नारद उवाच:
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता |
१ क
नारद उवाच:
नास्ते न शेते नाहारं कुरुते गालवस्तदा ||
१ ख
नारद उवाच:
त्वगस्थिभूतो हरिणश्चिन्ताशोकपराय़णः |
२ क
नारद उवाच:
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ||
२ ख
नारद उवाच:
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चय़ः कुतः |
३ क
नारद उवाच:
हय़ानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ||
३ ख
नारद उवाच:
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे |
४ क
नारद उवाच:
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ||
४ ख
नारद उवाच:
अहं पारं समुद्रस्य पृथिव्या वा परं परात् |
५ क
नारद उवाच:
गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ||
५ ख
नारद उवाच:
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः |
६ क
नारद उवाच:
ऋणं धारय़माणस्य कुतः सुखमनीहय़ा ||
६ ख
नारद उवाच:
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणय़मीप्सितम् |
७ क
नारद उवाच:
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ||
७ ख
नारद उवाच:
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः |
८ क
नारद उवाच:
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ||
८ ख
नारद उवाच:
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः |
९ क
नारद उवाच:
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ||
९ ख
नारद उवाच:
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् |
१० क
नारद उवाच:
अश्रद्धेय़ः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ||
१० ख
नारद उवाच:
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् |
११ क
नारद उवाच:
पापो ध्रुवमवाप्नोति विनाशं नाशय़न्कृतम् ||
११ ख
नारद उवाच:
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च |
१२ क
नारद उवाच:
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् |
१२ ख
नारद उवाच:
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ||
१२ ग
नारद उवाच:
अर्थना न मय़ा काचित्कृतपूर्वा दिवौकसाम् |
१३ क
नारद उवाच:
मानय़न्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ||
१३ ख
नारद उवाच:
अहं तु विवुधश्रेष्ठं देवं त्रिभुवनेश्वरम् |
१४ क
नारद उवाच:
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ||
१४ ख
नारद उवाच:
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् |
१५ क
नारद उवाच:
प्रय़तो द्रष्टुमिच्छामि महाय़ोगिनमव्ययम् ||
१५ ख
नारद उवाच:
एवमुक्ते सखा तस्य गरुडो विनतात्मजः |
१६ क
नारद उवाच:
दर्शय़ामास तं प्राह संहृष्टः प्रिय़काम्यया ||
१६ ख
नारद उवाच:
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् |
१७ क
नारद उवाच:
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ||
१७ ख
नारद उवाच:
विभवश्चास्ति मे विप्र वासवावरजो द्विज |
१८ क
नारद उवाच:
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ||
१८ ख
नारद उवाच:
स भवानेतु गच्छाव नय़िष्ये त्वां यथासुखम् |
१९ क
नारद उवाच:
देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ||
१९ ख