सञ्जय़ उवाच:
सात्यकिं दंशितं युद्धे भीष्माय़ाभ्युद्यतं तदा |
१ क
सञ्जय़ उवाच:
आर्श्यशृङ्गिर्महेष्वासो वारय़ामास संय़ुगे ||
१ ख
सञ्जय़ उवाच:
माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः |
२ क
सञ्जय़ उवाच:
आजघान रणे राजन्प्रहसन्निव भारत ||
२ ख
सञ्जय़ उवाच:
तथैव राक्षसो राजन्माधवं निशितैः शरैः |
३ क
सञ्जय़ उवाच:
अर्दय़ामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ||
३ ख
सञ्जय़ उवाच:
शैनेय़ः शरसङ्घं तु प्रेषय़ामास संय़ुगे |
४ क
सञ्जय़ उवाच:
राक्षसाय़ सुसङ्क्रुद्धो माधवः परवीरहा ||
४ ख
सञ्जय़ उवाच:
ततो रक्षो महावाहुं सात्यकिं सत्यविक्रमम् |
५ क
सञ्जय़ उवाच:
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ||
५ ख
सञ्जय़ उवाच:
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा |
६ क
सञ्जय़ उवाच:
धैर्यमालम्व्य तेजस्वी जहास च ननाद च ||
६ ख
सञ्जय़ उवाच:
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः |
७ क
सञ्जय़ उवाच:
ताडय़ामास समरे तोत्त्रैरिव महागजम् ||
७ ख
सञ्जय़ उवाच:
विहाय़ राक्षसं युद्धे शैनेय़ो रथिनां वरः |
८ क
सञ्जय़ उवाच:
प्राग्ज्योतिषाय़ चिक्षेप शरान्संनतपर्वणः ||
८ ख
सञ्जय़ उवाच:
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः |
९ क
सञ्जय़ उवाच:
चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ||
९ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ वेगवत्परवीरहा |
१० क
सञ्जय़ उवाच:
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ||
१० ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः |
११ क
सञ्जय़ उवाच:
शक्तिं कनकवैडूर्यभूषितामाय़सीं दृढाम् |
११ ख
सञ्जय़ उवाच:
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय़ वै ||
११ ग
सञ्जय़ उवाच:
तामापतन्तीं सहसा तस्य वाहोर्वलेरिताम् |
१२ क
सञ्जय़ उवाच:
सात्यकिः समरे राजंस्त्रिधा चिच्छेद साय़कैः |
१२ ख
सञ्जय़ उवाच:
सा पपात तदा भूमौ महोल्केव हतप्रभा ||
१२ ग
सञ्जय़ उवाच:
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते |
१३ क
सञ्जय़ उवाच:
महता रथवंशेन वारय़ामास माधवम् ||
१३ ख
सञ्जय़ उवाच:
तथा परिवृतं दृष्ट्वा वार्ष्णेय़ानां महारथम् |
१४ क
सञ्जय़ उवाच:
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ||
१४ ख
सञ्जय़ उवाच:
तथा कुरुत कौरव्या यथा वः सात्यको युधि |
१५ क
सञ्जय़ उवाच:
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् |
१५ ख
सञ्जय़ उवाच:
अस्मिन्हते हतं मन्ये पाण्डवानां महद्वलम् ||
१५ ग
सञ्जय़ उवाच:
तत्तथेति वचस्तस्य परिगृह्य महारथाः |
१६ क
सञ्जय़ उवाच:
शैनेय़ं योधय़ामासुर्भीष्मस्य प्रमुखे तदा ||
१६ ख
सञ्जय़ उवाच:
अभिमन्युं तदाय़ान्तं भीष्माय़ाभ्युद्यतं मृधे |
१७ क
सञ्जय़ उवाच:
काम्वोजराजो वलवान्वारय़ामास संय़ुगे ||
१७ ख
सञ्जय़ उवाच:
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः |
१८ क
सञ्जय़ उवाच:
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ||
१८ ख
सञ्जय़ उवाच:
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः |
१९ क
सञ्जय़ उवाच:
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ||
१९ ख
सञ्जय़ उवाच:
तद्युद्धमासीत्सुमहत्तय़ोस्तत्र पराक्रमे |
२० क
सञ्जय़ उवाच:
यदभ्यधावद्गाङ्गेय़ं शिखण्डी शत्रुतापनः ||
२० ख
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ वारय़न्तौ महाचमूम् |
२१ क
सञ्जय़ उवाच:
भीष्मं च युधि संरव्धावाद्रवन्तौ महारथौ ||
२१ ख
सञ्जय़ उवाच:
अश्वत्थामा ततः क्रुद्धः समाय़ाद्रथसत्तमः |
२२ क
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तव तेषां च भारत ||
२२ ख
सञ्जय़ उवाच:
विराटो दशभिर्भल्लैराजघान परन्तप |
२३ क
सञ्जय़ उवाच:
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ||
२३ ख
सञ्जय़ उवाच:
द्रुपदश्च त्रिभिर्वाणैर्विव्याध निशितैस्तथा |
२४ क
सञ्जय़ उवाच:
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ||
२४ ख
सञ्जय़ उवाच:
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः |
२५ क
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ||
२५ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम वृद्धय़ोश्चरितं महत् |
२६ क
सञ्जय़ उवाच:
यद्द्रौणेः साय़कान्घोरान्प्रत्यवारय़तां युधि ||
२६ ख
सञ्जय़ उवाच:
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् |
२७ क
सञ्जय़ उवाच:
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ||
२७ ख
सञ्जय़ उवाच:
कृपश्च समरे राजन्माद्रीपुत्रं महारथम् |
२८ क
सञ्जय़ उवाच:
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ||
२८ ख
सञ्जय़ उवाच:
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद साय़कैः |
२९ क
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ||
२९ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ समरे भारसाधनम् |
३० क
सञ्जय़ उवाच:
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः |
३० ख
सञ्जय़ उवाच:
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ||
३० ग
सञ्जय़ उवाच:
तथैव पाण्डवो राजञ्शारद्वतममर्षणम् |
३१ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षय़ा |
३१ ख
सञ्जय़ उवाच:
तय़ोर्युद्धं समभवद्घोररूपं भय़ावहम् ||
३१ ग
सञ्जय़ उवाच:
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः |
३२ क
सञ्जय़ उवाच:
विव्याध साय़कैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ||
३२ ख
सञ्जय़ उवाच:
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना |
३३ क
सञ्जय़ उवाच:
विकर्णं सप्तसप्तत्या निर्विभेद शिलीमुखैः ||
३३ ख
सञ्जय़ उवाच:
तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ |
३४ क
सञ्जय़ उवाच:
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ||
३४ ख
सञ्जय़ उवाच:
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् |
३५ क
सञ्जय़ उवाच:
दुर्मुखः समरे प्राय़ाद्भीष्महेतोः पराक्रमी ||
३५ ख
सञ्जय़ उवाच:
हैडिम्वस्तु ततो राजन्दुर्मुखं शत्रुतापनम् |
३६ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ||
३६ ख
सञ्जय़ उवाच:
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः |
३७ क
सञ्जय़ उवाच:
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ||
३७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् |
३८ क
सञ्जय़ उवाच:
हार्दिक्यो वारय़ामास रक्षन्भीष्मस्य जीवितम् ||
३८ ख
सञ्जय़ उवाच:
वार्ष्णेय़ः पार्षतं शूरं विद्ध्वा पञ्चभिराय़सैः |
३९ क
सञ्जय़ उवाच:
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ||
३९ ख
सञ्जय़ उवाच:
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः |
४० क
सञ्जय़ उवाच:
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||
४० ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं भीष्महेतोर्महारणे |
४१ क
सञ्जय़ उवाच:
अन्योन्यातिशय़ैर्युक्तं यथा वृत्रमहेन्द्रय़ोः ||
४१ ख
सञ्जय़ उवाच:
भीमसेनमथाय़ान्तं भीष्मं प्रति महावलम् |
४२ क
सञ्जय़ उवाच:
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाव्रवीत् ||
४२ ख
सञ्जय़ उवाच:
सौमदत्तिरथो भीममाजघान स्तनान्तरे |
४३ क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संय़ुगे ||
४३ ख
सञ्जय़ उवाच:
उरःस्थेन वभौ तेन भीमसेनः प्रतापवान् |
४४ क
सञ्जय़ उवाच:
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ||
४४ ख
सञ्जय़ उवाच:
तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् |
४५ क
सञ्जय़ उवाच:
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ||
४५ ख
सञ्जय़ उवाच:
भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम् |
४६ क
सञ्जय़ उवाच:
तथा भीष्मजय़े गृध्नुः सौमदत्तिश्च पाण्डवम् |
४६ ख
सञ्जय़ उवाच:
कृतप्रतिकृते यत्तौ योधय़ामासतू रणे ||
४६ ग
सञ्जय़ उवाच:
युधिष्ठिरं महाराज महत्या सेनय़ा वृतम् |
४७ क
सञ्जय़ उवाच:
भीष्माय़ाभिमुखं यान्तं भारद्वाजो न्यवारय़त् ||
४७ ख