वैशम्पाय़न उवाच:
तथा तु पृच्छन्तमतीव पार्था; न्वैचित्रवीर्यं तमचिन्तय़ित्वा |
१ क
वैशम्पाय़न उवाच:
उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षय़न्संसदि कौरवाणाम् ||
१ ख
वैशम्पाय़न उवाच:
मिथ्या प्रतिज्ञाय़ मय़ा यदस्त्रं; रामाद्धृतं व्रह्मपुरं पुरस्तात् |
२ क
वैशम्पाय़न उवाच:
विज्ञाय़ तेनास्मि तदैवमुक्त; स्तवान्तकालेऽप्रतिभास्यतीति ||
२ ख
वैशम्पाय़न उवाच:
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः |
३ क
वैशम्पाय़न उवाच:
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ||
३ ख
वैशम्पाय़न उवाच:
प्रसादितं ह्यस्य मय़ा मनोऽभू; च्छुश्रूषय़ा स्वेन च पौरुषेण |
४ क
वैशम्पाय़न उवाच:
ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ||
४ ख
वैशम्पाय़न उवाच:
निमेषमात्रं तमृषिप्रसाद; मवाप्य पाञ्चालकरूषमत्स्यान् |
५ क
वैशम्पाय़न उवाच:
निहत्य पार्थांश्च सपुत्रपौत्राँ; ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ||
५ ख
वैशम्पाय़न उवाच:
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः |
६ क
वैशम्पाय़न उवाच:
यथाप्रधानेन वलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ||
६ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतवुद्धे |
७ क
वैशम्पाय़न उवाच:
न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ||
७ ख
वैशम्पाय़न उवाच:
यत्खाण्डवं दाहय़ता कृतं हि; कृष्णद्वितीय़ेन धनञ्जय़ेन |
८ क
वैशम्पाय़न उवाच:
श्रुत्वैव तत्कर्म निय़न्तुमात्मा; शक्यस्त्वय़ा वै सह वान्धवेन ||
८ ख
वैशम्पाय़न उवाच:
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः |
९ क
वैशम्पाय़न उवाच:
भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ||
९ ख
वैशम्पाय़न उवाच:
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रय़त्नात् |
१० क
वैशम्पाय़न उवाच:
स पाण्डुपुत्राभिहतः शरौघैः; सह त्वय़ा यास्यति कर्ण नाशम् ||
१० ख
वैशम्पाय़न उवाच:
वाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः |
११ क
वैशम्पाय़न उवाच:
यस्त्वादृशानां च गरीय़सां च; हन्ता रिपूणां तुमुले प्रगाढे ||
११ ख
कर्ण उवाच:
असंशय़ं वृष्णिपतिर्यथोक्त; स्तथा च भूय़श्च ततो महात्मा |
१२ क
कर्ण उवाच:
अहं यदुक्तः परुषं तु किं चि; त्पितामहस्तस्य फलं शृणोतु ||
१२ ख
कर्ण उवाच:
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये; पितामहो द्रक्ष्यति मां सभाय़ाम् |
१३ क
कर्ण उवाच:
त्वय़ि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ||
१३ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा स महाधनुष्मा; न्हित्वा सभां स्वं भवनं जगाम |
१४ क
वैशम्पाय़न उवाच:
भीष्मस्तु दुर्योधनमेव राज; न्मध्ये कुरूणां प्रहसन्नुवाच ||
१४ ख
वैशम्पाय़न उवाच:
सत्यप्रतिज्ञः किल सूतपुत्र; स्तथा स भारं विषहेत कस्मात् |
१५ क
वैशम्पाय़न उवाच:
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षय़ं पश्यत भीमसेनात् ||
१५ ख
वैशम्पाय़न उवाच:
आवन्त्यकालिङ्गजय़द्रथेषु; वेदिध्वजे तिष्ठति वाह्लिके च |
१६ क
वैशम्पाय़न उवाच:
अहं हनिष्यामि सदा परेषां; सहस्रशश्चाय़ुतशश्च योधान् ||
१६ ख
वैशम्पाय़न उवाच:
यदैव रामे भगवत्यनिन्द्ये; व्रह्म व्रुवाणः कृतवांस्तदस्त्रम् |
१७ क
वैशम्पाय़न उवाच:
तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ||
१७ ख
वैशम्पाय़न उवाच:
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे |
१८ क
वैशम्पाय़न उवाच:
वैचित्रवीर्यस्य सुतोऽल्पवुद्धि; र्दुर्योधनः शान्तनवं वभाषे ||
१८ ख