chevron_left द्रोण पर्व अध्याय १०७
धृतराष्ट्र उवाच:
यस्मिञ्जय़ाशा सततं पुत्राणां मम सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽव्रवीत् |
१ ख
धृतराष्ट्र उवाच:
कर्णो वा समरे तात किमकार्षीदतः परम् ||
१ ग
सञ्जय़ उवाच:
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् |
२ क
सञ्जय़ उवाच:
रथमन्यं समास्थाय़ विधिवत्कल्पितं पुनः |
२ ख
सञ्जय़ उवाच:
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ||
२ ग
सञ्जय़ उवाच:
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते |
३ क
सञ्जय़ उवाच:
भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ||
३ ख
सञ्जय़ उवाच:
चापशव्दं महत्कृत्वा तलशव्दं च भैरवम् |
४ क
सञ्जय़ उवाच:
अभ्यवर्तत राधेय़ो भीमसेनरथं प्रति ||
४ ख
सञ्जय़ उवाच:
पुनरेव ततो राजन्महानासीत्सुदारुणः |
५ क
सञ्जय़ उवाच:
विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ||
५ ख
सञ्जय़ उवाच:
संरव्धौ हि महावाहू परस्परवधैषिणौ |
६ क
सञ्जय़ उवाच:
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ||
६ ख
सञ्जय़ उवाच:
क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ |
७ क
सञ्जय़ उवाच:
युद्धेऽन्योन्यं समासाद्य ततक्षतुररिन्दमौ ||
७ ख
सञ्जय़ उवाच:
व्याघ्राविव सुसंरव्धौ श्येनाविव च शीघ्रगौ |
८ क
सञ्जय़ उवाच:
शरभाविव सङ्क्रुद्धौ युय़ुधाते परस्परम् ||
८ ख
सञ्जय़ उवाच:
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च |
९ क
सञ्जय़ उवाच:
विराटनगरे चैव प्राप्तं दुःखमरिन्दमः ||
९ ख
सञ्जय़ उवाच:
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः |
१० क
सञ्जय़ उवाच:
सततं च परिक्लेशान्सपुत्रेण त्वय़ा कृतान् ||
१० ख
सञ्जय़ उवाच:
दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् |
११ क
सञ्जय़ उवाच:
कृष्णाय़ाश्च परिक्लेशं सभामध्ये दुरात्मभिः ||
११ ख
सञ्जय़ उवाच:
पतिमन्यं परीप्सस्व न सन्ति पतय़स्तव |
१२ क
सञ्जय़ उवाच:
नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ||
१२ ख
सञ्जय़ उवाच:
समक्षं तव कौरव्य यदूचुः कुरवस्तदा |
१३ क
सञ्जय़ उवाच:
दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ||
१३ ख
सञ्जय़ उवाच:
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः |
१४ क
सञ्जय़ उवाच:
परुषाण्युक्तवान्कर्णः सभाय़ां संनिधौ तव ||
१४ ख
सञ्जय़ उवाच:
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह |
१५ क
सञ्जय़ उवाच:
विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ||
१५ ख
सञ्जय़ उवाच:
वाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तय़न् |
१६ क
सञ्जय़ उवाच:
निरविद्यत धर्मात्मा जीवितेन वृकोदरः ||
१६ ख
सञ्जय़ उवाच:
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् |
१७ क
सञ्जय़ उवाच:
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ||
१७ ख
सञ्जय़ उवाच:
स साय़कमय़ैर्जालैर्भीमः कर्णरथं प्रति |
१८ क
सञ्जय़ उवाच:
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादय़त्प्रभाम् ||
१८ ख
सञ्जय़ उवाच:
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् |
१९ क
सञ्जय़ उवाच:
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ||
१९ ख
सञ्जय़ उवाच:
महारथो महावाहुर्महावेगैर्महावलः |
२० क
सञ्जय़ उवाच:
विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ||
२० ख
सञ्जय़ उवाच:
स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः |
२१ क
सञ्जय़ उवाच:
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ||
२१ ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् |
२२ क
सञ्जय़ उवाच:
कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ||
२२ ख
सञ्जय़ उवाच:
ततः प्रध्माप्य जलजं भेरीशतनिनादितम् |
२३ क
सञ्जय़ उवाच:
अक्षुभ्यत वलं हर्षादुद्धूत इव सागरः ||
२३ ख
सञ्जय़ उवाच:
तदुद्धूतं वलं दृष्ट्व रथनागाश्वपत्तिमत् |
२४ क
सञ्जय़ उवाच:
भीमः कर्णं समासाद्य छादय़ामास साय़कैः ||
२४ ख
सञ्जय़ उवाच:
अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हय़ोत्तमैः |
२५ क
सञ्जय़ उवाच:
व्यामिश्रय़द्रणे कर्णः पाण्डवं छादय़ञ्शरैः ||
२५ ख
सञ्जय़ उवाच:
ऋश्यवर्णान्हय़ान्कर्कैर्मिश्रान्मारुतरंहसः |
२६ क
सञ्जय़ उवाच:
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्वलम् ||
२६ ख
सञ्जय़ उवाच:
ते हय़ा वह्वशोभन्त मिश्रिता वातरंहसः |
२७ क
सञ्जय़ उवाच:
सितासिता महाराज यथा व्योम्नि वलाहकाः ||
२७ ख
सञ्जय़ उवाच:
संरव्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ |
२८ क
सञ्जय़ उवाच:
सन्त्रस्ताः समकम्पन्त त्वदीय़ानां महारथाः ||
२८ ख
सञ्जय़ उवाच:
यमराष्ट्रोपमं घोरमासीदाय़ोधनं तय़ोः |
२९ क
सञ्जय़ उवाच:
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ||
२९ ख
सञ्जय़ उवाच:
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः |
३० क
सञ्जय़ उवाच:
नालक्षय़ञ्जय़ं व्यक्तमेकैकस्य निवारणे ||
३० ख
सञ्जय़ उवाच:
तय़ोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रय़ोः |
३१ क
सञ्जय़ उवाच:
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ||
३१ ख
सञ्जय़ उवाच:
छादय़न्तौ हि शत्रुघ्नावन्योन्यं साय़कैः शितैः |
३२ क
सञ्जय़ उवाच:
शरजालावृतं व्योम चक्राते शरवृष्टिभिः ||
३२ ख
सञ्जय़ उवाच:
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ |
३३ क
सञ्जय़ उवाच:
प्रेक्षणीय़तरावास्तां वृष्टिमन्ताविवाम्वुदौ ||
३३ ख
सञ्जय़ उवाच:
सुवर्णविकृतान्वाणान्प्रमुञ्चन्तावरिन्दमौ |
३४ क
सञ्जय़ उवाच:
भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ||
३४ ख
सञ्जय़ उवाच:
ताभ्यां मुक्ता व्यकाशन्त कङ्कवर्हिणवाससः |
३५ क
सञ्जय़ उवाच:
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्वरे ||
३५ ख
सञ्जय़ उवाच:
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम् |
३६ क
सञ्जय़ उवाच:
अतिभारममन्येतां भीमे कृष्णधनञ्जय़ौ ||
३६ ख
सञ्जय़ उवाच:
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः |
३७ क
सञ्जय़ उवाच:
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ||
३७ ख
सञ्जय़ उवाच:
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः |
३८ क
सञ्जय़ उवाच:
कृतो महान्महाराज पुत्राणां ते जनक्षय़ः ||
३८ ख
सञ्जय़ उवाच:
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः |
३९ क
सञ्जय़ उवाच:
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ||
३९ ख