वैशम्पाय़न उवाच:
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता |
१ क
वैशम्पाय़न उवाच:
दुहिता कुन्तिभोजस्य कृते पित्रा स्वय़ंवरे ||
१ ख
वैशम्पाय़न उवाच:
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महावलम् |
२ क
वैशम्पाय़न उवाच:
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ||
२ ख
वैशम्पाय़न उवाच:
स तय़ा कुन्तिभोजस्य दुहित्रा कुरुनन्दनः |
३ क
वैशम्पाय़न उवाच:
युय़ुजेऽमितसौभाग्यः पौलोम्या मघवानिव ||
३ ख
वैशम्पाय़न उवाच:
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् |
४ क
वैशम्पाय़न उवाच:
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ||
४ ख
वैशम्पाय़न उवाच:
सर्वराजसु विख्याता रूपेणासदृशी भुवि |
५ क
वैशम्पाय़न उवाच:
पाण्डोरर्थे परिक्रीता धनेन महता तदा |
५ ख
वैशम्पाय़न उवाच:
विवाहं कारय़ामास भीष्मः पाण्डोर्महात्मनः ||
५ ग
वैशम्पाय़न उवाच:
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् |
६ क
वैशम्पाय़न उवाच:
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मय़न्त नरा भुवि ||
६ ख
वैशम्पाय़न उवाच:
कृतोद्वाहस्ततः पाण्डुर्वलोत्साहसमन्वितः |
७ क
वैशम्पाय़न उवाच:
जिगीषमाणो वसुधां यय़ौ शत्रूननेकशः ||
७ ख
वैशम्पाय़न उवाच:
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः |
८ क
वैशम्पाय़न उवाच:
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ||
८ ख
वैशम्पाय़न उवाच:
ततः सेनामुपादाय़ पाण्डुर्नानाविधध्वजाम् |
९ क
वैशम्पाय़न उवाच:
प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ||
९ ख
वैशम्पाय़न उवाच:
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् |
१० क
वैशम्पाय़न उवाच:
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ||
१० ख
वैशम्पाय़न उवाच:
ततः कोशं समादाय़ वाहनानि वलानि च |
११ क
वैशम्पाय़न उवाच:
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ||
११ ख
वैशम्पाय़न उवाच:
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ |
१२ क
वैशम्पाय़न उवाच:
स्ववाहुवलवीर्येण कुरूणामकरोद्यशः ||
१२ ख
वैशम्पाय़न उवाच:
तं शरौघमहाज्वालमस्त्रार्चिषमरिन्दमम् |
१३ क
वैशम्पाय़न उवाच:
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ||
१३ ख
वैशम्पाय़न उवाच:
ते ससेनाः ससेनेन विध्वंसितवला नृपाः |
१४ क
वैशम्पाय़न उवाच:
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ||
१४ ख
वैशम्पाय़न उवाच:
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः |
१५ क
वैशम्पाय़न उवाच:
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम् ||
१५ ख
वैशम्पाय़न उवाच:
तं कृताञ्जलय़ः सर्वे प्रणता वसुधाधिपाः |
१६ क
वैशम्पाय़न उवाच:
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ||
१६ ख
वैशम्पाय़न उवाच:
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा |
१७ क
वैशम्पाय़न उवाच:
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ||
१७ ख
वैशम्पाय़न उवाच:
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् |
१८ क
वैशम्पाय़न उवाच:
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ||
१८ ख
वैशम्पाय़न उवाच:
तदादाय़ यय़ौ पाण्डुः पुनर्मुदितवाहनः |
१९ क
वैशम्पाय़न उवाच:
हर्षय़िष्यन्स्वराष्ट्राणि पुरं च गजसाह्वय़म् ||
१९ ख
वैशम्पाय़न उवाच:
शन्तनो राजसिंहस्य भरतस्य च धीमतः |
२० क
वैशम्पाय़न उवाच:
प्रनष्टः कीर्तिजः शव्दः पाण्डुना पुनरुद्धृतः ||
२० ख
वैशम्पाय़न उवाच:
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च |
२१ क
वैशम्पाय़न उवाच:
ते नागपुरसिंहेन पाण्डुना करदाः कृताः ||
२१ ख
वैशम्पाय़न उवाच:
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः |
२२ क
वैशम्पाय़न उवाच:
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ||
२२ ख
वैशम्पाय़न उवाच:
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः |
२३ क
वैशम्पाय़न उवाच:
ते नदूरमिवाध्वानं गत्वा नागपुरालय़ाः |
२३ ख
वैशम्पाय़न उवाच:
आवृतं ददृशुर्लोकं हृष्टा वहुविधैर्जनैः ||
२३ ग
वैशम्पाय़न उवाच:
नानाय़ानसमानीतै रत्नैरुच्चावचैस्तथा |
२४ क
वैशम्पाय़न उवाच:
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः |
२४ ख
वैशम्पाय़न उवाच:
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ||
२४ ग
वैशम्पाय़न उवाच:
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः |
२५ क
वैशम्पाय़न उवाच:
यथार्हं मानय़ामास पौरजानपदानपि ||
२५ ख
वैशम्पाय़न उवाच:
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् |
२६ क
वैशम्पाय़न उवाच:
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तय़त् ||
२६ ख
वैशम्पाय़न उवाच:
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः |
२७ क
वैशम्पाय़न उवाच:
हर्षय़न्सर्वशः पौरान्विवेश गजसाह्वय़म् ||
२७ ख