सञ्जय़ उवाच:
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् |
१ क
सञ्जय़ उवाच:
शिखण्डिनमथोवाच समभ्येहि पितामहम् ||
१ ख
सञ्जय़ उवाच:
न चापि भीस्त्वय़ा कार्या भीष्मादद्य कथञ्चन |
२ क
सञ्जय़ उवाच:
अहमेनं शरैस्तीक्ष्णैः पातय़िष्ये रथोत्तमात् ||
२ ख
सञ्जय़ उवाच:
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |
३ क
सञ्जय़ उवाच:
अभ्यद्रवत गाङ्गेय़ं श्रुत्वा पार्थस्य भाषितम् ||
३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः |
४ क
सञ्जय़ उवाच:
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ||
४ ख
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः |
५ क
सञ्जय़ उवाच:
अभ्यद्रवत गाङ्गेय़ं पुत्रस्य तव पश्यतः ||
५ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् |
६ क
सञ्जय़ उवाच:
तथेतराणि सैन्यानि सर्वाण्येव विशां पते |
६ ख
सञ्जय़ उवाच:
समाद्रवन्त गाङ्गेय़ं श्रुत्वा पार्थस्य भाषितम् ||
६ ग
सञ्जय़ उवाच:
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् |
७ क
सञ्जय़ उवाच:
यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ||
७ ख
सञ्जय़ उवाच:
चित्रसेनो महाराज चेकितानं समभ्ययात् |
८ क
सञ्जय़ उवाच:
भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ||
८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् |
९ क
सञ्जय़ उवाच:
त्वरमाणो रणे यत्तं कृतवर्मा न्यवारय़त् ||
९ ख
सञ्जय़ उवाच:
भीमसेनं सुसङ्क्रुद्धं गाङ्गेय़स्य वधैषिणम् |
१० क
सञ्जय़ उवाच:
त्वरमाणो महाराज सौमदत्तिर्न्यवारय़त् ||
१० ख
सञ्जय़ उवाच:
तथैव नकुलं वीरं किरन्तं साय़कान्वहून् |
११ क
सञ्जय़ उवाच:
विकर्णो वारय़ामास इच्छन्भीष्मस्य जीवितम् ||
११ ख
सञ्जय़ उवाच:
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति |
१२ क
सञ्जय़ उवाच:
वारय़ामास सङ्क्रुद्धः कृपः शारद्वतो युधि ||
१२ ख
सञ्जय़ उवाच:
राक्षसं क्रूरकर्माणं भैमसेनिं महावलम् |
१३ क
सञ्जय़ उवाच:
भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्वली ||
१३ ख
सञ्जय़ उवाच:
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारय़त् |
१४ क
सञ्जय़ उवाच:
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति |
१४ ख
सञ्जय़ उवाच:
सुदक्षिणो महाराज काम्वोजः प्रत्यवारय़त् ||
१४ ग
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ |
१५ क
सञ्जय़ उवाच:
अश्वत्थामा ततः क्रुद्धो वारय़ामास भारत ||
१५ ख
सञ्जय़ उवाच:
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् |
१६ क
सञ्जय़ उवाच:
भारद्वाजो रणे यत्तो धर्मपुत्रमवारय़त् ||
१६ ख
सञ्जय़ उवाच:
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् |
१७ क
सञ्जय़ उवाच:
भीष्मप्रेप्सुं महाराज तापय़न्तं दिशो दश |
१७ ख
सञ्जय़ उवाच:
दुःशासनो महेष्वासो वारय़ामास संय़ुगे ||
१७ ग
सञ्जय़ उवाच:
अन्ये च तावका योधाः पाण्डवानां महारथान् |
१८ क
सञ्जय़ उवाच:
भीष्माय़ाभिमुखं यातान्वारय़ामासुराहवे ||
१८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः |
१९ क
सञ्जय़ उवाच:
अभिद्रवत संरव्धा भीष्ममेकं महावलम् ||
१९ ख
सञ्जय़ उवाच:
एषोऽर्जुनो रणे भीष्मं प्रय़ाति कुरुनन्दनः |
२० क
सञ्जय़ उवाच:
अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ||
२० ख
सञ्जय़ उवाच:
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः |
२१ क
सञ्जय़ उवाच:
किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ||
२१ ख
सञ्जय़ उवाच:
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः |
२२ क
सञ्जय़ उवाच:
अभ्यद्रवन्त संहृष्टा गाङ्गेय़स्य रथं प्रति ||
२२ ख
सञ्जय़ उवाच:
आगच्छतस्तान्समरे वार्योघान्प्रवलानिव |
२३ क
सञ्जय़ उवाच:
न्यवारय़न्त संहृष्टास्तावकाः पुरुषर्षभाः ||
२३ ख
सञ्जय़ उवाच:
दुःशासनो महाराज भय़ं त्यक्त्वा महारथः |
२४ क
सञ्जय़ उवाच:
भीष्मस्य जीविताकाङ्क्षी धनञ्जय़मुपाद्रवत् ||
२४ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः शूरा गाङ्गेय़स्य रथं प्रति |
२५ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् ||
२५ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम चित्ररूपं विशां पते |
२६ क
सञ्जय़ उवाच:
दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ||
२६ ख
सञ्जय़ उवाच:
यथा वारय़ते वेला क्षुभितं वै महार्णवम् |
२७ क
सञ्जय़ उवाच:
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारय़त् ||
२७ ख
सञ्जय़ उवाच:
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जय़ौ |
२८ क
सञ्जय़ उवाच:
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ||
२८ ख
सञ्जय़ उवाच:
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ |
२९ क
सञ्जय़ उवाच:
समीय़तुर्महासङ्ख्ये मय़शक्रौ यथा पुरा ||
२९ ख
सञ्जय़ उवाच:
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः |
३० क
सञ्जय़ उवाच:
वासुदेवं च विंशत्या ताडय़ामास संय़ुगे ||
३० ख
सञ्जय़ उवाच:
ततोऽर्जुनो जातमन्युर्वार्ष्णेय़ं वीक्ष्य पीडितम् |
३१ क
सञ्जय़ उवाच:
दुःशासनं शतेनाजौ नाराचानां समार्पय़त् |
३१ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||
३१ ग
सञ्जय़ उवाच:
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः |
३२ क
सञ्जय़ उवाच:
ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ||
३२ ख
सञ्जय़ उवाच:
ललाटस्थैस्तु तैर्वाणैः शुशुभे पाण्डवोत्तमः |
३३ क
सञ्जय़ उवाच:
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ||
३३ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना |
३४ क
सञ्जय़ उवाच:
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ||
३४ ख
सञ्जय़ उवाच:
दुःशासनं ततः क्रुद्धः पीडय़ामास पाण्डवः |
३५ क
सञ्जय़ उवाच:
पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् ||
३५ ख
सञ्जय़ उवाच:
पीड्यमानो वलवता पुत्रस्तव विशां पते |
३६ क
सञ्जय़ उवाच:
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ||
३६ ख
सञ्जय़ उवाच:
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी |
३७ क
सञ्जय़ उवाच:
आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ||
३७ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ भीष्मस्य प्रमुखे स्थितः |
३८ क
सञ्जय़ उवाच:
अर्जुनं पञ्चविंशत्या वाह्वोरुरसि चार्पय़त् ||
३८ ख
सञ्जय़ उवाच:
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः |
३९ क
सञ्जय़ उवाच:
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्वहून् ||
३९ ख
सञ्जय़ उवाच:
अप्राप्तानेव तान्वाणांश्चिच्छेद तनय़स्तव |
४० क
सञ्जय़ उवाच:
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् |
४० ख
सञ्जय़ उवाच:
पार्थं च निशितैर्वाणैरविध्यत्तनय़स्तव ||
४० ग
सञ्जय़ उवाच:
ततः क्रुद्धो रणे पार्थः शरान्सन्धाय़ कार्मुके |
४१ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ||
४१ ख
सञ्जय़ उवाच:
न्यमज्जंस्ते महाराज तस्य काय़े महात्मनः |
४२ क
सञ्जय़ उवाच:
यथा हंसा महाराज तडागं प्राप्य भारत ||
४२ ख
सञ्जय़ उवाच:
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना |
४३ क
सञ्जय़ उवाच:
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रय़त् |
४३ ख
सञ्जय़ उवाच:
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ||
४३ ग
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते |
४४ क
सञ्जय़ उवाच:
अवारय़त्ततः शूरो भूय़ एव पराक्रमी ||
४४ ख
सञ्जय़ उवाच:
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरन्दरम् |
४५ क
सञ्जय़ उवाच:
निर्विभेद महावीर्यो विव्यथे नैव चार्जुनात् ||
४५ ख