गौतम उवाच:
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते |
५१ क
गौतम उवाच:
स्वय़म्भुभवने पुण्ये हस्तिनं मे यतिष्यति ||
५१ ख
धृतराष्ट्र उवाच:
निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः |
५२ क
धृतराष्ट्र उवाच:
अध्यात्मय़ोगसंस्थाने युक्ताः स्वर्गगतिं गताः ||
५२ ख
धृतराष्ट्र उवाच:
ते व्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः |
५३ क
धृतराष्ट्र उवाच:
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ||
५३ ख
गौतम उवाच:
रथन्तरं यत्र वृहच्च गीय़ते; यत्र वेदी पुण्डरीकैः स्तृणोति |
५४ क
गौतम उवाच:
यत्रोपय़ाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
५४ ख
गौतम उवाच:
वुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा |
५५ क
गौतम उवाच:
कच्चिन्न वाचा वृजिनं कदा चि; दकार्षं ते मनसोऽभिषङ्गात् ||
५५ ख
शक्र उवाच:
यस्मादिमं लोकपथं प्रजाना; मन्वागमं पदवादे गजस्य |
५६ क
शक्र उवाच:
तस्माद्भवान्प्रणतं मानुशास्तु; व्रवीषि यत्तत्करवाणि सर्वम् ||
५६ ख
गौतम उवाच:
श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि वालम् |
५७ क
गौतम उवाच:
यो मे वने वसतोऽभूद्द्वितीय़; स्तमेव मे देहि सुरेन्द्र नागम् ||
५७ ख
शक्र उवाच:
अय़ं सुतस्ते द्विजमुख्य नाग; श्चाघ्राय़ते त्वामभिवीक्षमाणः |
५८ क
शक्र उवाच:
पादौ च ते नासिकय़ोपजिघ्रते; श्रेय़ो मम ध्याहि नमश्च तेऽस्तु ||
५८ ख
गौतम उवाच:
शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्याय़ामि पूजां च सदा प्रय़ुञ्जे |
५९ क
गौतम उवाच:
ममापि त्वं शक्र शिवं ददस्व; त्वय़ा दत्तं प्रतिगृह्णामि नागम् ||
५९ ख
शक्र उवाच:
येषां वेदा निहिता वै गुहाय़ां; मनीषिणां सत्त्ववतां महात्मनाम् |
६० क
शक्र उवाच:
तेषां त्वय़ैकेन महात्मनास्मि; वुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ||
६० ख
शक्र उवाच:
हन्तैहि व्राह्मण क्षिप्रं सह पुत्रेण हस्तिना |
६१ क
शक्र उवाच:
प्राप्नुहि त्वं शुभाँल्लोकानह्नाय़ च चिराय़ च ||
६१ ख
भीष्म उवाच:
स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना |
६२ क
भीष्म उवाच:
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ||
६२ ख