chevron_left शान्ति पर्व अध्याय १०५
युधिष्ठिर उवाच:
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रवाधितः |
१ क
युधिष्ठिर उवाच:
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ||
१ ख
भीष्म उवाच:
अत्राय़ं क्षेमदर्शीय़मितिहासोऽनुगीय़ते |
२ क
भीष्म उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि तन्निवोध युधिष्ठिर ||
२ ख
भीष्म उवाच:
क्षेमदर्शं नृपसुतं यत्र क्षीणवलं पुरा |
३ क
भीष्म उवाच:
मुनिः कालकवृक्षीय़ आजगामेति नः श्रुतम् |
३ ख
भीष्म उवाच:
तं पप्रच्छोपसङ्गृह्य कृच्छ्रामापदमास्थितः ||
३ ग
भीष्म उवाच:
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः |
४ क
भीष्म उवाच:
अलव्ध्वा मद्विधो राज्यं व्रह्मन्किं कर्तुमर्हति ||
४ ख
भीष्म उवाच:
अन्यत्र मरणात्स्तेय़ादन्यत्र परसंश्रय़ात् |
५ क
भीष्म उवाच:
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ||
५ ख
भीष्म उवाच:
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा |
६ क
भीष्म उवाच:
वहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ||
६ ख
भीष्म उवाच:
निर्विद्य हि नरः कामान्निय़म्य सुखमेधते |
७ क
भीष्म उवाच:
त्यक्त्वा प्रीतिं च शोकं च लव्ध्वाप्रीतिमय़ं वसु ||
७ ख
भीष्म उवाच:
सुखमर्थाश्रय़ं येषामनुशोचामि तानहम् |
८ क
भीष्म उवाच:
मम ह्यर्थाः सुवहवो नष्टाः स्वप्न इवागताः ||
८ ख
भीष्म उवाच:
दुष्करं वत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये |
९ क
भीष्म उवाच:
वय़ं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ||
९ ख
भीष्म उवाच:
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रिय़श्च्युतम् |
१० क
भीष्म उवाच:
यदन्यत्सुखमस्तीह तद्व्रह्मन्ननुशाधि माम् ||
१० ख
भीष्म उवाच:
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता |
११ क
भीष्म उवाच:
मुनिः कालकवृक्षीय़ः प्रत्युवाच महाद्युतिः ||
११ ख
भीष्म उवाच:
पुरस्तादेव ते वुद्धिरिय़ं कार्या विजानतः |
१२ क
भीष्म उवाच:
अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ||
१२ ख
भीष्म उवाच:
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् |
१३ क
भीष्म उवाच:
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ||
१३ ख
भीष्म उवाच:
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति |
१४ क
भीष्म उवाच:
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ||
१४ ख
भीष्म उवाच:
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे |
१५ क
भीष्म उवाच:
सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसञ्ज्वरेत् ||
१५ ख
भीष्म उवाच:
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि |
१६ क
भीष्म उवाच:
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ||
१६ ख
भीष्म उवाच:
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः |
१७ क
भीष्म उवाच:
न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च ||
१७ ख
भीष्म उवाच:
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि |
१८ क
भीष्म उवाच:
वुद्ध्या चैवानुवुध्यस्व ध्रुवं हि न भविष्यसि ||
१८ ख
भीष्म उवाच:
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते |
१९ क
भीष्म उवाच:
अवश्यं न भविष्यामः सर्वं च न भविष्यति ||
१९ ख
भीष्म उवाच:
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः |
२० क
भीष्म उवाच:
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ||
२० ख
भीष्म उवाच:
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः |
२१ क
भीष्म उवाच:
नैतन्ममेति तन्मत्वा कुर्वीत प्रिय़मात्मनः ||
२१ ख
भीष्म उवाच:
अनागतं यन्न ममेति विद्या; दतिक्रान्तं यन्न ममेति विद्यात् |
२२ क
भीष्म उवाच:
दिष्टं वलीय़ इति मन्यमाना; स्ते पण्डितास्तत्सतां स्थानमाहुः ||
२२ ख
भीष्म उवाच:
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते |
२३ क
भीष्म उवाच:
वुद्धिपौरुषसम्पन्नास्त्वय़ा तुल्याधिका जनाः ||
२३ ख
भीष्म उवाच:
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः |
२४ क
भीष्म उवाच:
किं नु त्वं तैर्न वै श्रेय़ांस्तुल्यो वा वुद्धिपौरुषैः ||
२४ ख
राजपुत्र उवाच:
यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तय़े |
२५ क
राजपुत्र उवाच:
ह्रिय़ते सर्वमेवेदं कालेन महता द्विज ||
२५ ख
राजपुत्र उवाच:
तस्यैवं ह्रिय़माणस्य स्रोतसेव तपोधन |
२६ क
राजपुत्र उवाच:
फलमेतत्प्रपश्यामि यथालव्धेन वर्तय़े ||
२६ ख
मुनिरु उवाच:
अनागतमतीतं च यथा तथ्यविनिश्चय़ात् |
२७ क
मुनिरु उवाच:
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ||
२७ ख
मुनिरु उवाच:
अवाप्यान्कामय़स्वार्थान्नानवाप्यान्कदाचन |
२८ क
मुनिरु उवाच:
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ||
२८ ख
मुनिरु उवाच:
यथा लव्धोपपन्नार्थस्तथा कौसल्य रंस्यसे |
२९ क
मुनिरु उवाच:
कच्चिच्छुद्धस्वभावेन श्रिय़ा हीनो न शोचसि ||
२९ ख
मुनिरु उवाच:
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः |
३० क
मुनिरु उवाच:
धातारं गर्हते नित्यं लव्धार्थांश्च न मृष्यते ||
३० ख
मुनिरु उवाच:
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् |
३१ क
मुनिरु उवाच:
एतस्मात्कारणादेतद्दुःखं भूय़ोऽनुवर्तते ||
३१ ख
मुनिरु उवाच:
ईर्ष्यातिच्छेदसम्पन्ना राजन्पुरुषमानिनः |
३२ क
मुनिरु उवाच:
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ||
३२ ख
मुनिरु उवाच:
सहस्व श्रिय़मन्येषां यद्यपि त्वय़ि नास्ति सा |
३३ क
मुनिरु उवाच:
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः |
३३ ख
मुनिरु उवाच:
अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ||
३३ ग
मुनिरु उवाच:
श्रिय़ं च पुत्रपौत्रं च मनुष्या धर्मचारिणः |
३४ क
मुनिरु उवाच:
त्यागधर्मविदो वीराः स्वय़मेव त्यजन्त्युत ||
३४ ख
मुनिरु उवाच:
वहु सङ्कसुकं दृष्ट्वा विवित्सासाधनेन च |
३५ क
मुनिरु उवाच:
तथान्ये सन्त्यजन्त्येनं मत्वा परमदुर्लभम् ||
३५ ख
मुनिरु उवाच:
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे |
३६ क
मुनिरु उवाच:
अकाम्यान्कामय़ानोऽर्थान्पराचीनानुपद्रुतान् ||
३६ ख
मुनिरु उवाच:
तां वुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज |
३७ क
मुनिरु उवाच:
अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ||
३७ ख
मुनिरु उवाच:
अर्थाय़ैव हि केषाञ्चिद्धननाशो भवत्युत |
३८ क
मुनिरु उवाच:
अनन्त्यं तं सुखं मत्वा श्रिय़मन्यः परीक्षते ||
३८ ख
मुनिरु उवाच:
रममाणः श्रिय़ा कश्चिन्नान्यच्छ्रेय़ोऽभिमन्यते |
३९ क
मुनिरु उवाच:
तथा तस्येहमानस्य समारम्भो विनश्यति ||
३९ ख
मुनिरु उवाच:
कृच्छ्राल्लव्धमभिप्रेतं यदा कौसल्य नश्यति |
४० क
मुनिरु उवाच:
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ||
४० ख
मुनिरु उवाच:
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः |
४१ क
मुनिरु उवाच:
परत्र सुखमिच्छन्तो निर्विद्येय़ुश्च लौकिकात् ||
४१ ख
मुनिरु उवाच:
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः |
४२ क
मुनिरु उवाच:
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ||
४२ ख
मुनिरु उवाच:
पश्य तेषां कृपणतां पश्य तेषामवुद्धिताम् |
४३ क
मुनिरु उवाच:
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ||
४३ ख
मुनिरु उवाच:
सञ्चय़े च विनाशान्ते मरणान्ते च जीविते |
४४ क
मुनिरु उवाच:
संय़ोगे विप्रय़ोगान्ते को नु विप्रणय़ेन्मनः ||
४४ ख
मुनिरु उवाच:
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् |
४५ क
मुनिरु उवाच:
अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसञ्ज्वरेत् ||
४५ ख
मुनिरु उवाच:
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च |
४६ क
मुनिरु उवाच:
पश्य वुद्ध्या मनुष्याणां राजन्नापदमात्मनः |
४६ ख
मुनिरु उवाच:
निय़च्छ यच्छ संय़च्छ इन्द्रिय़ाणि मनो गिरम् ||
४६ ग
मुनिरु उवाच:
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च |
४७ क
मुनिरु उवाच:
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसम्भवे |
४७ ख
मुनिरु उवाच:
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ||
४७ ग
मुनिरु उवाच:
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः |
४८ क
मुनिरु उवाच:
व्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ||
४८ ख