chevron_left भीष्म पर्व अध्याय १०५
धृतराष्ट्र उवाच:
कथं शिखण्डी गाङ्गेय़मभ्यधावत्पितामहम् |
१ क
धृतराष्ट्र उवाच:
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ||
१ ख
धृतराष्ट्र उवाच:
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदाय़ुधम् |
२ क
धृतराष्ट्र उवाच:
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ||
२ ख
धृतराष्ट्र उवाच:
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि |
३ क
धृतराष्ट्र उवाच:
अय़ुध्यत महावीर्यः पाण्डवैः सहसृञ्जय़ैः ||
३ ख
धृतराष्ट्र उवाच:
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् |
४ क
धृतराष्ट्र उवाच:
कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ||
४ ख
सञ्जय़ उवाच:
नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् |
५ क
सञ्जय़ उवाच:
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ |
५ ख
सञ्जय़ उवाच:
निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ||
५ ग
सञ्जय़ उवाच:
अनेकशतसाहस्रास्तावकानां महारथाः |
६ क
सञ्जय़ उवाच:
रथदन्तिगणा राजन्हय़ाश्चैव सुसज्जिताः |
६ ख
सञ्जय़ उवाच:
अभ्यवर्तन्त युद्धाय़ पुरस्कृत्य पितामहम् ||
६ ग
सञ्जय़ उवाच:
यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जय़ः |
७ क
सञ्जय़ उवाच:
पार्थानामकरोद्भीष्मः सततं समितिक्षय़म् ||
७ ख
सञ्जय़ उवाच:
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः |
८ क
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारय़न् ||
८ ख
सञ्जय़ उवाच:
दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् |
९ क
सञ्जय़ उवाच:
कीर्यमाणां शितैर्वाणैः शतशोऽथ सहस्रशः ||
९ ख
सञ्जय़ उवाच:
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज |
१० क
सञ्जय़ उवाच:
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ||
१० ख
सञ्जय़ उवाच:
अथोपाय़ान्महाराज सव्यसाची परन्तपः |
११ क
सञ्जय़ उवाच:
त्रासय़न्रथिनः सर्वान्वीभत्सुरपराजितः ||
११ ख
सञ्जय़ उवाच:
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः |
१२ क
सञ्जय़ उवाच:
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ||
१२ ख
सञ्जय़ उवाच:
तस्य शव्देन वित्रस्तास्तावका भरतर्षभ |
१३ क
सञ्जय़ उवाच:
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभय़ात् ||
१३ ख
सञ्जय़ उवाच:
जय़न्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् |
१४ क
सञ्जय़ उवाच:
दुर्योधनस्ततो भीष्ममव्रवीद्भृशपीडितः ||
१४ ख
सञ्जय़ उवाच:
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः |
१५ क
सञ्जय़ उवाच:
दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ||
१५ ख
सञ्जय़ उवाच:
पश्य सैन्यानि गाङ्गेय़ द्रवमाणानि सर्वशः |
१६ क
सञ्जय़ उवाच:
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संय़ुगे ||
१६ ख
सञ्जय़ उवाच:
यथा पशुगणान्पालः सङ्कालय़ति कानने |
१७ क
सञ्जय़ उवाच:
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ||
१७ ख
सञ्जय़ उवाच:
धनञ्जय़शरैर्भग्नं द्रवमाणमितस्ततः |
१८ क
सञ्जय़ उवाच:
भीमो ह्येष दुराधर्षो विद्रावय़ति मे वलम् ||
१८ ख
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ |
१९ क
सञ्जय़ उवाच:
अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ||
१९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः |
२० क
सञ्जय़ उवाच:
व्यद्रावय़ेतां सहसा सैन्यं मम महावलौ ||
२० ख
सञ्जय़ उवाच:
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महावलैः |
२१ क
सञ्जय़ उवाच:
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ||
२१ ख
सञ्जय़ उवाच:
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम |
२२ क
सञ्जय़ उवाच:
पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ||
२२ ख
सञ्जय़ उवाच:
एवमुक्तो महाराज पिता देवव्रतस्तव |
२३ क
सञ्जय़ उवाच:
चिन्तय़ित्वा मुहूर्तं तु कृत्वा निश्चय़मात्मनः |
२३ ख
सञ्जय़ उवाच:
तव सन्धारय़न्पुत्रमव्रवीच्छन्तनोः सुतः ||
२३ ग
सञ्जय़ उवाच:
दुर्योधन विजानीहि स्थिरो भव विशां पते |
२४ क
सञ्जय़ उवाच:
पूर्वकालं तव मय़ा प्रतिज्ञातं महावल ||
२४ ख
सञ्जय़ उवाच:
हत्वा दश सहस्राणि क्षत्रिय़ाणां महात्मनाम् |
२५ क
सञ्जय़ उवाच:
सङ्ग्रामाद्व्यपय़ातव्यमेतत्कर्म ममाह्निकम् |
२५ ख
सञ्जय़ उवाच:
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ||
२५ ग
सञ्जय़ उवाच:
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे |
२६ क
सञ्जय़ उवाच:
अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ||
२६ ख
सञ्जय़ उवाच:
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् |
२७ क
सञ्जय़ उवाच:
भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ||
२७ ख
सञ्जय़ उवाच:
इत्युक्त्वा भरतश्रेष्ठः क्षत्रिय़ान्प्रतपञ्शरैः |
२८ क
सञ्जय़ उवाच:
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ||
२८ ख
सञ्जय़ उवाच:
अनीकमध्ये तिष्ठन्तं गाङ्गेय़ं भरतर्षभ |
२९ क
सञ्जय़ उवाच:
आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारय़न् ||
२९ ख
सञ्जय़ उवाच:
दशमेऽहनि तस्मिंस्तु दर्शय़ञ्शक्तिमात्मनः |
३० क
सञ्जय़ उवाच:
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ||
३० ख
सञ्जय़ उवाच:
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महावलाः |
३१ क
सञ्जय़ उवाच:
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ||
३१ ख
सञ्जय़ उवाच:
हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् |
३२ क
सञ्जय़ उवाच:
सारोहाणां महाराज हय़ानां चाय़ुतं पुनः ||
३२ ख
सञ्जय़ उवाच:
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः |
३३ क
सञ्जय़ उवाच:
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ||
३३ ख
सञ्जय़ उवाच:
न चैनं पाण्डवेय़ानां केचिच्छेकुर्निरीक्षितुम् |
३४ क
सञ्जय़ उवाच:
उत्तरं मार्गमास्थाय़ तपन्तमिव भास्करम् ||
३४ ख
सञ्जय़ उवाच:
ते पाण्डवेय़ाः संरव्धा महेष्वासेन पीडिताः |
३५ क
सञ्जय़ उवाच:
वधाय़ाभ्यद्रवन्भीष्मं सृञ्जय़ाश्च महारथाः ||
३५ ख
सञ्जय़ उवाच:
स युध्यमानो वहुभिर्भीष्मः शान्तनवस्तदा |
३६ क
सञ्जय़ उवाच:
अवकीर्णो महावाहुः शैलो मेघैरिवासितैः ||
३६ ख
सञ्जय़ उवाच:
पुत्रास्तु तव गाङ्गेय़ं समन्तात्पर्यवारय़न् |
३७ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं ततो युद्धमवर्तत ||
३७ ख