सुपर्ण उवाच:
अनुशिष्टोऽस्मि देवेन गालवाज्ञातय़ोनिना |
१ क
सुपर्ण उवाच:
व्रूहि कामनुसंय़ामि द्रष्टुं प्रथमतो दिशम् ||
१ ख
सुपर्ण उवाच:
पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम् |
२ क
सुपर्ण उवाच:
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ||
२ ख
सुपर्ण उवाच:
यस्यामुदय़ते पूर्वं सर्वलोकप्रभावनः |
३ क
सुपर्ण उवाच:
सविता यत्र सन्ध्याय़ां साध्यानां वर्तते तपः ||
३ ख
सुपर्ण उवाच:
यस्यां पूर्वं मतिर्जाता यय़ा व्याप्तमिदं जगत् |
४ क
सुपर्ण उवाच:
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ||
४ ख
सुपर्ण उवाच:
हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् |
५ क
सुपर्ण उवाच:
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ||
५ ख
सुपर्ण उवाच:
यत्र पूर्वं प्रसूता वै दाक्षाय़ण्यः प्रजाः स्त्रिय़ः |
६ क
सुपर्ण उवाच:
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः ||
६ ख
सुपर्ण उवाच:
यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत |
७ क
सुपर्ण उवाच:
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ||
७ ख
सुपर्ण उवाच:
एतस्मात्कारणाद्व्रह्मन्पूर्वेत्येषा दिगुच्यते |
८ क
सुपर्ण उवाच:
यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ||
८ ख
सुपर्ण उवाच:
अत एव च पूर्वेषां पूर्वामाशामवेक्षताम् |
९ क
सुपर्ण उवाच:
पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता ||
९ ख
सुपर्ण उवाच:
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः |
१० क
सुपर्ण उवाच:
अत्रैवोक्ता सवित्रासीत्सावित्री व्रह्मवादिषु ||
१० ख
सुपर्ण उवाच:
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम |
११ क
सुपर्ण उवाच:
अत्र लव्धवरैः सोमः सुरैः क्रतुषु पीय़ते ||
११ ख
सुपर्ण उवाच:
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते |
१२ क
सुपर्ण उवाच:
अत्र पातालमाश्रित्य वरुणः श्रिय़माप च ||
१२ ख
सुपर्ण उवाच:
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ |
१३ क
सुपर्ण उवाच:
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ||
१३ ख
सुपर्ण उवाच:
ओङ्कारस्यात्र जाय़न्ते सूतय़ो दशतीर्दश |
१४ क
सुपर्ण उवाच:
पिवन्ति मुनय़ो यत्र हविर्धाने स्म सोमपाः ||
१४ ख
सुपर्ण उवाच:
प्रोक्षिता यत्र वहवो वराहाद्या मृगा वने |
१५ क
सुपर्ण उवाच:
शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ||
१५ ख
सुपर्ण उवाच:
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये |
१६ क
सुपर्ण उवाच:
उदय़ंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ||
१६ ख
सुपर्ण उवाच:
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च |
१७ क
सुपर्ण उवाच:
एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ||
१७ ख
सुपर्ण उवाच:
प्रिय़ं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः |
१८ क
सुपर्ण उवाच:
व्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ||
१८ ख