सुपर्ण उवाच:
इय़ं दिग्दय़िता राज्ञो वरुणस्य तु गोपतेः |
१ क
सुपर्ण उवाच:
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ||
१ ख
सुपर्ण उवाच:
अत्र पश्चादहः सूर्यो विसर्जय़ति भाः स्वय़म् |
२ क
सुपर्ण उवाच:
पश्चिमेत्यभिविख्याता दिगिय़ं द्विजसत्तम ||
२ ख
सुपर्ण उवाच:
यादसामत्र राज्येन सलिलस्य च गुप्तय़े |
३ क
सुपर्ण उवाच:
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचय़त् ||
३ ख
सुपर्ण उवाच:
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् |
४ क
सुपर्ण उवाच:
जाय़ते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ||
४ ख
सुपर्ण उवाच:
अत्र पश्चात्कृता दैत्या वाय़ुना संय़तास्तदा |
५ क
सुपर्ण उवाच:
निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ||
५ ख
सुपर्ण उवाच:
अत्र सूर्यं प्रणय़िनं प्रतिगृह्णाति पर्वतः |
६ क
सुपर्ण उवाच:
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति ||
६ ख
सुपर्ण उवाच:
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षय़े |
७ क
सुपर्ण उवाच:
जाय़ते जीवलोकस्य हर्तुमर्धमिवाय़ुषः ||
७ ख
सुपर्ण उवाच:
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् |
८ क
सुपर्ण उवाच:
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ||
८ ख
सुपर्ण उवाच:
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् |
९ क
सुपर्ण उवाच:
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ||
९ ख
सुपर्ण उवाच:
अत्र काञ्चनशैलस्य काञ्चनाम्वुवहस्य च |
१० क
सुपर्ण उवाच:
उदधेस्तीरमासाद्य सुरभिः क्षरते पय़ः ||
१० ख
सुपर्ण उवाच:
अत्र मध्ये समुद्रस्य कवन्धः प्रतिदृश्यते |
११ क
सुपर्ण उवाच:
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ||
११ ख
सुपर्ण उवाच:
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगाय़तः |
१२ क
सुपर्ण उवाच:
अदृश्यस्याप्रमेय़स्य श्रूय़ते विपुलो ध्वनिः ||
१२ ख
सुपर्ण उवाच:
अत्र ध्वजवती नाम कुमारी हरिमेधसः |
१३ क
सुपर्ण उवाच:
आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ||
१३ ख
सुपर्ण उवाच:
अत्र वाय़ुस्तथा वह्निरापः खं चैव गालव |
१४ क
सुपर्ण उवाच:
आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति |
१४ ख
सुपर्ण उवाच:
अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ||
१४ ग
सुपर्ण उवाच:
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् |
१५ क
सुपर्ण उवाच:
अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना |
१५ ख
सुपर्ण उवाच:
निष्पतन्ति पुनः सूर्यात्सोमसंय़ोगय़ोगतः ||
१५ ग
सुपर्ण उवाच:
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदय़ः |
१६ क
सुपर्ण उवाच:
अत्र लोकत्रय़स्यापस्तिष्ठन्ति वरुणाश्रय़ाः ||
१६ ख
सुपर्ण उवाच:
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् |
१७ क
सुपर्ण उवाच:
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ||
१७ ख
सुपर्ण उवाच:
अत्रानलसखस्यापि पवनस्य निवेशनम् |
१८ क
सुपर्ण उवाच:
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ||
१८ ख
सुपर्ण उवाच:
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः |
१९ क
सुपर्ण उवाच:
व्रूहि गालव गच्छावो वुद्धिः का द्विजसत्तम ||
१९ ख