युधिष्ठिर उवाच:
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव |
४९ क
युधिष्ठिर उवाच:
पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ||
४९ ख
सञ्जय़ उवाच:
ततोऽव्रवीन्महाराज वार्ष्णेय़ः कुरुनन्दनम् |
५० क
सञ्जय़ उवाच:
रोचते मे महावाहो सततं तव भाषितम् ||
५० ख
सञ्जय़ उवाच:
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् |
५१ क
सञ्जय़ उवाच:
गम्यतां स वधोपाय़ं प्रष्टुं सागरगासुतः |
५१ ख
सञ्जय़ उवाच:
वक्तुमर्हति सत्यं स त्वय़ा पृष्टो विशेषतः ||
५१ ग
सञ्जय़ उवाच:
ते वय़ं तत्र गच्छामः प्रष्टुं कुरुपितामहम् |
५२ क
सञ्जय़ उवाच:
प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव |
५२ ख
सञ्जय़ उवाच:
स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ||
५२ ग
सञ्जय़ उवाच:
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज |
५३ क
सञ्जय़ उवाच:
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् |
५३ ख
सञ्जय़ उवाच:
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ||
५३ ग
सञ्जय़ उवाच:
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे |
५४ क
सञ्जय़ उवाच:
पूजय़न्तो महाराज पाण्डवा भरतर्षभ |
५४ ख
सञ्जय़ उवाच:
प्रणम्य शिरसा चैनं भीष्मं शरणमन्वय़ुः ||
५४ ग
सञ्जय़ उवाच:
तानुवाच महावाहुर्भीष्मः कुरुपितामहः |
५५ क
सञ्जय़ उवाच:
स्वागतं तव वार्ष्णेय़ स्वागतं ते धनञ्जय़ |
५५ ख
सञ्जय़ उवाच:
स्वागतं धर्मपुत्राय़ भीमाय़ यमय़ोस्तथा ||
५५ ग
सञ्जय़ उवाच:
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् |
५६ क
सञ्जय़ उवाच:
सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ||
५६ ख
सञ्जय़ उवाच:
तथा व्रुवाणं गाङ्गेय़ं प्रीतिय़ुक्तं पुनः पुनः |
५७ क
सञ्जय़ उवाच:
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ||
५७ ख
सञ्जय़ उवाच:
कथं जय़ेम धर्मज्ञ कथं राज्यं लभेमहि |
५८ क
सञ्जय़ उवाच:
प्रजानां सङ्क्षय़ो न स्यात्कथं तन्मे वदाभिभो ||
५८ ख
सञ्जय़ उवाच:
भवान्हि नो वधोपाय़ं व्रवीतु स्वय़मात्मनः |
५९ क
सञ्जय़ उवाच:
भवन्तं समरे राजन्विषहेम कथं वय़म् ||
५९ ख
सञ्जय़ उवाच:
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह |
६० क
सञ्जय़ उवाच:
मण्डलेनैव धनुषा सदा दृश्योऽसि संय़ुगे ||
६० ख
सञ्जय़ उवाच:
नाददानं सन्दधानं विकर्षन्तं धनुर्न च |
६१ क
सञ्जय़ उवाच:
पश्यामस्त्वा महावाहो रथे सूर्यमिव स्थितम् ||
६१ ख
सञ्जय़ उवाच:
नराश्वरथनागानां हन्तारं परवीरहन् |
६२ क
सञ्जय़ उवाच:
क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ||
६२ ख
सञ्जय़ उवाच:
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम |
६३ क
सञ्जय़ उवाच:
क्षय़ं नीता हि पृतना भवता महती मम ||
६३ ख
सञ्जय़ उवाच:
यथा युधि जय़ेय़ं त्वां यथा राज्यं भवेन्मम |
६४ क
सञ्जय़ उवाच:
भवेत्सैन्यस्य वा शान्तिस्तन्मे व्रूहि पितामह ||
६४ ख
सञ्जय़ उवाच:
ततोऽव्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज |
६५ क
सञ्जय़ उवाच:
न कथञ्चन कौन्तेय़ मय़ि जीवति संय़ुगे |
६५ ख
सञ्जय़ उवाच:
युष्मासु दृश्यते वृद्धिः सत्यमेतद्व्रवीमि वः ||
६५ ग
सञ्जय़ उवाच:
निर्जिते मय़ि युद्धे तु ध्रुवं जेष्यथ कौरवान् |
६६ क
सञ्जय़ उवाच:
क्षिप्रं मय़ि प्रहरत यदीच्छथ रणे जय़म् |
६६ ख
सञ्जय़ उवाच:
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ||
६६ ग
सञ्जय़ उवाच:
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् |
६७ क
सञ्जय़ उवाच:
हते मय़ि हतं सर्वं तस्मादेवं विधीय़ताम् ||
६७ ख
युधिष्ठिर उवाच:
व्रूहि तस्मादुपाय़ं नो यथा युद्धे जय़ेमहि |
६८ क
युधिष्ठिर उवाच:
भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ||
६८ ख
युधिष्ठिर उवाच:
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा |
६९ क
युधिष्ठिर उवाच:
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ||
६९ ख
भीष्म उवाच:
सत्यमेतन्महावाहो यथा वदसि पाण्डव |
७० क
भीष्म उवाच:
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ||
७० ख
भीष्म उवाच:
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः |
७१ क
भीष्म उवाच:
न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ||
७१ ख
भीष्म उवाच:
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे |
७२ क
भीष्म उवाच:
द्रवमाणे च भीते च तवास्मीति च वादिनि ||
७२ ख
भीष्म उवाच:
स्त्रिय़ां स्त्रीनामधेय़े च विकले चैकपुत्रके |
७३ क
भीष्म उवाच:
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ||
७३ ख
भीष्म उवाच:
इमं च शृणु मे पार्थ सङ्कल्पं पूर्वचिन्तितम् |
७४ क
भीष्म उवाच:
अमङ्गल्यध्वजं दृष्ट्वा न युध्येय़ं कथञ्चन ||
७४ ख
भीष्म उवाच:
य एष द्रौपदो राजंस्तव सैन्ये महारथः |
७५ क
भीष्म उवाच:
शिखण्डी समराकाङ्क्षी शूरश्च समितिञ्जय़ः ||
७५ ख
भीष्म उवाच:
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः |
७६ क
भीष्म उवाच:
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ||
७६ ख
भीष्म उवाच:
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् |
७७ क
भीष्म उवाच:
मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ||
७७ ख
भीष्म उवाच:
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः |
७८ क
भीष्म उवाच:
न प्रहर्तुमभीप्सामि गृहीतेषुं कथञ्चन ||
७८ ख
भीष्म उवाच:
तदन्तरं समासाद्य पाण्डवो मां धनञ्जय़ः |
७९ क
भीष्म उवाच:
शरैर्घातय़तु क्षिप्रं समन्ताद्भरतर्षभ ||
७९ ख
भीष्म उवाच:
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् |
८० क
भीष्म उवाच:
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जय़ात् ||
८० ख
भीष्म उवाच:
एष तस्मात्पुरोधाय़ कञ्चिदन्यं ममाग्रतः |
८१ क
भीष्म उवाच:
मां पातय़तु वीभत्सुरेवं ते विजय़ो भवेत् ||
८१ ख
भीष्म उवाच:
एतत्कुरुष्व कौन्तेय़ यथोक्तं वचनं मम |
८२ क
भीष्म उवाच:
ततो जेष्यसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ||
८२ ख
सञ्जय़ उवाच:
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिविरं प्रति |
८३ क
सञ्जय़ उवाच:
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ||
८३ ख
सञ्जय़ उवाच:
तथोक्तवति गाङ्गेय़े परलोकाय़ दीक्षिते |
८४ क
सञ्जय़ उवाच:
अर्जुनो दुःखसन्तप्तः सव्रीडमिदमव्रवीत् ||
८४ ख
सञ्जय़ उवाच:
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता |
८५ क
सञ्जय़ उवाच:
पितामहेन सङ्ग्रामे कथं योत्स्यामि माधव ||
८५ ख
सञ्जय़ उवाच:
क्रीडता हि मय़ा वाल्ये वासुदेव महामनाः |
८६ क
सञ्जय़ उवाच:
पांसुरूषितगात्रेण महात्मा परुषीकृतः ||
८६ ख
सञ्जय़ उवाच:
यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज |
८७ क
सञ्जय़ उवाच:
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ||
८७ ख
सञ्जय़ उवाच:
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत |
८८ क
सञ्जय़ उवाच:
इति मामव्रवीद्वाल्ये यः स वध्यः कथं मय़ा ||
८८ ख
सञ्जय़ उवाच:
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना |
८९ क
सञ्जय़ उवाच:
जय़ो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ||
८९ ख
श्रीकृष्ण उवाच:
प्रतिज्ञाय़ वधं जिष्णो पुरा भीष्मस्य संय़ुगे |
९० क
श्रीकृष्ण उवाच:
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ||
९० ख
श्रीकृष्ण उवाच:
पातय़ैनं रथात्पार्थ वज्राहतमिव द्रुमम् |
९१ क
श्रीकृष्ण उवाच:
नाहत्वा युधि गाङ्गेय़ं विजय़स्ते भविष्यति ||
९१ ख
श्रीकृष्ण उवाच:
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते |
९२ क
श्रीकृष्ण उवाच:
हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ||
९२ ख
श्रीकृष्ण उवाच:
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् |
९३ क
श्रीकृष्ण उवाच:
त्वदन्यः शक्नुय़ाद्धन्तुमपि वज्रधरः स्वय़म् ||
९३ ख
श्रीकृष्ण उवाच:
जहि भीष्मं महावाहो शृणु चेदं वचो मम |
९४ क
श्रीकृष्ण उवाच:
यथोवाच पुरा शक्रं महावुद्धिर्वृहस्पतिः ||
९४ ख
श्रीकृष्ण उवाच:
ज्याय़ांसमपि चेच्छक्र गुणैरपि समन्वितम् |
९५ क