वैशम्पाय़न उवाच:
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् |
१ क
वैशम्पाय़न उवाच:
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ||
१ ख
वैशम्पाय़न उवाच:
पैतृष्वसेय़ाय़ स तामनपत्याय़ वीर्यवान् |
२ क
वैशम्पाय़न उवाच:
अग्र्यमग्रे प्रतिज्ञाय़ स्वस्यापत्यस्य वीर्यवान् ||
२ ख
वैशम्पाय़न उवाच:
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे |
३ क
वैशम्पाय़न उवाच:
प्रददौ कुन्तिभोजाय़ सखा सख्ये महात्मने ||
३ ख
वैशम्पाय़न उवाच:
सा निय़ुक्ता पितुर्गेहे देवतातिथिपूजने |
४ क
वैशम्पाय़न उवाच:
उग्रं पर्यचरद्घोरं व्राह्मणं संशितव्रतम् ||
४ ख
वैशम्पाय़न उवाच:
निगूढनिश्चय़ं धर्मे यं तं दुर्वाससं विदुः |
५ क
वैशम्पाय़न उवाच:
तमुग्रं संशितात्मानं सर्वय़त्नैरतोषय़त् ||
५ ख
वैशम्पाय़न उवाच:
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षय़ा |
६ क
वैशम्पाय़न उवाच:
अभिचाराभिसंय़ुक्तमव्रवीच्चैव तां मुनिः ||
६ ख
वैशम्पाय़न उवाच:
यं यं देवं त्वमेतेन मन्त्रेणावाहय़िष्यसि |
७ क
वैशम्पाय़न उवाच:
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ||
७ ख
वैशम्पाय़न उवाच:
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा |
८ क
वैशम्पाय़न उवाच:
कन्या सती देवमर्कमाजुहाव यशस्विनी ||
८ ख
वैशम्पाय़न उवाच:
सा ददर्श तमाय़ान्तं भास्करं लोकभावनम् |
९ क
वैशम्पाय़न उवाच:
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ||
९ ख
वैशम्पाय़न उवाच:
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः |
१० क
वैशम्पाय़न उवाच:
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् |
१० ख
वैशम्पाय़न उवाच:
आमुक्तकवचः श्रीमान्देवगर्भः श्रिय़ावृतः ||
१० ग
वैशम्पाय़न उवाच:
सहजं कवचं विभ्रत्कुण्डलोद्द्योतिताननः |
११ क
वैशम्पाय़न उवाच:
अजाय़त सुतः कर्णः सर्वलोकेषु विश्रुतः ||
११ ख
वैशम्पाय़न उवाच:
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः |
१२ क
वैशम्पाय़न उवाच:
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ||
१२ ख
वैशम्पाय़न उवाच:
गूहमानापचारं तं वन्धुपक्षभय़ात्तदा |
१३ क
वैशम्पाय़न उवाच:
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ||
१३ ख
वैशम्पाय़न उवाच:
तमुत्सृष्टं तदा गर्भं राधाभर्ता महाय़शाः |
१४ क
वैशम्पाय़न उवाच:
पुत्रत्वे कल्पय़ामास सभार्यः सूतनन्दनः ||
१४ ख
वैशम्पाय़न उवाच:
नामधेय़ं च चक्राते तस्य वालस्य तावुभौ |
१५ क
वैशम्पाय़न उवाच:
वसुना सह जातोऽय़ं वसुषेणो भवत्विति ||
१५ ख
वैशम्पाय़न उवाच:
स वर्धमानो वलवान्सर्वास्त्रेषूद्यतोऽभवत् |
१६ क
वैशम्पाय़न उवाच:
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ||
१६ ख
वैशम्पाय़न उवाच:
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः |
१७ क
वैशम्पाय़न उवाच:
नादेय़ं व्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ||
१७ ख
वैशम्पाय़न उवाच:
तमिन्द्रो व्राह्मणो भूत्वा भिक्षार्थं भूतभावनः |
१८ क
वैशम्पाय़न उवाच:
कुण्डले प्रार्थय़ामास कवचं च महाद्युतिः ||
१८ ख
वैशम्पाय़न उवाच:
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् |
१९ क
वैशम्पाय़न उवाच:
कर्णस्तु कुण्डले छित्त्वा प्राय़च्छत्स कृताञ्जलिः ||
१९ ख
वैशम्पाय़न उवाच:
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमव्रवीत् |
२० क
वैशम्पाय़न उवाच:
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् |
२० ख
वैशम्पाय़न उवाच:
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनय़ा न भविष्यति ||
२० ग
वैशम्पाय़न उवाच:
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् |
२१ क
वैशम्पाय़न उवाच:
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ||
२१ ख