ्जसा ||
१९ ग
सञ्जय़ उवाच:
यस्य वाहुवलं सर्वे समाश्रित्य महात्मनः |
२० क
सञ्जय़ उवाच:
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ||
२० ख
सञ्जय़ उवाच:
इतो गते भीमसेने सात्वतं प्रति पाण्डवे |
२१ क
सञ्जय़ उवाच:
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ||
२१ ख
सञ्जय़ उवाच:
कामं त्वशोचनीय़ौ तौ रणे सात्वतफल्गुनौ |
२२ क
सञ्जय़ उवाच:
रक्षितौ वासुदेवेन स्वय़ं चास्त्रविशारदौ ||
२२ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा कार्यमात्मनः शोकनाशनम् |
२३ क
सञ्जय़ उवाच:
तस्माद्भीमं निय़ोक्ष्यामि सात्वतस्य पदानुगम् |
२३ ख
सञ्जय़ उवाच:
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ||
२३ ग
सञ्जय़ उवाच:
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः |
२४ क
सञ्जय़ उवाच:
यन्तारमव्रवीद्राजन्भीमं प्रति नय़स्व माम् ||
२४ ख
सञ्जय़ उवाच:
धर्मराजवचः श्रुत्वा सारथिर्हय़कोविदः |
२५ क
सञ्जय़ उवाच:
रथं हेमपरिष्कारं भीमान्तिकमुपानय़त् ||
२५ ख
सञ्जय़ उवाच:
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् |
२६ क
सञ्जय़ उवाच:
कश्मलं प्राविशद्राजा वहु तत्र समादिशन् ||
२६ ख
सञ्जय़ उवाच:
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजय़त् |
२७ क
सञ्जय़ उवाच:
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ||
२७ ख
सञ्जय़ उवाच:
ततोऽव्रवीद्धर्मराजं भीमसेनस्तथागतम् |
२८ क
सञ्जय़ उवाच:
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ||
२८ ख
सञ्जय़ उवाच:
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः |
२९ क
सञ्जय़ उवाच:
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ||
२९ ख
सञ्जय़ उवाच:
न ह्यसाध्यमकार्यं वा विद्यते मम मानद |
३० क
सञ्जय़ उवाच:
आज्ञापय़ कुरुश्रेष्ठ मा च शोके मनः कृथाः ||
३० ख
सञ्जय़ उवाच:
तमव्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् |
३१ क
सञ्जय़ उवाच:
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ||
३१ ख
सञ्जय़ उवाच:
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूय़ते |
३२ क
सञ्जय़ उवाच:
प्रेरितो वासुदेवेन संरव्धेन यशस्विना |
३२ ख
सञ्जय़ उवाच:
नूनमद्य हतः शेते तव भ्राता धनञ्जय़ः ||
३२ ग
सञ्जय़ उवाच:
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः |
३३ क
सञ्जय़ उवाच:
यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ||
३३ ख
सञ्जय़ उवाच:
यं भय़ेष्वभिगच्छन्ति सहस्राक्षमिवामराः |
३४ क
सञ्जय़ उवाच:
स शूरः सैन्धवप्रेप्सुरन्वय़ाद्भारतीं चमूम् ||
३४ ख
सञ्जय़ उवाच:
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः |
३५ क
सञ्जय़ उवाच:
श्यामो युवा गुडाकेशो दर्शनीय़ो महाभुजः ||
३५ ख
सञ्जय़ उवाच:
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः |
३६ क
सञ्जय़ उवाच:
चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ||
३६ ख
सञ्जय़ उवाच:
तदिदं मम भद्रं ते शोकस्थानमरिन्दम |
३७ क
सञ्जय़ उवाच:
अर्जुनार्थं महावाहो सात्वतस्य च कारणात् ||
३७ ख
सञ्जय़ उवाच:
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः |
३८ क
सञ्जय़ उवाच:
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ||
३८ ख
सञ्जय़ उवाच:
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् |
३९ क
सञ्जय़ उवाच:
स तं महारथं पश्चादनुय़ातस्तवानुजम् |
३९ ख
सञ्जय़ उवाच:
तमपश्यन्महावाहुमहं विन्दामि कश्मलम् ||
३९ ग
सञ्जय़ उवाच:
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः |
४० क
सञ्जय़ उवाच:
यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ||
४० ख
सञ्जय़ उवाच:
स तत्र गच्छ कौन्तेय़ यत्र यातो धनञ्जय़ः |
४१ क
सञ्जय़ उवाच:
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे |
४१ ख
सञ्जय़ उवाच:
वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ||
४१ ग
सञ्जय़ उवाच:
न तेऽर्जुनस्तथा ज्ञेय़ो ज्ञातव्यः सात्यकिर्यथा |
४२ क
सञ्जय़ उवाच:
चिकीर्षुर्मत्प्रिय़ं पार्थ प्रय़ातः सव्यसाचिनः |
४२ ख
सञ्जय़ उवाच:
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ||
४२ ग
भीमसेन उवाच:
व्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः |
४३ क
भीमसेन उवाच:
तमास्थाय़ गतौ कृष्णौ न तय़ोर्विद्यते भय़म् ||
४३ ख
भीमसेन उवाच:
आज्ञां तु शिरसा विभ्रदेष गच्छामि मा शुचः |
४४ क
भीमसेन उवाच:
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ||
४४ ख
सञ्जय़ उवाच:
एतावदुक्त्वा प्रय़यौ परिदाय़ युधिष्ठिरम् |
४५ क
सञ्जय़ उवाच:
धृष्टद्युम्नाय़ वलवान्सुहृद्भ्यश्च पुनः पुनः |
४५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं चेदमाह भीमसेनो महावलः ||
४५ ग