सुपर्ण उवाच:
इय़ं विवस्वता पूर्वं श्रौतेन विधिना किल |
१ क
सुपर्ण उवाच:
गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् ||
१ ख
सुपर्ण उवाच:
अत्र लोकत्रय़स्यास्य पितृपक्षः प्रतिष्ठितः |
२ क
सुपर्ण उवाच:
अत्रोष्मपानां देवानां निवासः श्रूय़ते द्विज ||
२ ख
सुपर्ण उवाच:
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते |
३ क
सुपर्ण उवाच:
इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम् ||
३ ख
सुपर्ण उवाच:
एतद्द्वितीय़ं धर्मस्य द्वारमाचक्षते द्विज |
४ क
सुपर्ण उवाच:
त्रुटिशो लवशश्चात्र गण्यते कालनिश्चय़ः ||
४ ख
सुपर्ण उवाच:
अत्र देवर्षय़ो नित्यं पितृलोकर्षय़स्तथा |
५ क
सुपर्ण उवाच:
तथा राजर्षय़ः सर्वे निवसन्ति गतव्यथाः ||
५ ख
सुपर्ण उवाच:
अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते |
६ क
सुपर्ण उवाच:
गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः ||
६ ख
सुपर्ण उवाच:
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते |
७ क
सुपर्ण उवाच:
वृता त्वनववोधेन सुखं तेन न गम्यते ||
७ ख
सुपर्ण उवाच:
नैरृतानां सहस्राणि वहून्यत्र द्विजर्षभ |
८ क
सुपर्ण उवाच:
सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ||
८ ख
सुपर्ण उवाच:
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च |
९ क
सुपर्ण उवाच:
गन्धर्वा गान्ति गाथा वै चित्तवुद्धिहरा द्विज ||
९ ख
सुपर्ण उवाच:
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः |
१० क
सुपर्ण उवाच:
गतदारो गतामात्यो गतराज्यो वनं गतः ||
१० ख
सुपर्ण उवाच:
अत्र सावर्णिना चैव यवक्रीतात्मजेन च |
११ क
सुपर्ण उवाच:
मर्यादा स्थापिता व्रह्मन्यां सूर्यो नातिवर्तते ||
११ ख
सुपर्ण उवाच:
अत्र राक्षसराजेन पौलस्त्येन महात्मना |
१२ क
सुपर्ण उवाच:
रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ||
१२ ख
सुपर्ण उवाच:
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीय़िवान् |
१३ क
सुपर्ण उवाच:
अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ||
१३ ख
सुपर्ण उवाच:
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव |
१४ क
सुपर्ण उवाच:
अत्र वैतरणी नाम नदी वितरणैर्वृता |
१४ ख
सुपर्ण उवाच:
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ||
१४ ग
सुपर्ण उवाच:
अत्रावृत्तो दिनकरः क्षरते सुरसं पय़ः |
१५ क
सुपर्ण उवाच:
काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः ||
१५ ख
सुपर्ण उवाच:
अत्राहं गालव पुरा क्षुधार्तः परिचिन्तय़न् |
१६ क
सुपर्ण उवाच:
लव्धवान्युध्यमानौ द्वौ वृहन्तौ गजकच्छपौ ||
१६ ख
सुपर्ण उवाच:
अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः |
१७ क
सुपर्ण उवाच:
विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः ||
१७ ख
सुपर्ण उवाच:
अत्र सिद्धाः शिवा नाम व्राह्मणा वेदपारगाः |
१८ क
सुपर्ण उवाच:
अधीत्य सखिलान्वेदानालभन्ते यमक्षय़म् ||
१८ ख
सुपर्ण उवाच:
अत्र भोगवती नाम पुरी वासुकिपालिता |
१९ क
सुपर्ण उवाच:
तक्षकेण च नागेन तथैवैरावतेन च ||
१९ ख
सुपर्ण उवाच:
अत्र निर्याणकालेषु तमः सम्प्राप्यते महत् |
२० क
सुपर्ण उवाच:
अभेद्यं भास्करेणापि स्वय़ं वा कृष्णवर्त्मना ||
२० ख
सुपर्ण उवाच:
एष तस्यापि ते मार्गः परितापस्य गालव |
२१ क
सुपर्ण उवाच:
व्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम ||
२१ ख