chevron_left आदि पर्व अध्याय १०३
भीष्म उवाच:
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् |
१ क
भीष्म उवाच:
अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||
१ ख
भीष्म उवाच:
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः |
२ क
भीष्म उवाच:
नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||
२ ख
भीष्म उवाच:
मय़ा च सत्यवत्या च कृष्णेन च महात्मना |
३ क
भीष्म उवाच:
समवस्थापितं भूय़ो युष्मासु कुलतन्तुषु ||
३ ख
भीष्म उवाच:
वर्धते तदिदं पुत्र कुलं सागरवद्यथा |
४ क
भीष्म उवाच:
तथा मय़ा विधातव्यं त्वय़ा चैव विशेषतः ||
४ ख
भीष्म उवाच:
श्रूय़ते यादवी कन्या अनुरूपा कुलस्य नः |
५ क
भीष्म उवाच:
सुवलस्यात्मजा चैव तथा मद्रेश्वरस्य च ||
५ ख
भीष्म उवाच:
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः |
६ क
भीष्म उवाच:
उचिताश्चैव सम्वन्धे तेऽस्माकं क्षत्रिय़र्षभाः ||
६ ख
भीष्म उवाच:
मन्ये वरय़ितव्यास्ता इत्यहं धीमतां वर |
७ क
भीष्म उवाच:
सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ||
७ ख
विदुर उवाच:
भवान्पिता भवान्माता भवान्नः परमो गुरुः |
८ क
विदुर उवाच:
तस्मात्स्वय़ं कुलस्यास्य विचार्य कुरु यद्धितम् ||
८ ख
वैशम्पाय़न उवाच:
अथ शुश्राव विप्रेभ्यो गान्धारीं सुवलात्मजाम् |
९ क
वैशम्पाय़न उवाच:
आराध्य वरदं देवं भगनेत्रहरं हरम् |
९ ख
वैशम्पाय़न उवाच:
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ||
९ ग
वैशम्पाय़न उवाच:
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः |
१० क
वैशम्पाय़न उवाच:
ततो गान्धारराजस्य प्रेषय़ामास भारत ||
१० ख
वैशम्पाय़न उवाच:
अचक्षुरिति तत्रासीत्सुवलस्य विचारणा |
११ क
वैशम्पाय़न उवाच:
कुलं ख्यातिं च वृत्तं च वुद्ध्या तु प्रसमीक्ष्य सः |
११ ख
वैशम्पाय़न उवाच:
ददौ तां धृतराष्ट्राय़ गान्धारीं धर्मचारिणीम् ||
११ ग
वैशम्पाय़न उवाच:
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् |
१२ क
वैशम्पाय़न उवाच:
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ||
१२ ख
वैशम्पाय़न उवाच:
ततः सा पट्टमादाय़ कृत्वा वहुगुणं शुभा |
१३ क
वैशम्पाय़न उवाच:
ववन्ध नेत्रे स्वे राजन्पतिव्रतपराय़णा |
१३ ख
वैशम्पाय़न उवाच:
नात्यश्नीय़ां पतिमहमित्येवं कृतनिश्चय़ा ||
१३ ग
वैशम्पाय़न उवाच:
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् |
१४ क
वैशम्पाय़न उवाच:
स्वसारं परय़ा लक्ष्म्या युक्तामादाय़ कौरवान् ||
१४ ख
वैशम्पाय़न उवाच:
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् |
१५ क
वैशम्पाय़न उवाच:
पुनराय़ात्स्वनगरं भीष्मेण प्रतिपूजितः ||
१५ ख
वैशम्पाय़न उवाच:
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः |
१६ क
वैशम्पाय़न उवाच:
तुष्टिं कुरूणां सर्वेषां जनय़ामास भारत ||
१६ ख
वैशम्पाय़न उवाच:
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपराय़णा |
१७ क
वैशम्पाय़न उवाच:
वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तय़त् ||
१७ ख