राजपुत्र उवाच:
न निकृत्या न दम्भेन व्रह्मन्निच्छामि जीवितुम् |
१ क
राजपुत्र उवाच:
नाधर्मय़ुक्तानिच्छेय़मर्थान्सुमहतोऽप्यहम् ||
१ ख
राजपुत्र उवाच:
पुरस्तादेव भगवन्मय़ैतदपवर्जितम् |
२ क
राजपुत्र उवाच:
येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् ||
२ ख
राजपुत्र उवाच:
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः |
३ क
राजपुत्र उवाच:
नाहमेतदलं कर्तुं नैतन्मय़्युपपद्यते ||
३ ख
मुनिरु उवाच:
उपपन्नस्त्वमेतेन यथा क्षत्रिय़ भाषसे |
४ क
मुनिरु उवाच:
प्रकृत्या ह्युपपन्नोऽसि वुद्ध्या चाद्भुतदर्शन ||
४ ख
मुनिरु उवाच:
उभय़ोरेव वामर्थे यतिष्ये तव तस्य च |
५ क
मुनिरु उवाच:
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपाय़िनम् ||
५ ख
मुनिरु उवाच:
त्वादृशं हि कुले जातमनृशंसं वहुश्रुतम् |
६ क
मुनिरु उवाच:
अमात्यं को न कुर्वीत राज्यप्रणय़कोविदम् ||
६ ख
मुनिरु उवाच:
यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः |
७ क
मुनिरु उवाच:
आनृशंस्येन वृत्तेन क्षत्रिय़ेच्छसि जीवितुम् ||
७ ख
मुनिरु उवाच:
आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः |
८ क
मुनिरु उवाच:
यथाहं तं निय़ोक्ष्यामि तत्करिष्यत्यसंशय़म् ||
८ ख
भीष्म उवाच:
तत आहूय़ वैदेहं मुनिर्वचनमव्रवीत् |
९ क
भीष्म उवाच:
अय़ं राजकुले जातो विदिताभ्यन्तरो मम ||
९ ख
भीष्म उवाच:
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव |
१० क
भीष्म उवाच:
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ||
१० ख
भीष्म उवाच:
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मय़ि |
११ क
भीष्म उवाच:
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ||
११ ख
भीष्म उवाच:
अमात्यः शूर एव स्याद्वुद्धिसम्पन्न एव च |
१२ क
भीष्म उवाच:
ताभ्यां चैव भय़ं राज्ञः पश्य राज्यस्य योजनम् |
१२ ख
भीष्म उवाच:
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ||
१२ ग
भीष्म उवाच:
कृतात्मा राजपुत्रोऽय़ं सतां मार्गमनुष्ठितः |
१३ क
भीष्म उवाच:
सुसङ्गृहीतस्त्वेवैष त्वय़ा धर्मपुरोगमः |
१३ ख
भीष्म उवाच:
संसेव्यमानः शत्रूंस्ते गृह्णीय़ान्महतो गणान् ||
१३ ग
भीष्म उवाच:
यद्ययं प्रतिय़ुध्येत्त्वां स्वकर्म क्षत्रिय़स्य तत् |
१४ क
भीष्म उवाच:
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ||
१४ ख
भीष्म उवाच:
त्वं चापि प्रतिय़ुध्येथा विजिगीषुव्रते स्थितः |
१५ क
भीष्म उवाच:
अय़ुद्ध्वैव निय़ोगान्मे वशे वैदेह ते स्थितः ||
१५ ख
भीष्म उवाच:
स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसाम्प्रतम् |
१६ क
भीष्म उवाच:
न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ||
१६ ख
भीष्म उवाच:
नैव नित्यं जय़स्तात नैव नित्यं पराजय़ः |
१७ क
भीष्म उवाच:
तस्माद्भोजय़ितव्यश्च भोक्तव्यश्च परो जनः ||
१७ ख
भीष्म उवाच:
आत्मन्येव हि सन्दृश्यावुभौ जय़पराजय़ौ |
१८ क
भीष्म उवाच:
निःशेषकारिणां तात निःशेषकरणाद्भय़म् ||
१८ ख
भीष्म उवाच:
इत्युक्तः प्रत्युवाचेदं वचनं व्राह्मणर्षभम् |
१९ क
भीष्म उवाच:
अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ||
१९ ख
भीष्म उवाच:
यथा व्रूय़ान्महाप्राज्ञो यथा व्रूय़ाद्वहुश्रुतः |
२० क
भीष्म उवाच:
श्रेय़स्कामो यथा व्रूय़ादुभय़ोर्यत्क्षमं भवेत् ||
२० ख
भीष्म उवाच:
तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा |
२१ क
भीष्म उवाच:
एतद्धि परमं श्रेय़ो न मेऽत्रास्ति विचारणा ||
२१ ख
भीष्म उवाच:
ततः कौशल्यमाहूय़ वैदेहो वाक्यमव्रवीत् |
२२ क
भीष्म उवाच:
धर्मतो नीतितश्चैव वलेन च जितो मय़ा ||
२२ ख
भीष्म उवाच:
सोऽहं त्वय़ा त्वात्मगुणैर्जितः पार्थिवसत्तम |
२३ क
भीष्म उवाच:
आत्मानमनवज्ञाय़ जितवद्वर्ततां भवान् ||
२३ ख
भीष्म उवाच:
नावमन्ये च ते वुद्धिं नावमन्ये च पौरुषम् |
२४ क
भीष्म उवाच:
नावमन्ये जय़ामीति जितवद्वर्ततां भवान् ||
२४ ख
भीष्म उवाच:
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् |
२५ क
भीष्म उवाच:
ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ||
२५ ख
भीष्म उवाच:
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा |
२६ क
भीष्म उवाच:
पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजय़त् ||
२६ ख
भीष्म उवाच:
ददौ दुहितरं चास्मै रत्नानि विविधानि च |
२७ क
भीष्म उवाच:
एष राज्ञां परो धर्मः सह्यौ जय़पराजय़ौ ||
२७ ख