श्रीकृष्ण उवाच:
आतताय़िनमामन्त्र्य हन्याद्घातकमागतम् ||
९५ ख
श्रीकृष्ण उवाच:
शाश्वतोऽय़ं स्थितो धर्मः क्षत्रिय़ाणां धनञ्जय़ |
९६ क
श्रीकृष्ण उवाच:
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूय़ुभिः ||
९६ ख
अर्जुन उवाच:
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् |
९७ क
अर्जुन उवाच:
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ||
९७ ख
अर्जुन उवाच:
ते वय़ं प्रमुखे तस्य स्थापय़ित्वा शिखण्डिनम् |
९८ क
अर्जुन उवाच:
गाङ्गेय़ं पातय़िष्याम उपाय़ेनेति मे मतिः ||
९८ ख
अर्जुन उवाच:
अहमन्यान्महेष्वासान्वारय़िष्यामि साय़कैः |
९९ क
अर्जुन उवाच:
शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभिय़ास्यतु ||
९९ ख
अर्जुन उवाच:
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् |
१०० क
अर्जुन उवाच:
कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ||
१०० ख
सञ्जय़ उवाच:
इत्येवं निश्चय़ं कृत्वा पाण्डवाः सहमाधवाः |
१०१ क
सञ्जय़ उवाच:
शय़नानि यथास्वानि भेजिरे पुरुषर्षभाः ||
१०१ ख