युधिष्ठिर उवाच:
व्राह्मणक्षत्रिय़विशां शूद्राणां च परन्तप |
१ क
युधिष्ठिर उवाच:
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपाय़फलानि च ||
१ ख
युधिष्ठिर उवाच:
राज्ञां वृत्तं च कोशश्च कोशसञ्जननं महत् |
२ क
युधिष्ठिर उवाच:
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् ||
२ ख
युधिष्ठिर उवाच:
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च |
३ क
युधिष्ठिर उवाच:
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ||
३ ख
युधिष्ठिर उवाच:
समहीनाधिकानां च यथावल्लक्षणोच्चय़ः |
४ क
युधिष्ठिर उवाच:
मध्यमस्य च तुष्ट्यर्थं यथा स्थेय़ं विवर्धता ||
४ ख
युधिष्ठिर उवाच:
क्षीणसङ्ग्रहवृत्तिश्च यथावत्सम्प्रकीर्तिता |
५ क
युधिष्ठिर उवाच:
लघुनादेशरूपेण ग्रन्थय़ोगेन भारत ||
५ ख
युधिष्ठिर उवाच:
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते |
६ क
युधिष्ठिर उवाच:
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ||
६ ख
युधिष्ठिर उवाच:
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत |
७ क
युधिष्ठिर उवाच:
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ||
७ ख
युधिष्ठिर उवाच:
भेदमूलो विनाशो हि गणानामुपलभ्यते |
८ क
युधिष्ठिर उवाच:
मन्त्रसंवरणं दुःखं वहूनामिति मे मतिः ||
८ ख
युधिष्ठिर उवाच:
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप |
९ क
युधिष्ठिर उवाच:
यथा च ते न भिद्येरंस्तच्च मे व्रूहि पार्थिव ||
९ ख
भीष्म उवाच:
गणानां च कुलानां च राज्ञां च भरतर्षभ |
१० क
भीष्म उवाच:
वैरसन्दीपनावेतौ लोभामर्षौ जनाधिप ||
१० ख
भीष्म उवाच:
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् |
११ क
भीष्म उवाच:
तौ क्षय़व्ययसंय़ुक्तावन्योन्यजनिताश्रय़ौ ||
११ ख
भीष्म उवाच:
चारमन्त्रवलादानैः सामदानविभेदनैः |
१२ क
भीष्म उवाच:
क्षय़व्ययभय़ोपाय़ैः कर्शय़न्तीतरेतरम् ||
१२ ख
भीष्म उवाच:
तत्र दानेन भिद्यन्ते गणाः सङ्घातवृत्तय़ः |
१३ क
भीष्म उवाच:
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भय़ात् ||
१३ ख
भीष्म उवाच:
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः |
१४ क
भीष्म उवाच:
तस्मात्सङ्घातय़ोगेषु प्रय़तेरन्गणाः सदा ||
१४ ख
भीष्म उवाच:
अर्था ह्येवाधिगम्यन्ते सङ्घातवलपौरुषात् |
१५ क
भीष्म उवाच:
वाह्याश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु ||
१५ ख
भीष्म उवाच:
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् |
१६ क
भीष्म उवाच:
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ||
१६ ख
भीष्म उवाच:
धर्मिष्ठान्व्यवहारांश्च स्थापय़न्तश्च शास्त्रतः |
१७ क
भीष्म उवाच:
यथावत्सम्प्रवर्तन्तो विवर्धन्ते गणोत्तमाः ||
१७ ख
भीष्म उवाच:
पुत्रान्भ्रातॄन्निगृह्णन्तो विनय़े च सदा रताः |
१८ क
भीष्म उवाच:
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ||
१८ ख
भीष्म उवाच:
चारमन्त्रविधानेषु कोशसंनिचय़ेषु च |
१९ क
भीष्म उवाच:
नित्ययुक्ता महावाहो वर्धन्ते सर्वतो गणाः ||
१९ ख
भीष्म उवाच:
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् |
२० क
भीष्म उवाच:
मानय़न्तः सदा युक्ता विवर्धन्ते गणा नृप ||
२० ख
भीष्म उवाच:
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः |
२१ क
भीष्म उवाच:
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारय़न्ति ते ||
२१ ख
भीष्म उवाच:
क्रोधो भेदो भय़ो दण्डः कर्शनं निग्रहो वधः |
२२ क
भीष्म उवाच:
नय़न्त्यरिवशं सद्यो गणान्भरतसत्तम ||
२२ ख
भीष्म उवाच:
तस्मान्मानय़ितव्यास्ते गणमुख्याः प्रधानतः |
२३ क
भीष्म उवाच:
लोकय़ात्रा समाय़त्ता भूय़सी तेषु पार्थिव ||
२३ ख
भीष्म उवाच:
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन |
२४ क
भीष्म उवाच:
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ||
२४ ख
भीष्म उवाच:
गणमुख्यैस्तु सम्भूय़ कार्यं गणहितं मिथः |
२५ क
भीष्म उवाच:
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा |
२५ ख
भीष्म उवाच:
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ||
२५ ग
भीष्म उवाच:
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् |
२६ क
भीष्म उवाच:
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ||
२६ ख
भीष्म उवाच:
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः |
२७ क
भीष्म उवाच:
गोत्रस्य राजन्कुर्वन्ति गणसम्भेदकारिकाम् ||
२७ ख
भीष्म उवाच:
आभ्यन्तरं भय़ं रक्ष्यं सुरक्ष्यं वाह्यतो भय़म् |
२८ क
भीष्म उवाच:
अभ्यन्तराद्भय़ं जातं सद्यो मूलं निकृन्तति ||
२८ ख
भीष्म उवाच:
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् |
२९ क
भीष्म उवाच:
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ||
२९ ख
भीष्म उवाच:
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा |
३० क
भीष्म उवाच:
न तु शौर्येण वुद्ध्या वा रूपद्रव्येण वा पुनः ||
३० ख
भीष्म उवाच:
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः |
३१ क
भीष्म उवाच:
तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत् ||
३१ ख