वृहदश्व उवाच:
स नदीः पर्वतांश्चैव वनानि च सरांसि च |
१ क
वृहदश्व उवाच:
अचिरेणातिचक्राम खेचरः खे चरन्निव ||
१ ख
वृहदश्व उवाच:
तथा प्रय़ाते तु रथे तदा भाङ्गस्वरिर्नृपः |
२ क
वृहदश्व उवाच:
उत्तरीय़मथापश्यद्भ्रष्टं परपुरञ्जय़ः ||
२ ख
वृहदश्व उवाच:
ततः स त्वरमाणस्तु पटे निपतिते तदा |
३ क
वृहदश्व उवाच:
ग्रहीष्यामीति तं राजा नलमाह महामनाः ||
३ ख
वृहदश्व उवाच:
निगृह्णीष्व महावुद्धे हय़ानेतान्महाजवान् |
४ क
वृहदश्व उवाच:
वार्ष्णेय़ो यावदेतं मे पटमानय़तामिति ||
४ ख
वृहदश्व उवाच:
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव |
५ क
वृहदश्व उवाच:
योजनं समतिक्रान्तो न स शक्यस्त्वय़ा पुनः ||
५ ख
वृहदश्व उवाच:
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः |
६ क
वृहदश्व उवाच:
आससाद वने राजन्फलवन्तं विभीतकम् ||
६ ख
वृहदश्व उवाच:
तं दृष्ट्वा वाहुकं राजा त्वरमाणोऽभ्यभाषत |
७ क
वृहदश्व उवाच:
ममापि सूत पश्य त्वं सङ्ख्याने परमं वलम् ||
७ ख
वृहदश्व उवाच:
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन |
८ क
वृहदश्व उवाच:
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ||
८ ख
वृहदश्व उवाच:
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च वाहुक |
९ क
वृहदश्व उवाच:
पतितानि च यान्यत्र तत्रैकमधिकं शतम् |
९ ख
वृहदश्व उवाच:
एकपत्राधिकं पत्रं फलमेकं च वाहुक ||
९ ग
वृहदश्व उवाच:
पञ्च कोट्योऽथ पत्राणां द्वय़ोरपि च शाखय़ोः |
१० क
वृहदश्व उवाच:
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः |
१० ख
वृहदश्व उवाच:
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ||
१० ग
वृहदश्व उवाच:
ततो रथादवप्लुत्य राजानं वाहुकोऽव्रवीत् |
११ क
वृहदश्व उवाच:
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ||
११ ख
वृहदश्व उवाच:
अथ ते गणिते राजन्विद्यते न परोक्षता |
१२ क
वृहदश्व उवाच:
प्रत्यक्षं ते महाराज गणय़िष्ये विभीतकम् ||
१२ ख
वृहदश्व उवाच:
अहं हि नाभिजानामि भवेदेवं न वेति च |
१३ क
वृहदश्व उवाच:
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप |
१३ ख
वृहदश्व उवाच:
मुहूर्तमिव वार्ष्णेय़ो रश्मीन्यच्छतु वाजिनाम् ||
१३ ग
वृहदश्व उवाच:
तमव्रवीन्नृपः सूतं नाय़ं कालो विलम्वितुम् |
१४ क
वृहदश्व उवाच:
वाहुकस्त्वव्रवीदेनं परं यत्नं समास्थितः ||
१४ ख
वृहदश्व उवाच:
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् |
१५ क
वृहदश्व उवाच:
एष याति शिवः पन्था याहि वार्ष्णेय़सारथिः ||
१५ ख
वृहदश्व उवाच:
अव्रवीदृतुपर्णस्तं सान्त्वय़न्कुरुनन्दन |
१६ क
वृहदश्व उवाच:
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि वाहुक ||
१६ ख
वृहदश्व उवाच:
त्वत्कृते यातुमिच्छामि विदर्भान्हय़कोविद |
१७ क
वृहदश्व उवाच:
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ||
१७ ख
वृहदश्व उवाच:
कामं च ते करिष्यामि यन्मां वक्ष्यसि वाहुक |
१८ क
वृहदश्व उवाच:
विदर्भान्यदि यात्वाद्य सूर्यं दर्शय़ितासि मे ||
१८ ख
वृहदश्व उवाच:
अथाव्रवीद्वाहुकस्तं सङ्ख्याय़ेमं विभीतकम् |
१९ क
वृहदश्व उवाच:
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ||
१९ ख
वृहदश्व उवाच:
अकाम इव तं राजा गणय़स्वेत्युवाच ह |
२० क
वृहदश्व उवाच:
सोऽवतीर्य रथात्तूर्णं शातय़ामास तं द्रुमम् ||
२० ख
वृहदश्व उवाच:
ततः स विस्मय़ाविष्टो राजानमिदमव्रवीत् |
२१ क
वृहदश्व उवाच:
गणय़ित्वा यथोक्तानि तावन्त्येव फलानि च ||
२१ ख
वृहदश्व उवाच:
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते वलम् |
२२ क
वृहदश्व उवाच:
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञाय़ते नृप ||
२२ ख
वृहदश्व उवाच:
तमुवाच ततो राजा त्वरितो गमने तदा |
२३ क
वृहदश्व उवाच:
विद्ध्यक्षहृदय़ज्ञं मां सङ्ख्याने च विशारदम् ||
२३ ख
वृहदश्व उवाच:
वाहुकस्तमुवाचाथ देहि विद्यामिमां मम |
२४ क
वृहदश्व उवाच:
मत्तोऽपि चाश्वहृदय़ं गृहाण पुरुषर्षभ ||
२४ ख
वृहदश्व उवाच:
ऋतुपर्णस्ततो राजा वाहुकं कार्यगौरवात् |
२५ क
वृहदश्व उवाच:
हय़ज्ञानस्य लोभाच्च तथेत्येवाव्रवीद्वचः ||
२५ ख
वृहदश्व उवाच:
यथेष्टं त्वं गृहाणेदमक्षाणां हृदय़ं परम् |
२६ क
वृहदश्व उवाच:
निक्षेपो मेऽश्वहृदय़ं त्वय़ि तिष्ठतु वाहुक |
२६ ख
वृहदश्व उवाच:
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय़ वै ||
२६ ग
वृहदश्व उवाच:
तस्याक्षहृदय़ज्ञस्य शरीरान्निःसृतः कलिः |
२७ क
वृहदश्व उवाच:
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ||
२७ ख
वृहदश्व उवाच:
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः |
२८ क
वृहदश्व उवाच:
स तेन कर्शितो राजा दीर्घकालमनात्मवान् ||
२८ ख
वृहदश्व उवाच:
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः |
२९ क
वृहदश्व उवाच:
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ||
२९ ख
वृहदश्व उवाच:
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः |
३० क
वृहदश्व उवाच:
कोपं संय़च्छ नृपते कीर्तिं दास्यामि ते पराम् ||
३० ख
वृहदश्व उवाच:
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा |
३१ क
वृहदश्व उवाच:
यदा त्वय़ा परित्यक्ता ततोऽहं भृशपीडितः ||
३१ ख
वृहदश्व उवाच:
अवसं त्वय़ि राजेन्द्र सुदुःखमपराजित |
३२ क
वृहदश्व उवाच:
विषेण नागराजस्य दह्यमानो दिवानिशम् ||
३२ ख
वृहदश्व उवाच:
ये च त्वां मनुजा लोके कीर्तय़िष्यन्त्यतन्द्रिताः |
३३ क
वृहदश्व उवाच:
मत्प्रसूतं भय़ं तेषां न कदाचिद्भविष्यति ||
३३ ख
वृहदश्व उवाच:
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः |
३४ क
वृहदश्व उवाच:
ततो भीतः कलिः क्षिप्रं प्रविवेश विभीतकम् |
३४ ख
वृहदश्व उवाच:
कलिस्त्वन्येन नादृश्यत्कथय़न्नैषधेन वै ||
३४ ग
वृहदश्व उवाच:
ततो गतज्वरो राजा नैषधः परवीरहा |
३५ क
वृहदश्व उवाच:
सम्प्रनष्टे कलौ राजन्सङ्ख्याय़ाथ फलान्युत ||
३५ ख
वृहदश्व उवाच:
मुदा परमय़ा युक्तस्तेजसा च परेण ह |
३६ क
वृहदश्व उवाच:
रथमारुह्य तेजस्वी प्रय़यौ जवनैर्हय़ैः |
३६ ख
वृहदश्व उवाच:
विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रय़ात् ||
३६ ग
वृहदश्व उवाच:
हय़ोत्तमानुत्पततो द्विजानिव पुनः पुनः |
३७ क
वृहदश्व उवाच:
नलः सञ्चोदय़ामास प्रहृष्टेनान्तरात्मना ||
३७ ख
वृहदश्व उवाच:
विदर्भाभिमुखो राजा प्रय़यौ स महामनाः |
३८ क
वृहदश्व उवाच:
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ||
३८ ख
वृहदश्व उवाच:
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते |
३९ क
वृहदश्व उवाच:
विमुक्तः कलिना राजन्रूपमात्रविय़ोजितः ||
३९ ख