chevron_left उद्योग पर्व अध्याय १०३
कण्व उवाच:
गरुडस्तत्तु शुश्राव यथावृत्तं महावलः |
१ क
कण्व उवाच:
आय़ुःप्रदानं शक्रेण कृतं नागस्य भारत ||
१ ख
कण्व उवाच:
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः |
२ क
कण्व उवाच:
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ||
२ ख
गरुड उवाच:
भगवन्किमवज्ञानात्क्षुधां प्रति भय़े मम |
३ क
गरुड उवाच:
कामकारवरं दत्त्वा पुनश्चलितवानसि ||
३ ख
गरुड उवाच:
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे |
४ क
गरुड उवाच:
आहारो विहितो धात्रा किमर्थं वार्यते त्वय़ा ||
४ ख
गरुड उवाच:
वृतश्चैष महानागः स्थापितः समय़श्च मे |
५ क
गरुड उवाच:
अनेन च मय़ा देव भर्तव्यः प्रसवो महान् ||
५ ख
गरुड उवाच:
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे |
६ क
गरुड उवाच:
क्रीडसे कामकारेण देवराज यथेच्छकम् ||
६ ख
गरुड उवाच:
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम |
७ क
गरुड उवाच:
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ||
७ ख
गरुड उवाच:
एतच्चैवाहमर्हामि भूय़श्च वलवृत्रहन् |
८ क
गरुड उवाच:
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ||
८ ख
गरुड उवाच:
त्वय़ि तिष्ठति देवेश न विष्णुः कारणं मम |
९ क
गरुड उवाच:
त्रैलोक्यराज राज्यं हि त्वय़ि वासव शाश्वतम् ||
९ ख
गरुड उवाच:
ममापि दक्षस्य सुता जननी कश्यपः पिता |
१० क
गरुड उवाच:
अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ||
१० ख
गरुड उवाच:
असह्यं सर्वभूतानां ममापि विपुलं वलम् |
११ क
गरुड उवाच:
मय़ापि सुमहत्कर्म कृतं दैतेय़विग्रहे ||
११ ख
गरुड उवाच:
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः |
१२ क
गरुड उवाच:
प्रसभः कालकाक्षश्च मय़ापि दितिजा हताः ||
१२ ख
गरुड उवाच:
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् |
१३ क
गरुड उवाच:
वहामि चैवानुजं ते तेन मामवमन्यसे ||
१३ ख
गरुड उवाच:
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति वलवत्तरः |
१४ क
गरुड उवाच:
मय़ा योऽहं विशिष्टः सन्वहामीमं सवान्धवम् ||
१४ ख
गरुड उवाच:
अवज्ञाय़ तु यत्तेऽहं भोजनाद्व्यपरोपितः |
१५ क
गरुड उवाच:
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ||
१५ ख
गरुड उवाच:
अदित्यां य इमे जाता वलविक्रमशालिनः |
१६ क
गरुड उवाच:
त्वमेषां किल सर्वेषां विशेषाद्वलवत्तरः ||
१६ ख
गरुड उवाच:
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः |
१७ क
गरुड उवाच:
विमृश त्वं शनैस्तात को न्वत्र वलवानिति ||
१७ ख
कण्व उवाच:
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् |
१८ क
कण्व उवाच:
अक्षोभ्यं क्षोभय़ंस्तार्क्ष्यमुवाच रथचक्रभृत् ||
१८ ख
कण्व उवाच:
गरुत्मन्मन्यसेऽऽत्मानं वलवन्तं सुदुर्वलम् |
१९ क
कण्व उवाच:
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ||
१९ ख
कण्व उवाच:
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे |
२० क
कण्व उवाच:
अहमेवात्मनात्मानं वहामि त्वां च धारय़े ||
२० ख
कण्व उवाच:
इमं तावन्ममैकं त्वं वाहुं सव्येतरं वह |
२१ क
कण्व उवाच:
यद्येनं धारय़स्येकं सफलं ते विकत्थितम् ||
२१ ख
कण्व उवाच:
ततः स भगवांस्तस्य स्कन्धे वाहुं समासजत् |
२२ क
कण्व उवाच:
निपपात स भारार्तो विह्वलो नष्टचेतनः ||
२२ ख
कण्व उवाच:
यावान्हि भारः कृत्स्नाय़ाः पृथिव्याः पर्वतैः सह |
२३ क
कण्व उवाच:
एकस्या देहशाखाय़ास्तावद्भारममन्यत ||
२३ ख
कण्व उवाच:
न त्वेनं पीडय़ामास वलेन वलवत्तरः |
२४ क
कण्व उवाच:
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ||
२४ ख
कण्व उवाच:
विपक्षः स्रस्तकाय़श्च विचेता विह्वलः खगः |
२५ क
कण्व उवाच:
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ||
२५ ख
कण्व उवाच:
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः |
२६ क
कण्व उवाच:
विचेता विह्वलो दीनः किञ्चिद्वचनमव्रवीत् ||
२६ ख
कण्व उवाच:
भगवँल्लोकसारस्य सदृशेन वपुष्मता |
२७ क
कण्व उवाच:
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ||
२७ ख
कण्व उवाच:
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः |
२८ क
कण्व उवाच:
वलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ||
२८ ख
कण्व उवाच:
न विज्ञातं वलं देव मय़ा ते परमं विभो |
२९ क
कण्व उवाच:
तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ||
२९ ख
कण्व उवाच:
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः |
३० क
कण्व उवाच:
मैवं भूय़ इति स्नेहात्तदा चैनमुवाच ह ||
३० ख
कण्व उवाच:
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे |
३१ क
कण्व उवाच:
नासादय़सि तान्वीरांस्तावज्जीवसि पुत्रक ||
३१ ख
कण्व उवाच:
भीमः प्रहरतां श्रेष्ठो वाय़ुपुत्रो महावलः |
३२ क
कण्व उवाच:
धनञ्जय़श्चेन्द्रसुतो न हन्यातां तु कं रणे ||
३२ ख
कण्व उवाच:
विष्णुर्वाय़ुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ |
३३ क
कण्व उवाच:
एते देवास्त्वय़ा केन हेतुना शक्यमीक्षितुम् ||
३३ ख
कण्व उवाच:
तदलं ते विरोधेन शमं गच्छ नृपात्मज |
३४ क
कण्व उवाच:
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ||
३४ ख
कण्व उवाच:
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽय़ं महातपाः |
३५ क
कण्व उवाच:
माहात्म्यं यत्तदा विष्णोर्योऽय़ं चक्रगदाधरः ||
३५ ख
वैशम्पाय़न उवाच:
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः |
३६ क
वैशम्पाय़न उवाच:
राधेय़मभिसम्प्रेक्ष्य जहास स्वनवत्तदा ||
३६ ख
वैशम्पाय़न उवाच:
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः |
३७ क
वैशम्पाय़न उवाच:
ऊरुं गजकराकारं ताडय़न्निदमव्रवीत् ||
३७ ख
वैशम्पाय़न उवाच:
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः |
३८ क
वैशम्पाय़न उवाच:
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ||
३८ ख