सञ्जय़ उवाच:
अहं त्वामनुय़ास्यामि परान्विद्रावय़ञ्शरैः |
५० क
सञ्जय़ उवाच:
अभिद्रव सुसंरव्धो भीष्मं भीमपराक्रमम् ||
५० ख
सञ्जय़ उवाच:
न हि ते संय़ुगे पीडां शक्तः कर्तुं महावलः |
५१ क
सञ्जय़ उवाच:
तस्मादद्य महावाहो वीर भीष्ममभिद्रव ||
५१ ख
सञ्जय़ उवाच:
अहत्वा समरे भीष्मं यदि यास्यसि मारिष |
५२ क
सञ्जय़ उवाच:
अवहास्योऽस्य लोकस्य भविष्यसि मय़ा सह ||
५२ ख
सञ्जय़ उवाच:
नावहास्या यथा वीर भवेम परमाहवे |
५३ क
सञ्जय़ उवाच:
तथा कुरु रणे यत्नं साधय़स्व पितामहम् ||
५३ ख
सञ्जय़ उवाच:
अहं ते रक्षणं युद्धे करिष्यामि परन्तप |
५४ क
सञ्जय़ उवाच:
वारय़न्रथिनः सर्वान्साधय़स्व पितामहम् ||
५४ ख
सञ्जय़ उवाच:
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुय़ोधनम् |
५५ क
सञ्जय़ उवाच:
चित्रसेनं विकर्णं च सैन्धवं च जय़द्रथम् ||
५५ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ काम्वोजं च सुदक्षिणम् |
५६ क
सञ्जय़ उवाच:
भगदत्तं तथा शूरं मागधं च महारथम् ||
५६ ख
सञ्जय़ उवाच:
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् |
५७ क
सञ्जय़ उवाच:
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः |
५७ ख
सञ्जय़ उवाच:
अहमावारय़िष्यामि वेलेव मकरालय़म् ||
५७ ग
सञ्जय़ उवाच:
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः |
५८ क
सञ्जय़ उवाच:
निवारय़िष्यामि रणे साधय़स्व पितामहम् ||
५८ ख