chevron_left आदि पर्व अध्याय १०७
वैशम्पाय़न उवाच:
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय़ |
१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य वैश्याय़ामेकश्चापि शतात्परः ||
१ ख
वैशम्पाय़न उवाच:
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः |
२ क
वैशम्पाय़न उवाच:
देवेभ्यः समपद्यन्त सन्तानाय़ कुलस्य वै ||
२ ख
जनमेजय़ उवाच:
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम |
३ क
जनमेजय़ उवाच:
किय़ता चैव कालेन तेषामाय़ुश्च किं परम् ||
३ ख
जनमेजय़ उवाच:
कथं चैकः स वैश्याय़ां धृतराष्ट्रसुतोऽभवत् |
४ क
जनमेजय़ उवाच:
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् |
४ ख
जनमेजय़ उवाच:
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ||
४ ग
जनमेजय़ उवाच:
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना |
५ क
जनमेजय़ उवाच:
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ||
५ ख
जनमेजय़ उवाच:
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन |
६ क
जनमेजय़ उवाच:
कथय़स्व न मे तृप्तिः कथ्यमानेषु वन्धुषु ||
६ ख
वैशम्पाय़न उवाच:
क्षुच्छ्रमाभिपरिग्लानं द्वैपाय़नमुपस्थितम् |
७ क
वैशम्पाय़न उवाच:
तोषय़ामास गान्धारी व्यासस्तस्यै वरं ददौ ||
७ ख
वैशम्पाय़न उवाच:
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः |
८ क
वैशम्पाय़न उवाच:
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ||
८ ख
वैशम्पाय़न उवाच:
संवत्सरद्वय़ं तं तु गान्धारी गर्भमाहितम् |
९ क
वैशम्पाय़न उवाच:
अप्रजा धारय़ामास ततस्तां दुःखमाविशत् ||
९ ख
वैशम्पाय़न उवाच:
श्रुत्वा कुन्तीसुतं जातं वालार्कसमतेजसम् |
१० क
वैशम्पाय़न उवाच:
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तय़त् ||
१० ख
वैशम्पाय़न उवाच:
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः |
११ क
वैशम्पाय़न उवाच:
सोदरं पातय़ामास गान्धारी दुःखमूर्च्छिता ||
११ ख
वैशम्पाय़न उवाच:
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता |
१२ क
वैशम्पाय़न उवाच:
द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ||
१२ ख
वैशम्पाय़न उवाच:
अथ द्वैपाय़नो ज्ञात्वा त्वरितः समुपागमत् |
१३ क
वैशम्पाय़न उवाच:
तां स मांसमय़ीं पेशीं ददर्श जपतां वरः ||
१३ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीत्सौवलेय़ीं किमिदं ते चिकीर्षितम् |
१४ क
वैशम्पाय़न उवाच:
सा चात्मनो मतं सत्यं शशंस परमर्षय़े ||
१४ ख
वैशम्पाय़न उवाच:
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् |
१५ क
वैशम्पाय़न उवाच:
दुःखेन परमेणेदमुदरं पातितं मय़ा ||
१५ ख
वैशम्पाय़न उवाच:
शतं च किल पुत्राणां वितीर्णं मे त्वय़ा पुरा |
१६ क
वैशम्पाय़न उवाच:
इय़ं च मे मांसपेशी जाता पुत्रशताय़ वै ||
१६ ख
व्यास उवाच:
एवमेतत्सौवलेय़ि नैतज्जात्वन्यथा भवेत् |
१७ क
व्यास उवाच:
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||
१७ ख
व्यास उवाच:
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीय़ताम् |
१८ क
व्यास उवाच:
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ||
१८ ख
वैशम्पाय़न उवाच:
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा |
१९ क
वैशम्पाय़न उवाच:
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ||
१९ ख
वैशम्पाय़न उवाच:
एकाधिकशतं पूर्णं यथाय़ोगं विशां पते |
२० क
वैशम्पाय़न उवाच:
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ||
२० ख
वैशम्पाय़न उवाच:
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा |
२१ क
वैशम्पाय़न उवाच:
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ||
२१ ख
वैशम्पाय़न उवाच:
शशास चैव भगवान्कालेनैतावता पुनः |
२२ क
वैशम्पाय़न उवाच:
विघट्टनीय़ान्येतानि कुण्डानीति स्म सौवलीम् ||
२२ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय़ च |
२३ क
वैशम्पाय़न उवाच:
जगाम तपसे धीमान्हिमवन्तं शिलोच्चय़म् ||
२३ ख
वैशम्पाय़न उवाच:
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः |
२४ क
वैशम्पाय़न उवाच:
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ||
२४ ख
वैशम्पाय़न उवाच:
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽव्रवीदिदम् |
२५ क
वैशम्पाय़न उवाच:
समानीय़ वहून्विप्रान्भीष्मं विदुरमेव च ||
२५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः |
२६ क
वैशम्पाय़न उवाच:
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ||
२६ ख
वैशम्पाय़न उवाच:
अय़ं त्वनन्तरस्तस्मादपि राजा भविष्यति |
२७ क
वैशम्पाय़न उवाच:
एतद्धि व्रूत मे सत्यं यदत्र भविता ध्रुवम् ||
२७ ख
वैशम्पाय़न उवाच:
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत |
२८ क
वैशम्पाय़न उवाच:
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ||
२८ ख
वैशम्पाय़न उवाच:
लक्षय़ित्वा निमित्तानि तानि घोराणि सर्वशः |
२९ क
वैशम्पाय़न उवाच:
तेऽव्रुवन्व्राह्मणा राजन्विदुरश्च महामतिः ||
२९ ख
वैशम्पाय़न उवाच:
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव |
३० क
वैशम्पाय़न उवाच:
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनय़ो महान् ||
३० ख
वैशम्पाय़न उवाच:
शतमेकोनमप्यस्तु पुत्राणां ते महीपते |
३१ क
वैशम्पाय़न उवाच:
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ||
३१ ख
वैशम्पाय़न उवाच:
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् |
३२ क
वैशम्पाय़न उवाच:
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||
३२ ख
वैशम्पाय़न उवाच:
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः |
३३ क
वैशम्पाय़न उवाच:
न चकार तथा राजा पुत्रस्नेहसमन्वितः ||
३३ ख
वैशम्पाय़न उवाच:
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव |
३४ क
वैशम्पाय़न उवाच:
मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ||
३४ ख
वैशम्पाय़न उवाच:
गान्धार्यां क्लिश्यमानाय़ामुदरेण विवर्धता |
३५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं महावाहुं वैश्या पर्यचरत्किल ||
३५ ख
वैशम्पाय़न उवाच:
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महाय़शाः |
३६ क
वैशम्पाय़न उवाच:
जज्ञे धीमांस्ततस्तस्यां युय़ुत्सुः करणो नृप ||
३६ ख
वैशम्पाय़न उवाच:
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |
३७ क
वैशम्पाय़न उवाच:
महारथानां वीराणां कन्या चैकाथ दुःशला ||
३७ ख