युधिष्ठिर उवाच:
कथं स वै विपन्नश्च कथं वै पातितो भुवि |
१ क
युधिष्ठिर उवाच:
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ||
१ ख
भीष्म उवाच:
एवं तय़ोः संवदतोः क्रिय़ास्तस्य महात्मनः |
२ क
भीष्म उवाच:
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ||
२ ख
भीष्म उवाच:
तथैव दीपदानानि सर्वोपकरणानि च |
३ क
भीष्म उवाच:
वलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः |
३ ख
भीष्म उवाच:
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ||
३ ग
भीष्म उवाच:
देवलोके नृलोके च सदाचारा वुधैः स्मृताः |
४ क
भीष्म उवाच:
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः |
४ ख
भीष्म उवाच:
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ||
४ ग
भीष्म उवाच:
यथा सिद्धस्य चान्नस्य द्विजाय़ाग्रं प्रदीय़ते |
५ क
भीष्म उवाच:
वलय़श्च गृहोद्देशे अतः प्रीय़न्ति देवताः ||
५ ख
भीष्म उवाच:
यथा च गृहिणस्तोषो भवेद्वै वलिकर्मणा |
६ क
भीष्म उवाच:
तथा शतगुणा प्रीतिर्देवतानां स्म जाय़ते ||
६ ख
भीष्म उवाच:
एवं धूपप्रदानं च दीपदानं च साधवः |
७ क
भीष्म उवाच:
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ||
७ ख
भीष्म उवाच:
स्नानेनाद्भिश्च यत्कर्म क्रिय़ते वै विपश्चिता |
८ क
भीष्म उवाच:
नमस्कारप्रय़ुक्तेन तेन प्रीय़न्ति देवताः |
८ ख
भीष्म उवाच:
गृह्याश्च देवताः सर्वाः प्रीय़न्ते विधिनार्चिताः ||
८ ग
भीष्म उवाच:
इत्येतां वुद्धिमास्थाय़ नहुषः स नरेश्वरः |
९ क
भीष्म उवाच:
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ||
९ ख
भीष्म उवाच:
कस्यचित्त्वथ कालस्य भाग्यक्षय़ उपस्थिते |
१० क
भीष्म उवाच:
सर्वमेतदवज्ञाय़ न चकारैतदीदृशम् ||
१० ख
भीष्म उवाच:
ततः स परिहीणोऽभूत्सुरेन्द्रो वलिकर्मतः |
११ क
भीष्म उवाच:
धूपदीपोदकविधिं न यथावच्चकार ह |
११ ख
भीष्म उवाच:
ततोऽस्य यज्ञविषय़ो रक्षोभिः पर्यवाध्यत ||
११ ग
भीष्म उवाच:
अथागस्त्यमृषिश्रेष्ठं वाहनाय़ाजुहाव ह |
१२ क
भीष्म उवाच:
द्रुतं सरस्वतीकूलात्स्मय़न्निव महावलः ||
१२ ख
भीष्म उवाच:
ततो भृगुर्महातेजा मैत्रावरुणिमव्रवीत् |
१३ क
भीष्म उवाच:
निमीलय़स्व नय़ने जटा यावद्विशामि ते ||
१३ ख
भीष्म उवाच:
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः |
१४ क
भीष्म उवाच:
भृगुः स सुमहातेजाः पातनाय़ नृपस्य ह ||
१४ ख
भीष्म उवाच:
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय़ वै |
१५ क
भीष्म उवाच:
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ||
१५ ख
भीष्म उवाच:
योजय़स्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते |
१६ क
भीष्म उवाच:
यत्र वक्ष्यसि तत्र त्वां नय़िष्यामि सुराधिप ||
१६ ख
भीष्म उवाच:
इत्युक्तो नहुषस्तेन योजय़ामास तं मुनिम् |
१७ क
भीष्म उवाच:
भृगुस्तस्य जटासंस्थो वभूव हृषितो भृशम् ||
१७ ख
भीष्म उवाच:
न चापि दर्शनं तस्य चकार स भृगुस्तदा |
१८ क
भीष्म उवाच:
वरदानप्रभावज्ञो नहुषस्य महात्मनः ||
१८ ख
भीष्म उवाच:
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै |
१९ क
भीष्म उवाच:
तं तु राजा प्रतोदेन चोदय़ामास भारत ||
१९ ख
भीष्म उवाच:
न चुकोप स धर्मात्मा ततः पादेन देवराट् |
२० क
भीष्म उवाच:
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ||
२० ख
भीष्म उवाच:
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः |
२१ क
भीष्म उवाच:
शशाप वलवत्क्रुद्धो नहुषं पापचेतसम् ||
२१ ख
भृगुरु उवाच:
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् |
२२ क
भृगुरु उवाच:
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ||
२२ ख
भृगुरु उवाच:
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह |
२३ क
भृगुरु उवाच:
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ||
२३ ख
भृगुरु उवाच:
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते |
२४ क
भृगुरु उवाच:
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ||
२४ ख
भृगुरु उवाच:
स तु तैस्तैः प्रदानैश्च तपोभिर्निय़मैस्तथा |
२५ क
भृगुरु उवाच:
पतितोऽपि महाराज भूतले स्मृतिमानभूत् |
२५ ख
भृगुरु उवाच:
प्रसादय़ामास भृगुं शापान्तो मे भवेदिति ||
२५ ग
भृगुरु उवाच:
ततोऽगस्त्यः कृपाविष्टः प्रासादय़त तं भृगुम् |
२६ क
भृगुरु उवाच:
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ||
२६ ख
भृगुरु उवाच:
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः |
२७ क
भृगुरु उवाच:
स त्वां मोक्षय़िता शापादित्युक्त्वान्तरधीय़त ||
२७ ख
भृगुरु उवाच:
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः |
२८ क
भृगुरु उवाच:
स्वमाश्रमपदं प्राय़ात्पूज्यमानो द्विजातिभिः ||
२८ ख
भृगुरु उवाच:
नहुषोऽपि त्वय़ा राजंस्तस्माच्छापात्समुद्धृतः |
२९ क
भृगुरु उवाच:
जगाम व्रह्मसदनं पश्यतस्ते जनाधिप ||
२९ ख
भृगुरु उवाच:
तदा तु पातय़ित्वा तं नहुषं भूतले भृगुः |
३० क
भृगुरु उवाच:
जगाम व्रह्मसदनं व्रह्मणे च न्यवेदय़त् ||
३० ख
भृगुरु उवाच:
ततः शक्रं समानाय़्य देवानाह पितामहः |
३१ क
भृगुरु उवाच:
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् |
३१ ख
भृगुरु उवाच:
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ||
३१ ग
भृगुरु उवाच:
न च शक्यं विना राज्ञा सुरा वर्तय़ितुं क्वचित् |
३२ क
भृगुरु उवाच:
तस्मादय़ं पुनः शक्रो देवराज्येऽभिषिच्यताम् ||
३२ ख
भृगुरु उवाच:
एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् |
३३ क
भृगुरु उवाच:
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ||
३३ ख
भृगुरु उवाच:
सोऽभिषिक्तो भगवता देवराज्येन वासवः |
३४ क
भृगुरु उवाच:
व्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ||
३४ ख
भृगुरु उवाच:
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् |
३५ क
भृगुरु उवाच:
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ||
३५ ख
भृगुरु उवाच:
तस्माद्दीपाः प्रदातव्याः साय़ं वै गृहमेधिभिः |
३६ क
भृगुरु उवाच:
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदाय़कः |
३६ ख
भृगुरु उवाच:
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ||
३६ ग
भृगुरु उवाच:
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः |
३७ क
भृगुरु उवाच:
रूपवान्धनवांश्चापि नरो भवति दीपदः ||
३७ ख