युधिष्ठिर उवाच:
दानं वहुविधाकारं शान्तिः सत्यमहिंसता |
१ क
युधिष्ठिर उवाच:
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ||
१ ख
युधिष्ठिर उवाच:
पितामहस्य विदितं किमन्यत्र तपोवलात् |
२ क
युधिष्ठिर उवाच:
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ||
२ ख
भीष्म उवाच:
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर |
३ क
भीष्म उवाच:
मतं मम तु कौन्तेय़ तपो नानशनात्परम् ||
३ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
४ क
भीष्म उवाच:
भगीरथस्य संवादं व्रह्मणश्च महात्मनः ||
४ ख
भीष्म उवाच:
अतीत्य सुरलोकं च गवां लोकं च भारत |
५ क
भीष्म उवाच:
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ||
५ ख
भीष्म उवाच:
तं दृष्ट्वा स वचः प्राह व्रह्मा राजन्भगीरथम् |
६ क
भीष्म उवाच:
कथं भगीरथागास्त्वमिमं देशं दुरासदम् ||
६ ख
भीष्म उवाच:
न हि देवा न गन्धर्वा न मनुष्या भगीरथ |
७ क
भीष्म उवाच:
आय़ान्त्यतप्ततपसः कथं वै त्वमिहागतः ||
७ ख
भगीरथ उवाच:
निःशङ्कमन्नमददं व्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् |
८ क
भगीरथ उवाच:
व्राह्मं व्रतं नित्यमास्थाय़ विद्धि; न त्वेवाहं तस्य फलादिहागाम् ||
८ ख
भगीरथ उवाच:
दशैकरात्रान्दश पञ्चरात्रा; नेकादशैकादशकान्क्रतूंश्च |
९ क
भगीरथ उवाच:
ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् ||
९ ख
भगीरथ उवाच:
यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम् |
१० क
भगीरथ उवाच:
अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् ||
१० ख
भगीरथ उवाच:
दशाय़ुतानि चाश्वानामय़ुतानि च विंशतिम् |
११ क
भगीरथ उवाच:
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ||
११ ख
भगीरथ उवाच:
सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम् |
१२ क
भगीरथ उवाच:
षष्टिं सहस्राणि विभूषितानां; जाम्वूनदैराभरणैर्न तेन ||
१२ ख
भगीरथ उवाच:
दशार्वुदान्यददं गोसवेज्या; स्वेकैकशो दश गा लोकनाथ |
१३ क
भगीरथ उवाच:
समानवत्साः पय़सा समन्विताः; सुवर्णकांस्योपदुहा न तेन ||
१३ ख
भगीरथ उवाच:
अप्तोर्यामेषु निय़तमेकैकस्मिन्दशाददम् |
१४ क
भगीरथ उवाच:
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ||
१४ ख
भगीरथ उवाच:
दोग्ध्रीणां वै गवां चैव प्रय़ुतानि दशैव ह |
१५ क
भगीरथ उवाच:
प्रादां दशगुणं व्रह्मन्न च तेनाहमागतः ||
१५ ख
भगीरथ उवाच:
वाजिनां वाह्लिजातानामय़ुतान्यददं दश |
१६ क
भगीरथ उवाच:
कर्काणां हेममालानां न च तेनाहमागतः ||
१६ ख
भगीरथ उवाच:
कोटीश्च काञ्चनस्याष्टौ प्रादां व्रह्मन्दश त्वहम् |
१७ क
भगीरथ उवाच:
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ||
१७ ख
भगीरथ उवाच:
वाजिनां श्यामकर्णानां हरितानां पितामह |
१८ क
भगीरथ उवाच:
प्रादां हेमस्रजां व्रह्मन्कोटीर्दश च सप्त च ||
१८ ख
भगीरथ उवाच:
ईषादन्तान्महाकाय़ान्काञ्चनस्रग्विभूषितान् |
१९ क
भगीरथ उवाच:
पत्नीमतः सहस्राणि प्राय़च्छं दश सप्त च ||
१९ ख
भगीरथ उवाच:
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः |
२० क
भगीरथ उवाच:
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश |
२० ख
भगीरथ उवाच:
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ||
२० ग
भगीरथ उवाच:
दक्षिणावय़वाः केचिद्वेदैर्ये सम्प्रकीर्तिताः |
२१ क
भगीरथ उवाच:
वाजपेय़ेषु दशसु प्रादां तेनापि नाप्यहम् ||
२१ ख
भगीरथ उवाच:
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च |
२२ क
भगीरथ उवाच:
सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ||
२२ ख
भगीरथ उवाच:
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह |
२३ क
भगीरथ उवाच:
अष्टभ्यो राजसूय़ेभ्यो न च तेनाहमागतः ||
२३ ख
भगीरथ उवाच:
स्रोतश्च यावद्गङ्गाय़ाश्छन्नमासीज्जगत्पते |
२४ क
भगीरथ उवाच:
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ||
२४ ख
भगीरथ उवाच:
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते |
२५ क
भगीरथ उवाच:
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् |
२५ ख
भगीरथ उवाच:
तपस्वी निय़ताहारः शममास्थाय़ वाग्यतः ||
२५ ग
भगीरथ उवाच:
दीर्घकालं हिमवति गङ्गाय़ाश्च दुरुत्सहाम् |
२६ क
भगीरथ उवाच:
मूर्ध्ना धारां महादेवः शिरसा यामधारय़त् |
२६ ख
भगीरथ उवाच:
न तेनाप्यहमागच्छं फलेनेह पितामह ||
२६ ग
भगीरथ उवाच:
शम्याक्षेपैरय़जं यच्च देवा; न्सद्यस्कानामय़ुतैश्चापि यत्तत् |
२७ क
भगीरथ उवाच:
त्रय़ोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन ||
२७ ख
भगीरथ उवाच:
अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं व्राह्मणेभ्यः |
२८ क
भगीरथ उवाच:
एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः ||
२८ ख
भगीरथ उवाच:
हिरण्यरत्ननिचितानददं रत्नपर्वतान् |
२९ क
भगीरथ उवाच:
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ||
२९ ख
भगीरथ उवाच:
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः |
३० क
भगीरथ उवाच:
इष्ट्वानेकैर्महाय़ज्ञैर्व्राह्मणेभ्यो न तेन च ||
३० ख
भगीरथ उवाच:
एकादशाहैरय़जं सदक्षिणै; र्द्विर्द्वादशाहैरश्वमेधैश्च देव |
३१ क
भगीरथ उवाच:
आर्काय़णैः षोडशभिश्च व्रह्मं; स्तेषां फलेनेह न चागतोऽस्मि ||
३१ ख
भगीरथ उवाच:
निष्कैककण्ठमददं योजनाय़तं; तद्विस्तीर्णं काञ्चनपादपानाम् |
३२ क
भगीरथ उवाच:
वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन ||
३२ ख
भगीरथ उवाच:
तुराय़णं हि व्रतमप्रधृष्य; मक्रोधनोऽकरवं त्रिंशतोऽव्दान् |
३३ क
भगीरथ उवाच:
शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं व्राह्मणेभ्यः ||
३३ ख
भगीरथ उवाच:
पय़स्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ |
३४ क
भगीरथ उवाच:
प्रादां नित्यं व्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् ||
३४ ख
भगीरथ उवाच:
त्रिंशदग्निमहं व्रह्मन्नय़जं यच्च नित्यदा |
३५ क
भगीरथ उवाच:
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ||
३५ ख
भगीरथ उवाच:
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः |
३६ क
भगीरथ उवाच:
न चैव तेषां देवेश फलेनाहमिहागतः ||
३६ ख
भगीरथ उवाच:
सरय़्वां वाहुदाय़ां च गङ्गाय़ामथ नैमिषे |
३७ क
भगीरथ उवाच:
गवां शतानामय़ुतमददं न च तेन वै ||
३७ ख
भगीरथ उवाच:
इन्द्रेण गुह्यं निहितं वै गुहाय़ां; यद्भार्गवस्तपसेहाभ्यविन्दत् |
३८ क
भगीरथ उवाच:
जाज्वल्यमानमुशनस्तेजसेह; तत्साधय़ामास महं वरेण्यम् ||
३८ ख
भगीरथ उवाच:
ततो मे व्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते |
३९ क
भगीरथ उवाच:
सहस्रमृषय़श्चासन्ये वै तत्र समागताः |
३९ ख
भगीरथ उवाच:
उक्तस्तैरस्मि गच्छ त्वं व्रह्मलोकमिति प्रभो ||
३९ ग
भगीरथ उवाच:
प्रीतेनोक्तः सहस्रेण व्राह्मणानामहं प्रभो |
४० क
भगीरथ उवाच:
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ||
४० ख
भगीरथ उवाच:
कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मय़ा यथावत् |
४१ क
भगीरथ उवाच:
तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद ||
४१ ख
भीष्म उवाच:
इत्युक्तवन्तं तं व्रह्मा राजानं स्म भगीरथम् |
४२ क
भीष्म उवाच:
पूजय़ामास पूजार्हं विधिदृष्टेन कर्मणा ||
४२ ख