धृतराष्ट्र उवाच:
तथा तु नर्दमानं तं भीमसेनं महावलम् |
१ क
धृतराष्ट्र उवाच:
मेघस्तनितनिर्घोषं के वीराः पर्यवारय़न् ||
१ ख
धृतराष्ट्र उवाच:
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ||
२ ख
धृतराष्ट्र उवाच:
गदामुद्यच्छमानस्य कालस्येव महामृधे |
३ क
धृतराष्ट्र उवाच:
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ||
३ ख
धृतराष्ट्र उवाच:
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च |
४ क
धृतराष्ट्र उवाच:
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ||
४ ख
धृतराष्ट्र उवाच:
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः |
५ क
धृतराष्ट्र उवाच:
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ||
५ ख
धृतराष्ट्र उवाच:
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् |
६ क
धृतराष्ट्र उवाच:
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ||
६ ख
धृतराष्ट्र उवाच:
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संय़ुगे |
७ क
धृतराष्ट्र उवाच:
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारय़न् ||
७ ख
धृतराष्ट्र उवाच:
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः |
८ क
धृतराष्ट्र उवाच:
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय़ ||
८ ख
सञ्जय़ उवाच:
तथा तु नर्दमानं तं भीमसेनं महारथम् |
९ क
सञ्जय़ उवाच:
तुमुलेनैव शव्देन कर्णोऽप्यभ्यपतद्वली ||
९ ख
सञ्जय़ उवाच:
व्याक्षिपन्वलवच्चापमतिमात्रममर्षणः |
१० क
सञ्जय़ उवाच:
कर्णस्तु युद्धमाकाङ्क्षन्दर्शय़िष्यन्वलं वली ||
१० ख
सञ्जय़ उवाच:
प्रावेपन्निव गात्राणि कर्णभीमसमागमे |
११ क
सञ्जय़ उवाच:
रथिनां सादिनां चैव तय़ोः श्रुत्वा तलस्वनम् ||
११ ख
सञ्जय़ उवाच:
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे |
१२ क
सञ्जय़ उवाच:
खं च भूमिं च सम्वद्धां मेनिरे क्षत्रिय़र्षभाः ||
१२ ख
सञ्जय़ उवाच:
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः |
१३ क
सञ्जय़ उवाच:
समरे सर्वय़ोधानां धनूंष्यभ्यपतन्क्षितौ ||
१३ ख
सञ्जय़ उवाच:
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |
१४ क
सञ्जय़ उवाच:
वाहनानि महाराज वभूवुर्विमनांसि च ||
१४ ख
सञ्जय़ उवाच:
प्रादुरासन्निमित्तानि घोराणि च वहूनि च |
१५ क
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ||
१५ ख
सञ्जय़ उवाच:
ततः कर्णस्तु विंशत्या शराणां भीममार्दय़त् |
१६ क
सञ्जय़ उवाच:
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ||
१६ ख
सञ्जय़ उवाच:
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पय़द्रणे |
१७ क
सञ्जय़ उवाच:
साय़कानां चतुःषष्ट्या क्षिप्रकारी महावलः ||
१७ ख
सञ्जय़ उवाच:
तस्य कर्णो महेष्वासः साय़कांश्चतुरोऽक्षिपत् |
१८ क
सञ्जय़ उवाच:
असम्प्राप्तांस्तु तान्भीमः साय़कैर्नतपर्वभिः |
१८ ख
सञ्जय़ उवाच:
चिच्छेद वहुधा राजन्दर्शय़न्पाणिलाघवम् ||
१८ ग
सञ्जय़ उवाच:
तं कर्णश्छादय़ामास शरव्रातैरनेकशः |
१९ क
सञ्जय़ उवाच:
सञ्छाद्यमानः कर्णेन वहुधा पाण्डुनन्दनः ||
१९ ख
सञ्जय़ उवाच:
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः |
२० क
सञ्जय़ उवाच:
विव्याध चैनं वहुभिः साय़कैर्नतपर्वभिः ||
२० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सज्यं कृत्वा च सूतजः |
२१ क
सञ्जय़ उवाच:
विव्याध समरे भीमं भीमकर्मा महारथः ||
२१ ख
सञ्जय़ उवाच:
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः |
२२ क
सञ्जय़ उवाच:
निचखानोरसि तदा सूतपुत्रस्य वेगितः ||
२२ ख
सञ्जय़ उवाच:
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा |
२३ क
सञ्जय़ उवाच:
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ||
२३ ख
सञ्जय़ उवाच:
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः |
२४ क
सञ्जय़ उवाच:
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजय़ः ||
२४ ख
सञ्जय़ उवाच:
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः |
२५ क
सञ्जय़ उवाच:
ससाय़कं धनुः कृत्वा भीमं विव्याध मारिष |
२५ ख
सञ्जय़ उवाच:
चिक्षेप च पुनर्वाणाञ्शतशोऽथ सहस्रशः ||
२५ ग
सञ्जय़ उवाच:
स छाद्यमानः सहसा कर्णेन दृढधन्विना |
२६ क
सञ्जय़ उवाच:
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मय़न्पाण्डुनन्दनः ||
२६ ख
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् |
२७ क
सञ्जय़ उवाच:
वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ||
२७ ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते |
२८ क
सञ्जय़ उवाच:
स्यन्दनं वृषसेनस्य समारोहन्महारथः ||
२८ ख
सञ्जय़ उवाच:
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् |
२९ क
सञ्जय़ उवाच:
ननाद सुमहानादं पर्जन्यनिनदोपमम् ||
२९ ख
सञ्जय़ उवाच:
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः |
३० क
सञ्जय़ उवाच:
कर्णं च निर्जितं मत्वा भीमसेनेन भारत ||
३० ख
सञ्जय़ उवाच:
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा |
३१ क
सञ्जय़ उवाच:
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् |
३१ ख
सञ्जय़ उवाच:
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यव्जमवादय़त् ||
३१ ग
सञ्जय़ उवाच:
तमन्तर्धाय़ निनदं ध्वनिर्भीमस्य नर्दतः |
३२ क
सञ्जय़ उवाच:
अश्रूय़त महाराज सर्वसैन्येषु भारत ||
३२ ख
सञ्जय़ उवाच:
ततो व्याय़च्छतामस्त्रैः पृथक्पृथगरिन्दमौ |
३३ क
सञ्जय़ उवाच:
मृदुपूर्वं च राधेय़ो दृढपूर्वं च पाण्डवः ||
३३ ख