chevron_left भीष्म पर्व अध्याय १०४
धृतराष्ट्र उवाच:
कथं शिखण्डी गाङ्गेय़मभ्यवर्तत संय़ुगे |
१ क
धृतराष्ट्र उवाच:
पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
ततः प्रभाते विमले सूर्यस्योदय़नं प्रति |
२ क
सञ्जय़ उवाच:
वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ||
२ ख
सञ्जय़ उवाच:
ध्माय़त्सु दधिवर्णेषु जलजेषु समन्ततः |
३ क
सञ्जय़ उवाच:
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ||
३ ख
सञ्जय़ उवाच:
कृत्वा व्यूहं महाराज सर्वशत्रुनिवर्हणम् |
४ क
सञ्जय़ उवाच:
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ||
४ ख
सञ्जय़ उवाच:
चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जय़ौ |
५ क
सञ्जय़ उवाच:
पृष्ठतो द्रौपदेय़ाश्च सौभद्रश्चैव वीर्यवान् ||
५ ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः |
६ क
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ||
६ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः |
७ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन नादय़न्भरतर्षभ ||
७ ख
सञ्जय़ उवाच:
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः |
८ क
सञ्जय़ उवाच:
द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ||
८ ख
सञ्जय़ उवाच:
केकय़ा भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् |
९ क
सञ्जय़ उवाच:
जघनं पालय़ामास पाण्डुसैन्यस्य भारत ||
९ ख
सञ्जय़ उवाच:
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् |
१० क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ||
१० ख
सञ्जय़ उवाच:
तथैव कुरवो राजन्भीष्मं कृत्वा महावलम् |
११ क
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां प्रय़युः पाण्डवान्प्रति ||
११ ख
सञ्जय़ उवाच:
पुत्रैस्तव दुराधर्षै रक्षितः सुमहावलैः |
१२ क
सञ्जय़ उवाच:
ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ||
१२ ख
सञ्जय़ उवाच:
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः |
१३ क
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ||
१३ ख
सञ्जय़ उवाच:
काम्वोजराजो वलवांस्ततः पश्चात्सुदक्षिणः |
१४ क
सञ्जय़ उवाच:
मागधश्च जय़त्सेनः सौवलश्च वृहद्वलः ||
१४ ख
सञ्जय़ उवाच:
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः |
१५ क
सञ्जय़ उवाच:
जघनं पालय़ामासुस्तव सैन्यस्य भारत ||
१५ ख
सञ्जय़ उवाच:
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि |
१६ क
सञ्जय़ उवाच:
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ||
१६ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तव तेषां च भारत |
१७ क
सञ्जय़ उवाच:
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ||
१७ ख
सञ्जय़ उवाच:
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |
१८ क
सञ्जय़ उवाच:
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ||
१८ ख
सञ्जय़ उवाच:
तत्र भारत भीमेन पीडितास्तावकाः शरैः |
१९ क
सञ्जय़ उवाच:
रुधिरौघपरिक्लिन्नाः परलोकं यय़ुस्तदा ||
१९ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च सात्यकिश्च महारथः |
२० क
सञ्जय़ उवाच:
तव सैन्यं समासाद्य पीडय़ामासुरोजसा ||
२० ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे तावका भरतर्षभ |
२१ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं पाण्डवानां महद्वलम् ||
२१ ख
सञ्जय़ उवाच:
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः |
२२ क
सञ्जय़ उवाच:
सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः ||
२२ ख
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ |
२३ क
सञ्जय़ उवाच:
वध्यमानाः शितैर्वाणैः पाण्डवैः सहसृञ्जय़ैः ||
२३ ख
धृतराष्ट्र उवाच:
पीड्यमानं वलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी |
२४ क
धृतराष्ट्र उवाच:
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय़ ||
२४ ख
धृतराष्ट्र उवाच:
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः |
२५ क
धृतराष्ट्र उवाच:
विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय़ ||
२५ ख
सञ्जय़ उवाच:
आचक्षे ते महाराज यदकार्षीत्पितामहः |
२६ क
सञ्जय़ उवाच:
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जय़ैः ||
२६ ख
सञ्जय़ उवाच:
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज |
२७ क
सञ्जय़ उवाच:
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ||
२७ ख
सञ्जय़ उवाच:
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् |
२८ क
सञ्जय़ उवाच:
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ||
२८ ख
सञ्जय़ उवाच:
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जय़ान् |
२९ क
सञ्जय़ उवाच:
अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ||
२९ ख
सञ्जय़ उवाच:
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् |
३० क
सञ्जय़ उवाच:
आत्तशस्त्रान्रणे यत्तान्वारय़ामास साय़कैः |
३० ख
सञ्जय़ उवाच:
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ||
३० ग
सञ्जय़ उवाच:
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं वहु |
३१ क
सञ्जय़ उवाच:
रथिनोऽपातय़द्राजन्रथेभ्यः पुरुषर्षभः ||
३१ ख
सञ्जय़ उवाच:
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् |
३२ क
सञ्जय़ उवाच:
गजारोहान्गजेभ्यश्च परेषां विदधद्भय़म् ||
३२ ख
सञ्जय़ उवाच:
तमेकं समरे भीष्मं त्वरमाणं महारथम् |
३३ क
सञ्जय़ उवाच:
पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ||
३३ ख
सञ्जय़ उवाच:
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् |
३४ क
सञ्जय़ उवाच:
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारय़न्वपुः ||
३४ ख
सञ्जय़ उवाच:
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत |
३५ क
सञ्जय़ उवाच:
सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् ||
३५ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते |
३६ क
सञ्जय़ उवाच:
विस्मय़ं परमं प्राप्ताः पितामहमपूजय़न् ||
३६ ख
सञ्जय़ उवाच:
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव |
३७ क
सञ्जय़ उवाच:
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः |
३७ ख
सञ्जय़ उवाच:
न चैनं वारय़ामासुर्व्यात्ताननमिवान्तकम् ||
३७ ग
सञ्जय़ उवाच:
दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः |
३८ क
सञ्जय़ उवाच:
अदहन्निशितैर्वाणैः कृष्णवर्त्मेव काननम् ||
३८ ख
सञ्जय़ उवाच:
तं शिखण्डी त्रिभिर्वाणैरभ्यविध्यत्स्तनान्तरे |
३९ क
सञ्जय़ उवाच:
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ||
३९ ख
सञ्जय़ उवाच:
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् |
४० क
सञ्जय़ उवाच:
अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमव्रवीत् ||
४० ख
सञ्जय़ उवाच:
काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन |
४१ क
सञ्जय़ उवाच:
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ||
४१ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः |
४२ क
सञ्जय़ उवाच:
उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ||
४२ ख
सञ्जय़ उवाच:
जानामि त्वां महावाहो क्षत्रिय़ाणां क्षय़ङ्करम् |
४३ क
सञ्जय़ उवाच:
मय़ा श्रुतं च ते युद्धं जामदग्न्येन वै सह ||
४३ ख
सञ्जय़ उवाच:
दिव्यश्च ते प्रभावोऽय़ं स मय़ा वहुशः श्रुतः |
४४ क
सञ्जय़ उवाच:
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वय़ा सह ||
४४ ख
सञ्जय़ उवाच:
पाण्डवानां प्रिय़ं कुर्वन्नात्मनश्च नरोत्तम |
४५ क
सञ्जय़ उवाच:
अद्य त्वा योधय़िष्यामि रणे पुरुषसत्तम ||
४५ ख
सञ्जय़ उवाच:
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः |
४६ क
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ||
४६ ख
सञ्जय़ उवाच:
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे |
४७ क
सञ्जय़ उवाच:
सुदृष्टः क्रिय़तां भीष्म लोकोऽय़ं समितिञ्जय़ ||
४७ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः |
४८ क
सञ्जय़ उवाच:
अविध्यत रणे राजन्प्रणुन्नं वाक्यसाय़कैः ||
४८ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः |
४९ क
सञ्जय़ उवाच:
कालोऽय़मिति सञ्चिन्त्य शिखण्डिनमचोदय़त् ||
४९ ख