सञ्जय़ उवाच:
अथ वीरो महेष्वासो मत्तवारणविक्रमः |
१ क
सञ्जय़ उवाच:
समादाय़ महच्चापं मत्तवारणवारणम् ||
१ ख
सञ्जय़ उवाच:
विधुन्वानो धनुः श्रेष्ठं द्रावय़ाणो महारथान् |
२ क
सञ्जय़ उवाच:
पृतनां पाण्डवेय़ानां पातय़ानो महारथः ||
२ ख
सञ्जय़ उवाच:
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् |
३ क
सञ्जय़ उवाच:
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ||
३ ख
सञ्जय़ उवाच:
अय़ं स दिवसस्तात यत्र पार्थो महारथः |
४ क
सञ्जय़ उवाच:
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ||
४ ख
सञ्जय़ उवाच:
उत्पतन्ति हि मे वाणा धनुः प्रस्फुरतीव मे |
५ क
सञ्जय़ उवाच:
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ||
५ ख
सञ्जय़ उवाच:
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः |
६ क
सञ्जय़ उवाच:
नीचैर्गृध्रा निलीय़न्ते भारतानां चमूं प्रति ||
६ ख
सञ्जय़ उवाच:
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः |
७ क
सञ्जय़ उवाच:
रसते व्यथते भूमिरनुष्टनति वाहनम् ||
७ ख
सञ्जय़ उवाच:
कङ्का गृध्रा वलाकाश्च व्याहरन्ति मुहुर्मुहुः |
८ क
सञ्जय़ उवाच:
शिवाश्चाशिवनिर्घोषा वेदय़न्त्यो महद्भय़म् ||
८ ख
सञ्जय़ उवाच:
पपात महती चोल्का मध्येनादित्यमण्डलात् |
९ क
सञ्जय़ उवाच:
सकवन्धश्च परिघो भानुमावृत्य तिष्ठति ||
९ ख
सञ्जय़ उवाच:
परिवेषस्तथा घोरश्चन्द्रभास्करय़ोरभूत् |
१० क
सञ्जय़ उवाच:
वेदय़ानो भय़ं घोरं राज्ञां देहावकर्तनम् ||
१० ख
सञ्जय़ उवाच:
देवताय़तनस्थाश्च कौरवेन्द्रस्य देवताः |
११ क
सञ्जय़ उवाच:
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ||
११ ख
सञ्जय़ उवाच:
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् |
१२ क
सञ्जय़ उवाच:
अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः ||
१२ ख
सञ्जय़ उवाच:
वपूंषि च नरेन्द्राणां विगतानीव लक्षय़े |
१३ क
सञ्जय़ उवाच:
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ||
१३ ख
सञ्जय़ उवाच:
सेनय़ोरुभय़ोश्चैव समन्ताच्छ्रूय़ते महान् |
१४ क
सञ्जय़ उवाच:
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ||
१४ ख
सञ्जय़ उवाच:
ध्रुवमास्थाय़ वीभत्सुरुत्तमास्त्राणि संय़ुगे |
१५ क
सञ्जय़ उवाच:
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ||
१५ ख
सञ्जय़ उवाच:
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः |
१६ क
सञ्जय़ उवाच:
चिन्तय़ित्वा महावाहो भीष्मार्जुनसमागमम् ||
१६ ख
सञ्जय़ उवाच:
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् |
१७ क
सञ्जय़ उवाच:
पुरस्कृत्य रणे पार्थो भीष्मस्याय़ोधनं गतः ||
१७ ख
सञ्जय़ उवाच:
अव्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् |
१८ क
सञ्जय़ उवाच:
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ||
१८ ख
सञ्जय़ उवाच:
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः |
१९ क
सञ्जय़ उवाच:
न चामङ्गलकेतोः स प्रहरेदापगासुतः ||
१९ ख
सञ्जय़ उवाच:
एतद्विचिन्तय़ानस्य प्रज्ञा सीदति मे भृशम् |
२० क
सञ्जय़ उवाच:
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ||
२० ख
सञ्जय़ उवाच:
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः |
२१ क
सञ्जय़ उवाच:
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ||
२१ ख
सञ्जय़ उवाच:
मनस्वी वलवाञ्शूरः कृतास्त्रो दृढविक्रमः |
२२ क
सञ्जय़ उवाच:
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ||
२२ ख
सञ्जय़ उवाच:
अजेय़ः समरे चैव देवैरपि सवासवैः |
२३ क
सञ्जय़ उवाच:
वलवान्वुद्धिमांश्चैव जितक्लेशो युधां वरः ||
२३ ख
सञ्जय़ उवाच:
विजय़ी च रणे नित्यं भैरवास्त्रश्च पाण्डवः |
२४ क
सञ्जय़ उवाच:
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ||
२४ ख
सञ्जय़ उवाच:
पश्य चैतन्महावाहो वैशसं समुपस्थितम् |
२५ क
सञ्जय़ उवाच:
हेमचित्राणि शूराणां महान्ति च शुभानि च ||
२५ ख
सञ्जय़ उवाच:
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः |
२६ क
सञ्जय़ उवाच:
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ||
२६ ख
सञ्जय़ उवाच:
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः |
२७ क
सञ्जय़ उवाच:
वैजय़न्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ||
२७ ख
सञ्जय़ उवाच:
नाय़ं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः |
२८ क
सञ्जय़ उवाच:
याहि स्वर्गं पुरस्कृत्य यशसे विजय़ाय़ च ||
२८ ख
सञ्जय़ उवाच:
हय़नागरथावर्तां महाघोरां सुदुस्तराम् |
२९ क
सञ्जय़ उवाच:
रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ||
२९ ख
सञ्जय़ उवाच:
व्रह्मण्यता दमो दानं तपश्च चरितं महत् |
३० क
सञ्जय़ उवाच:
इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जय़ः ||
३० ख
सञ्जय़ उवाच:
भीमसेनश्च वलवान्माद्रीपुत्रौ च पाण्डवौ |
३१ क
सञ्जय़ उवाच:
वासुदेवश्च वार्ष्णेय़ो यस्य नाथो व्यवस्थितः ||
३१ ख
सञ्जय़ उवाच:
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः |
३२ क
सञ्जय़ उवाच:
तपोदग्धशरीरस्य कोपो दहति भारतान् ||
३२ ख
सञ्जय़ उवाच:
एष सन्दृश्यते पार्थो वासुदेवव्यपाश्रय़ः |
३३ क
सञ्जय़ उवाच:
दारय़न्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ||
३३ ख
सञ्जय़ उवाच:
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना |
३४ क
सञ्जय़ उवाच:
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ||
३४ ख
सञ्जय़ उवाच:
हाहाकिलकिलाशव्दाः श्रूय़न्ते च चमूमुखे |
३५ क
सञ्जय़ उवाच:
याहि पाञ्चालदाय़ादमहं यास्ये युधिष्ठिरम् ||
३५ ख
सञ्जय़ उवाच:
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः |
३६ क
सञ्जय़ उवाच:
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ||
३६ ख
सञ्जय़ उवाच:
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ |
३७ क
सञ्जय़ उवाच:
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ||
३७ ख
सञ्जय़ उवाच:
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः |
३८ क
सञ्जय़ उवाच:
एष गच्छत्यनीकानि द्वितीय़ इव फल्गुनः ||
३८ ख
सञ्जय़ उवाच:
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः |
३९ क
सञ्जय़ उवाच:
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ||
३९ ख
सञ्जय़ उवाच:
को हि नेच्छेत्प्रिय़ं पुत्रं जीवन्तं शाश्वतीः समाः |
४० क
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनिय़ुज्महे ||
४० ख
सञ्जय़ उवाच:
एष चापि रणे भीष्मो दहते वै महाचमूम् |
४१ क
सञ्जय़ उवाच:
युद्धे सुसदृशस्तात यमस्य वरुणस्य च ||
४१ ख