chevron_left द्रोण पर्व अध्याय १०३
सञ्जय़ उवाच:
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा |
१ क
सञ्जय़ उवाच:
दिधारय़िषुराचार्यः शरवर्षैरवाकिरत् ||
१ ख
सञ्जय़ उवाच:
पिवन्निव शरौघांस्तान्द्रोणचापवरातिगान् |
२ क
सञ्जय़ उवाच:
सोऽभ्यवर्तत सोदर्यान्माय़या मोहय़न्वलम् ||
२ ख
सञ्जय़ उवाच:
तं मृधे वेगमास्थाय़ परं परमधन्विनः |
३ क
सञ्जय़ उवाच:
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारय़न् ||
३ ख
सञ्जय़ उवाच:
स तथा संवृतो भीमः प्रहसन्निव भारत |
४ क
सञ्जय़ उवाच:
उदय़च्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् |
४ ख
सञ्जय़ उवाच:
अवासृजच्च वेगेन तेषु तान्प्रमथद्वली ||
४ ग
सञ्जय़ उवाच:
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना |
५ क
सञ्जय़ उवाच:
घोषेण महता राजन्पूरय़ित्वेव मेदिनीम् |
५ ख
सञ्जय़ उवाच:
ज्वलन्ती तेजसा भीमा त्रासय़ामास ते सुतान् ||
५ ग
सञ्जय़ उवाच:
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् |
६ क
सञ्जय़ उवाच:
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ||
६ ख
सञ्जय़ उवाच:
तं च शव्दमसंसह्यं तस्याः संलक्ष्य मारिष |
७ क
सञ्जय़ उवाच:
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ||
७ ख
सञ्जय़ उवाच:
स तान्विद्राव्य कौन्तेय़ः सङ्ख्येऽमित्रान्दुरासदः |
८ क
सञ्जय़ उवाच:
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ||
८ ख
सञ्जय़ उवाच:
तथा तं विप्रकुर्वाणं रथय़ूथपय़ूथपम् |
९ क
सञ्जय़ उवाच:
भारद्वाजो महाराज भीमसेनं समभ्ययात् ||
९ ख
सञ्जय़ उवाच:
द्रोणस्तु समरे भीमं वारय़ित्वा शरोर्मिभिः |
१० क
सञ्जय़ उवाच:
अकरोत्सहसा नादं पाण्डूनां भय़मादधत् ||
१० ख
सञ्जय़ उवाच:
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् |
११ क
सञ्जय़ उवाच:
द्रोणस्य च महाराज भीमस्य च महात्मनः ||
११ ख
सञ्जय़ उवाच:
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः |
१२ क
सञ्जय़ उवाच:
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ||
१२ ख
सञ्जय़ उवाच:
ततो रथादवप्लुत्य वेगमास्थाय़ पाण्डवः |
१३ क
सञ्जय़ उवाच:
निमील्य नय़ने राजन्पदातिर्द्रोणमभ्ययात् ||
१३ ख
सञ्जय़ उवाच:
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलय़ा |
१४ क
सञ्जय़ उवाच:
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ||
१४ ख
सञ्जय़ उवाच:
स वध्यमानः समरे रथं द्रोणस्य मारिष |
१५ क
सञ्जय़ उवाच:
ईषाय़ां पाणिना गृह्य प्रचिक्षेप महावलः ||
१५ ख
सञ्जय़ उवाच:
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संय़ुगे |
१६ क
सञ्जय़ उवाच:
रथमन्यं समास्थाय़ व्यूहद्वारमुपाय़यौ ||
१६ ख
सञ्जय़ उवाच:
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदय़त् |
१७ क
सञ्जय़ उवाच:
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ||
१७ ख
सञ्जय़ उवाच:
ततः स्वरथमास्थाय़ भीमसेनो महावलः |
१८ क
सञ्जय़ उवाच:
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ||
१८ ख
सञ्जय़ उवाच:
स मृद्नन्क्षत्रिय़ानाजौ वातो वृक्षानिवोद्धतः |
१९ क
सञ्जय़ उवाच:
अगच्छद्दारय़न्सेनां सिन्धुवेगो नगानिव ||
१९ ख
सञ्जय़ उवाच:
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् |
२० क
सञ्जय़ उवाच:
प्रमथ्य वहुधा राजन्भीमसेनः समभ्ययात् ||
२० ख
सञ्जय़ उवाच:
सन्त्रासय़न्ननीकानि तलशव्देन मारिष |
२१ क
सञ्जय़ उवाच:
अजय़त्सर्वसैन्यानि शार्दूल इव गोवृषान् ||
२१ ख
सञ्जय़ उवाच:
भोजानीकमतिक्रम्य काम्वोजानां च वाहिनीम् |
२२ क
सञ्जय़ उवाच:
तथा म्लेच्छगणांश्चान्यान्वहून्युद्धविशारदान् ||
२२ ख
सञ्जय़ उवाच:
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् |
२३ क
सञ्जय़ उवाच:
रथेन यत्तः कौन्तेय़ो वेगेन प्रय़यौ तदा ||
२३ ख
सञ्जय़ उवाच:
भीमसेनो महाराज द्रष्टुकामो धनञ्जय़म् |
२४ क
सञ्जय़ उवाच:
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ||
२४ ख
सञ्जय़ उवाच:
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् |
२५ क
सञ्जय़ उवाच:
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ||
२५ ख
सञ्जय़ उवाच:
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् |
२६ क
सञ्जय़ उवाच:
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ||
२६ ख
सञ्जय़ उवाच:
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह |
२७ क
सञ्जय़ उवाच:
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ||
२७ ख
सञ्जय़ उवाच:
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः |
२८ क
सञ्जय़ उवाच:
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ||
२८ ख
सञ्जय़ उवाच:
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः |
२९ क
सञ्जय़ उवाच:
अप्रीय़त महाराज धर्मपुत्रो युधिष्ठिरः ||
२९ ख
सञ्जय़ उवाच:
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् |
३० क
सञ्जय़ उवाच:
धनञ्जय़स्य च रणे जय़माशास्तवान्विभुः ||
३० ख
सञ्जय़ उवाच:
तथा तु नर्दमाने वै भीमसेने रणोत्कटे |
३१ क
सञ्जय़ उवाच:
स्मितं कृत्वा महावाहुर्धर्मपुत्रो युधिष्ठिरः ||
३१ ख
सञ्जय़ उवाच:
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः |
३२ क
सञ्जय़ उवाच:
दत्ता भीम त्वय़ा संवित्कृतं गुरुवचस्तथा ||
३२ ख
सञ्जय़ उवाच:
न हि तेषां जय़ो युद्धे येषां द्वेष्टासि पाण्डव |
३३ क
सञ्जय़ उवाच:
दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जय़ः ||
३३ ख
सञ्जय़ उवाच:
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः |
३४ क
सञ्जय़ उवाच:
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जय़ौ ||
३४ ख
सञ्जय़ उवाच:
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः |
३५ क
सञ्जय़ उवाच:
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ||
३५ ख
सञ्जय़ उवाच:
यस्य वाहुवलं सर्वे वय़माश्रित्य जीविताः |
३६ क
सञ्जय़ उवाच:
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ||
३६ ख
सञ्जय़ उवाच:
निवातकवचा येन देवैरपि सुदुर्जय़ाः |
३७ क
सञ्जय़ उवाच:
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ||
३७ ख
सञ्जय़ उवाच:
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् |
३८ क
सञ्जय़ उवाच:
योऽजय़न्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ||
३८ ख
सञ्जय़ उवाच:
कालकेय़सहस्राणि चतुर्दश महारणे |
३९ क
सञ्जय़ उवाच:
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ||
३९ ख
सञ्जय़ उवाच:
गन्धर्वराजं वलिनं दुर्योधनकृतेन वै |
४० क
सञ्जय़ उवाच:
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ||
४० ख
सञ्जय़ उवाच:
किरीटमाली वलवाञ्श्वेताश्वः कृष्णसारथिः |
४१ क
सञ्जय़ उवाच:
मम प्रिय़श्च सततं दिष्ट्या जीवति फल्गुनः ||
४१ ख
सञ्जय़ उवाच:
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम् |
४२ क
सञ्जय़ उवाच:
जय़द्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः |
४२ ख
सञ्जय़ उवाच:
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जय़ः ||
४२ ग
सञ्जय़ उवाच:
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् |
४३ क
सञ्जय़ उवाच:
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ||
४३ ख
सञ्जय़ उवाच:
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः |
४४ क
सञ्जय़ उवाच:
नन्दय़िष्यत्यमित्राणि फल्गुनेन निपातितः ||
४४ ख
सञ्जय़ उवाच:
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् |
४५ क
सञ्जय़ उवाच:
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ||
४५ ख
सञ्जय़ उवाच:
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संय़ुगे |
४६ क
सञ्जय़ उवाच:
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ||
४६ ख
सञ्जय़ उवाच:
दृष्ट्वा चान्यान्वहून्योधान्पातितान्धरणीतले |
४७ क
सञ्जय़ उवाच:
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ||
४७ ख
सञ्जय़ उवाच:
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति |
४८ क
सञ्जय़ उवाच:
शेषस्य रक्षणार्थं च सन्धास्यति सुय़ोधनः ||
४८ ख
सञ्जय़ उवाच:
एवं वहुविधं तस्य चिन्तय़ानस्य पार्थिव |
४९ क