अङ्गिरा उवाच:
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ||
५० ख
अङ्गिरा उवाच:
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः |
५१ क
अङ्गिरा उवाच:
पदे पदे यज्ञफलं स प्राप्नोति न संशय़ः ||
५१ ख
अङ्गिरा उवाच:
दिवं हंसप्रय़ुक्तेन विमानेन स गच्छति |
५२ क
अङ्गिरा उवाच:
शतं चाप्सरसः कन्या रमय़न्त्यपि तं नरम् ||
५२ ख
अङ्गिरा उवाच:
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः |
५३ क
अङ्गिरा उवाच:
शतं वर्षसहस्राणां मोदते दिवि स प्रभो |
५३ ख
अङ्गिरा उवाच:
काञ्चीनूपुरशव्देन सुप्तश्चैव प्रवोध्यते ||
५३ ग
अङ्गिरा उवाच:
सहस्रहंससंय़ुक्ते विमाने सोमवर्चसि |
५४ क
अङ्गिरा उवाच:
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ||
५४ ख
अङ्गिरा उवाच:
क्षीणस्याप्याय़नं दृष्टं क्षतस्य क्षतरोहणम् |
५५ क
अङ्गिरा उवाच:
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ||
५५ ख
अङ्गिरा उवाच:
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् |
५६ क
अङ्गिरा उवाच:
न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ||
५६ ख
अङ्गिरा उवाच:
अतः स कामसंय़ुक्तो विमाने हेमसंनिभे |
५७ क
अङ्गिरा उवाच:
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे ||
५७ ख
अङ्गिरा उवाच:
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः |
५८ क
अङ्गिरा उवाच:
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ||
५८ ख
अङ्गिरा उवाच:
वालसूर्यप्रतीकाशे विमाने हेमवर्चसि |
५९ क
अङ्गिरा उवाच:
वैडूर्यमुक्ताखचिते वीणामुरजनादिते ||
५९ ख
अङ्गिरा उवाच:
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते |
६० क
अङ्गिरा उवाच:
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ||
६० ख
अङ्गिरा उवाच:
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव |
६१ क
अङ्गिरा उवाच:
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ||
६१ ख
अङ्गिरा उवाच:
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः |
६२ क
अङ्गिरा उवाच:
न धर्मात्परमो लाभस्तपो नानशनात्परम् ||
६२ ख
अङ्गिरा उवाच:
व्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च |
६३ क
अङ्गिरा उवाच:
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ||
६३ ख
अङ्गिरा उवाच:
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे |
६४ क
अङ्गिरा उवाच:
ऋषय़श्च परां सिद्धिमुपवासैरवाप्नुवन् ||
६४ ख
अङ्गिरा उवाच:
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता |
६५ क
अङ्गिरा उवाच:
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ||
६५ ख
अङ्गिरा उवाच:
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः |
६६ क
अङ्गिरा उवाच:
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षय़ः ||
६६ ख
अङ्गिरा उवाच:
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् |
६७ क
अङ्गिरा उवाच:
यः प्रदर्शय़ते नित्यं न स दुःखमवाप्नुते ||
६७ ख
अङ्गिरा उवाच:
इमं तु कौन्तेय़ यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा |
६८ क
अङ्गिरा उवाच:
पठेत यो वै शृणुय़ाच्च नित्यदा; न विद्यते तस्य नरस्य किल्विषम् ||
६८ ख
अङ्गिरा उवाच:
विमुच्यते चापि स सर्वसङ्करै; र्न चास्य दोषैरभिभूय़ते मनः |
६९ क
अङ्गिरा उवाच:
विय़ोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः ||
६९ ख