युधिष्ठिर उवाच:
एको लोकः सुकृतिनां सर्वे त्वाहो पितामह |
१ क
युधिष्ठिर उवाच:
उत तत्रापि नानात्वं तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः |
२ क
भीष्म उवाच:
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
गौतमस्य मुनेस्तात संवादं वासवस्य च ||
३ ख
भीष्म उवाच:
व्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रिय़ः |
४ क
भीष्म उवाच:
महावने हस्तिशिशुं परिद्यूनममातृकम् ||
४ ख
भीष्म उवाच:
तं दृष्ट्वा जीवय़ामास सानुक्रोशो धृतव्रतः |
५ क
भीष्म उवाच:
स तु दीर्घेण कालेन वभूवातिवलो महान् ||
५ ख
भीष्म उवाच:
तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् |
६ क
भीष्म उवाच:
धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ||
६ ख
भीष्म उवाच:
ह्रिय़माणं तु तं दृष्ट्वा गौतमः संशितव्रतः |
७ क
भीष्म उवाच:
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ||
७ ख
भीष्म उवाच:
मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ |
८ क
भीष्म उवाच:
मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ||
८ ख
भीष्म उवाच:
इध्मोदकप्रदातारं शून्यपालकमाश्रमे |
९ क
भीष्म उवाच:
विनीतमाचार्यकुले सुय़ुक्तं गुरुकर्मणि ||
९ ख
भीष्म उवाच:
शिष्टं दान्तं कृतज्ञं च प्रिय़ं च सततं मम |
१० क
भीष्म उवाच:
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ||
१० ख
धृतराष्ट्र उवाच:
गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च |
११ क
धृतराष्ट्र उवाच:
अन्यच्च वित्तं विविधं महर्षे; किं व्राह्मणस्येह गजेन कृत्यम् ||
११ ख
गौतम उवाच:
त्वामेव गावोऽभि भवन्तु राज; न्दास्यः सनिष्का विविधं च रत्नम् |
१२ क
गौतम उवाच:
अन्यच्च वित्तं विविधं नरेन्द्र; किं व्राह्मणस्येह धनेन कृत्यम् ||
१२ ख
धृतराष्ट्र उवाच:
व्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र |
१३ क
धृतराष्ट्र उवाच:
स्वं वाहनं नय़तो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त ||
१३ ख
गौतम उवाच:
यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा |
१४ क
गौतम उवाच:
वैवस्वतस्य सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातय़िष्ये ||
१४ ख
धृतराष्ट्र उवाच:
ये निष्क्रिय़ा नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रिय़ार्थे निविष्टाः |
१५ क
धृतराष्ट्र उवाच:
यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||
१५ ख
गौतम उवाच:
वैवस्वती संय़मनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् |
१६ क
गौतम उवाच:
यत्रावला वलिनं यातय़न्ति; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
१६ ख
धृतराष्ट्र उवाच:
ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानय़न्तश्चरन्ति |
१७ क
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||
१७ ख
गौतम उवाच:
मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या |
१८ क
गौतम उवाच:
गन्धर्वय़क्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
१८ ख
धृतराष्ट्र उवाच:
अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रय़ं ददति व्राह्मणेभ्यः |
१९ क
धृतराष्ट्र उवाच:
शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषय़न्ति ||
१९ ख
गौतम उवाच:
मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् |
२० क
गौतम उवाच:
सुदर्शना यत्र जम्वूर्विशाला; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
२० ख
धृतराष्ट्र उवाच:
ये व्राह्मणा मृदवः सत्यशीला; वहुश्रुताः सर्वभूताभिरामाः |
२१ क
धृतराष्ट्र उवाच:
येऽधीय़न्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः ||
२१ ख
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र |
२२ क
धृतराष्ट्र उवाच:
यद्विद्यते विदितं स्थानमस्ति; तद्व्रूहि त्वं त्वरितो ह्येष यामि ||
२२ ख
गौतम उवाच:
सुपुष्पितं किंनरराजजुष्टं; प्रिय़ं वनं नन्दनं नारदस्य |
२३ क
गौतम उवाच:
गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
२३ ख
धृतराष्ट्र उवाच:
ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति |
२४ क
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||
२४ ख
गौतम उवाच:
यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र |
२५ क
गौतम उवाच:
यत्राग्निय़ौनाश्च वसन्ति विप्रा; ह्ययोनय़ः पर्वतय़ोनय़श्च ||
२५ ख
गौतम उवाच:
यत्र शक्रो वर्षति सर्वकामा; न्यत्र स्त्रिय़ः कामचाराश्चरन्ति |
२६ क
गौतम उवाच:
यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
२६ ख
धृतराष्ट्र उवाच:
ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति |
२७ क
धृतराष्ट्र उवाच:
न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ||
२७ ख
धृतराष्ट्र उवाच:
निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः |
२८ क
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||
२८ ख
गौतम उवाच:
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः |
२९ क
गौतम उवाच:
सोमस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातय़िष्ये ||
२९ ख
धृतराष्ट्र उवाच:
ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः |
३० क
धृतराष्ट्र उवाच:
येषामदेय़मर्हते नास्ति किं चि; त्सर्वातिथ्याः सुप्रसादा जनाश्च ||
३० ख
धृतराष्ट्र उवाच:
ये क्षन्तारो नाभिजल्पन्ति चान्या; ञ्शक्ता भूत्वा सततं पुण्यशीलाः |
३१ क
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||
३१ ख
गौतम उवाच:
ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः |
३२ क
गौतम उवाच:
आदित्यस्य सुमहान्तः सुवृत्ता; स्तत्र त्वाहं हस्तिनं यातय़िष्ये ||
३२ ख
धृतराष्ट्र उवाच:
स्वाध्याय़शीला गुरुशुश्रूषणे रता; स्तपस्विनः सुव्रताः सत्यसन्धाः |
३३ क
धृतराष्ट्र उवाच:
आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः ||
३३ ख
धृतराष्ट्र उवाच:
तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् |
३४ क
धृतराष्ट्र उवाच:
सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र ||
३४ ख
गौतम उवाच:
ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः |
३५ क
गौतम उवाच:
वरुणस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातय़िष्ये ||
३५ ख
धृतराष्ट्र उवाच:
चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति |
३६ क
धृतराष्ट्र उवाच:
ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्याय़ं त्रीणि वर्षाणि विप्राः ||
३६ ख
धृतराष्ट्र उवाच:
स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् |
३७ क
धृतराष्ट्र उवाच:
धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र ||
३७ ख
गौतम उवाच:
इन्द्रस्य लोका विरजा विशोका; दुरन्वय़ाः काङ्क्षिता मानवानाम् |
३८ क
गौतम उवाच:
तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातय़िष्ये ||
३८ ख
धृतराष्ट्र उवाच:
शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्याय़ी यश्च यज्वाप्रमत्तः |
३९ क
धृतराष्ट्र उवाच:
एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||
३९ ख
गौतम उवाच:
प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः |
४० क
गौतम उवाच:
मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातय़िष्ये ||
४० ख
धृतराष्ट्र उवाच:
ये राजानो राजसूय़ाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् |
४१ क
धृतराष्ट्र उवाच:
ये चाश्वमेधावभृथाप्लुताङ्गा; स्तेषां लोका धृतराष्ट्रो न तत्र ||
४१ ख
गौतम उवाच:
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः |
४२ क
गौतम उवाच:
तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातय़िष्ये ||
४२ ख
धृतराष्ट्र उवाच:
यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या |
४३ क
धृतराष्ट्र उवाच:
तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् ||
४३ ख
धृतराष्ट्र उवाच:
ये जीर्यन्ते व्रह्मचर्येण विप्रा; व्राह्मीं वाचं परिरक्षन्ति चैव |
४४ क
धृतराष्ट्र उवाच:
मनस्विनस्तीर्थय़ात्रापराय़णा; स्ते तत्र मोदन्ति गवां विमाने ||
४४ ख
धृतराष्ट्र उवाच:
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः |
४५ क
धृतराष्ट्र उवाच:
पुण्यं च नैमिषं तीर्थं वाहुदां करतोय़िनीम् ||
४५ ख
धृतराष्ट्र उवाच:
गय़ां गय़शिरश्चैव विपाशां स्थूलवालुकाम् |
४६ क
धृतराष्ट्र उवाच:
तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च ||
४६ ख
धृतराष्ट्र उवाच:
गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः |
४७ क
धृतराष्ट्र उवाच:
सरस्वतीदृषद्वत्यौ यमुनां ये प्रय़ान्ति च ||
४७ ख
धृतराष्ट्र उवाच:
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः |
४८ क
धृतराष्ट्र उवाच:
प्रय़ान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ||
४८ ख
गौतम उवाच:
यत्र शीतभय़ं नास्ति न चोष्णभय़मण्वपि |
४९ क
गौतम उवाच:
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ||
४९ ख
गौतम उवाच:
न द्वेष्यो न प्रिय़ः कश्चिन्न वन्धुर्न रिपुस्तथा |
५० क
गौतम उवाच:
न जरामरणे वापि न पुण्यं न च पातकम् ||
५० ख