सञ्जय़ उवाच:
ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान् |
५१ क
सञ्जय़ उवाच:
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ||
५१ ख
सञ्जय़ उवाच:
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः |
५२ क
सञ्जय़ उवाच:
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ||
५२ ख
सञ्जय़ उवाच:
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष |
५३ क
सञ्जय़ उवाच:
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मय़ः ||
५३ ख
सञ्जय़ उवाच:
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः |
५४ क
सञ्जय़ उवाच:
तथा पुरुषमानी स प्रत्यपाय़ाद्रथान्तरम् ||
५४ ख