मुनिरु उवाच:
अथ चेत्पौरुषं किञ्चित्क्षत्रिय़ात्मनि पश्यसि |
१ क
मुनिरु उवाच:
व्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तय़े ||
१ ख
मुनिरु उवाच:
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि |
२ क
मुनिरु उवाच:
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः ||
२ ख
मुनिरु उवाच:
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि |
३ क
मुनिरु उवाच:
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रिय़म् |
३ ख
मुनिरु उवाच:
यद्येतद्रोचते राजन्पुनर्व्रूहि व्रवीमि ते ||
३ ग
राजपुत्र उवाच:
व्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो |
४ क
राजपुत्र उवाच:
अमोघमिदमद्यास्तु त्वय़ा सह समागतम् ||
४ ख
मुनिरु उवाच:
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भय़ं तथा |
५ क
मुनिरु उवाच:
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः ||
५ ख
मुनिरु उवाच:
तमुत्तमेन शौचेन कर्मणा चाभिराधय़ |
६ क
मुनिरु उवाच:
दातुमर्हति ते वृत्तिं वैदेहः सत्यसङ्गरः ||
६ ख
मुनिरु उवाच:
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि |
७ क
मुनिरु उवाच:
ततः सहाय़ान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ||
७ ख
मुनिरु उवाच:
वर्तमानः स्वशास्त्रे वै संय़तात्मा जितेन्द्रिय़ः |
८ क
मुनिरु उवाच:
अभ्युद्धरति चात्मानं प्रसादय़ति च प्रजाः ||
८ ख
मुनिरु उवाच:
तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः |
९ क
मुनिरु उवाच:
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् ||
९ ख
मुनिरु उवाच:
ततः सुहृद्वलं लव्ध्वा मन्त्रय़ित्वा सुमन्त्रितम् |
१० क
मुनिरु उवाच:
अन्तरैर्भेदय़ित्वारीन्विल्वं विल्वेन शातय़ |
१० ख
मुनिरु उवाच:
परैर्वा संविदं कृत्वा वलमप्यस्य घातय़ ||
१० ग
मुनिरु उवाच:
अलभ्या ये शुभा भावाः स्त्रिय़श्चाच्छादनानि च |
११ क
मुनिरु उवाच:
शय़्यासनानि यानानि महार्हाणि गृहाणि च ||
११ ख
मुनिरु उवाच:
पक्षिणो मृगजातानि रसा गन्धाः फलानि च |
१२ क
मुनिरु उवाच:
तेष्वेव सज्जय़ेथास्त्वं यथा नश्येत्स्वय़ं परः ||
१२ ख
मुनिरु उवाच:
यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति |
१३ क
मुनिरु उवाच:
न जातु विवृतः कार्यः शत्रुर्विनय़मिच्छता ||
१३ ख
मुनिरु उवाच:
वसस्व परमामित्रविषय़े प्राज्ञसंमते |
१४ क
मुनिरु उवाच:
भजस्व श्वेतकाकीय़ैर्मित्राधममनर्थकैः ||
१४ ख
मुनिरु उवाच:
आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रय़ोजय़ |
१५ क
मुनिरु उवाच:
नदीवन्धविरोधांश्च वलवद्भिर्विरुध्यताम् ||
१५ ख
मुनिरु उवाच:
उद्यानानि महार्हाणि शय़नान्यासनानि च |
१६ क
मुनिरु उवाच:
प्रतिभोगसुखेनैव कोशमस्य विरेचय़ ||
१६ ख
मुनिरु उवाच:
यज्ञदानप्रशंसास्मै व्राह्मणेष्वनुवर्ण्यताम् |
१७ क
मुनिरु उवाच:
ते त्वत्प्रिय़ं करिष्यन्ति तं चेष्यन्ति वृका इव ||
१७ ख
मुनिरु उवाच:
असंशय़ं पुण्यशीलः प्राप्नोति परमां गतिम् |
१८ क
मुनिरु उवाच:
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः |
१८ ख
मुनिरु उवाच:
कोशक्षय़े त्वमित्राणां वशं कौसल्य गच्छति ||
१८ ग
मुनिरु उवाच:
उभय़त्र प्रसक्तस्य धर्मे चाधर्म एव च |
१९ क
मुनिरु उवाच:
वलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः ||
१९ ख
मुनिरु उवाच:
निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय़ |
२० क
मुनिरु उवाच:
असंशय़ं दैवपरः क्षिप्रमेव विनश्यति ||
२० ख
मुनिरु उवाच:
याजय़ैनं विश्वजिता सर्वस्वेन विय़ुज्यताम् |
२१ क
मुनिरु उवाच:
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् ||
२१ ख
मुनिरु उवाच:
त्यागधर्मविदं मुण्डं कञ्चिदस्योपवर्णय़ |
२२ क
मुनिरु उवाच:
अपि त्यागं वुभूषेत कच्चिद्गच्छेदनामय़म् ||
२२ ख
मुनिरु उवाच:
सिद्धेनौषधय़ोगेन सर्वशत्रुविनाशिना |
२३ क
मुनिरु उवाच:
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय़ ||
२३ ख
मुनिरु उवाच:
एते चान्ये च वहवो दम्भय़ोगाः सुनिश्चिताः |
२४ क
मुनिरु उवाच:
शक्या विषहता कर्तुं नक्लीवेन नृपात्मज ||
२४ ख