युधिष्ठिर उवाच:
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह |
१ क
युधिष्ठिर उवाच:
उपवासे मतिरिय़ं कारणं च न विद्महे ||
१ ख
युधिष्ठिर उवाच:
व्रह्मक्षत्रेण निय़माश्चर्तव्या इति नः श्रुतम् |
२ क
युधिष्ठिर उवाच:
उपवासे कथं तेषां कृत्यमस्ति पितामह ||
२ ख
युधिष्ठिर उवाच:
निय़मं चोपवासानां सर्वेषां व्रूहि पार्थिव |
३ क
युधिष्ठिर उवाच:
अवाप्नोति गतिं कां च उपवासपराय़णः ||
३ ख
युधिष्ठिर उवाच:
उपवासः परं पुण्यमुपवासः पराय़णम् |
४ क
युधिष्ठिर उवाच:
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ||
४ ख
युधिष्ठिर उवाच:
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् |
५ क
युधिष्ठिर उवाच:
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ||
५ ख
युधिष्ठिर उवाच:
उपोष्य चापि किं तेन प्रदेय़ं स्यान्नराधिप |
६ क
युधिष्ठिर उवाच:
धर्मेण च सुखानर्थाँल्लभेद्येन व्रवीहि तम् ||
६ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणं कौन्तेय़ं धर्मज्ञं धर्मतत्त्ववित् |
७ क
वैशम्पाय़न उवाच:
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽव्रवीत् ||
७ ख
वैशम्पाय़न उवाच:
इदं खलु महाराज श्रुतमासीत्पुरातनम् |
८ क
वैशम्पाय़न उवाच:
उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ||
८ ख
वैशम्पाय़न उवाच:
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत |
९ क
वैशम्पाय़न उवाच:
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ||
९ ख
वैशम्पाय़न उवाच:
प्रश्नमेतं मय़ा पृष्टो भगवानग्निसम्भवः |
१० क
वैशम्पाय़न उवाच:
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ||
१० ख
अङ्गिरा उवाच:
व्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन |
११ क
अङ्गिरा उवाच:
द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ||
११ ख
अङ्गिरा उवाच:
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते |
१२ क
अङ्गिरा उवाच:
त्रिरात्रं द्विस्त्रिरात्रं वा तय़ोः पुष्टिर्न विद्यते ||
१२ ख
अङ्गिरा उवाच:
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीय़ते |
१३ क
अङ्गिरा उवाच:
त्रिरात्रं न तु धर्मज्ञैर्विहितं व्रह्मवादिभिः ||
१३ ख
अङ्गिरा उवाच:
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत |
१४ क
अङ्गिरा उवाच:
क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जाय़ते ||
१४ ख
अङ्गिरा उवाच:
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन |
१५ क
अङ्गिरा उवाच:
यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजय़ेद्द्विजान् ||
१५ ख
अङ्गिरा उवाच:
अष्टमीमथ कौन्तेय़ शुक्लपक्षे चतुर्दशीम् |
१६ क
अङ्गिरा उवाच:
उपोष्य व्याधिरहितो वीर्यवानभिजाय़ते ||
१६ ख
अङ्गिरा उवाच:
मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत् |
१७ क
अङ्गिरा उवाच:
भोजय़ेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्विषैः ||
१७ ख
अङ्गिरा उवाच:
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः |
१८ क
अङ्गिरा उवाच:
कृषिभागी वहुधनो वहुपुत्रश्च जाय़ते ||
१८ ख
अङ्गिरा उवाच:
पौषमासं तु कौन्तेय़ भक्तेनैकेन यः क्षपेत् |
१९ क
अङ्गिरा उवाच:
सुभगो दर्शनीय़श्च यशोभागी च जाय़ते ||
१९ ख
अङ्गिरा उवाच:
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् |
२० क
अङ्गिरा उवाच:
श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ||
२० ख
अङ्गिरा उवाच:
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् |
२१ क
अङ्गिरा उवाच:
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ||
२१ ख
अङ्गिरा उवाच:
चैत्रं तु निय़तो मासमेकभक्तेन यः क्षपेत् |
२२ क
अङ्गिरा उवाच:
सुवर्णमणिमुक्ताढ्ये कुले महति जाय़ते ||
२२ ख
अङ्गिरा उवाच:
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रिय़ः |
२३ क
अङ्गिरा उवाच:
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ||
२३ ख
अङ्गिरा उवाच:
ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत् |
२४ क
अङ्गिरा उवाच:
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजाय़ते ||
२४ ख
अङ्गिरा उवाच:
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः |
२५ क
अङ्गिरा उवाच:
वहुधान्यो वहुधनो वहुपुत्रश्च जाय़ते ||
२५ ख
अङ्गिरा उवाच:
श्रावणं निय़तो मासमेकभक्तेन यः क्षपेत् |
२६ क
अङ्गिरा उवाच:
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ||
२६ ख
अङ्गिरा उवाच:
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः |
२७ क
अङ्गिरा उवाच:
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ||
२७ ख
अङ्गिरा उवाच:
तथैवाश्वय़ुजं मासमेकभक्तेन यः क्षपेत् |
२८ क
अङ्गिरा उवाच:
प्रजावान्वाहनाढ्यश्च वहुपुत्रश्च जाय़ते ||
२८ ख
अङ्गिरा उवाच:
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् |
२९ क
अङ्गिरा उवाच:
शूरश्च वहुभार्यश्च कीर्तिमांश्चैव जाय़ते ||
२९ ख
अङ्गिरा उवाच:
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः |
३० क
अङ्गिरा उवाच:
तिथीनां निय़मा ये तु शृणु तानपि पार्थिव ||
३० ख
अङ्गिरा उवाच:
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत |
३१ क
अङ्गिरा उवाच:
गवाढ्यो वहुपुत्रश्च दीर्घाय़ुश्च स जाय़ते ||
३१ ख
अङ्गिरा उवाच:
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश |
३२ क
अङ्गिरा उवाच:
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ||
३२ ख
अङ्गिरा उवाच:
एते तु निय़माः सर्वे कर्तव्याः शरदो दश |
३३ क
अङ्गिरा उवाच:
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ||
३३ ख
अङ्गिरा उवाच:
यस्तु प्रातस्तथा साय़ं भुञ्जानो नान्तरा पिवेत् |
३४ क
अङ्गिरा उवाच:
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ||
३४ ख
अङ्गिरा उवाच:
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशय़ः |
३५ क
अङ्गिरा उवाच:
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||
३५ ख
अङ्गिरा उवाच:
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते |
३६ क
अङ्गिरा उवाच:
तप्तकाञ्चनवर्णाभं विमानमधिरोहति ||
३६ ख
अङ्गिरा उवाच:
पूर्णं वर्षसहस्रं तु व्रह्मलोके महीय़ते |
३७ क
अङ्गिरा उवाच:
तत्क्षय़ादिह चागम्य माहात्म्यं प्रतिपद्यते ||
३७ ख
अङ्गिरा उवाच:
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः |
३८ क
अङ्गिरा उवाच:
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ||
३८ ख
अङ्गिरा उवाच:
दशवर्षसहस्राणि स्वर्गे च स महीय़ते |
३९ क
अङ्गिरा उवाच:
तत्क्षय़ादिह चागम्य माहात्म्यं प्रतिपद्यते ||
३९ ख
अङ्गिरा उवाच:
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते |
४० क
अङ्गिरा उवाच:
अहिंसानिरतो नित्यं सत्यवाङ्निय़तेन्द्रिय़ः ||
४० ख
अङ्गिरा उवाच:
वाजपेय़स्य यज्ञस्य फलं वै समुपाश्नुते |
४१ क
अङ्गिरा उवाच:
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीय़ते ||
४१ ख
अङ्गिरा उवाच:
षष्ठे काले तु कौन्तेय़ नरः संवत्सरं क्षपेत् |
४२ क
अङ्गिरा उवाच:
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ||
४२ ख
अङ्गिरा उवाच:
चक्रवाकप्रय़ुक्तेन विमानेन स गच्छति |
४३ क
अङ्गिरा उवाच:
चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ||
४३ ख
अङ्गिरा उवाच:
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप |
४४ क
अङ्गिरा उवाच:
गवामय़स्य यज्ञस्य फलं प्राप्नोति मानवः ||
४४ ख
अङ्गिरा उवाच:
हंससारसय़ुक्तेन विमानेन स गच्छति |
४५ क
अङ्गिरा उवाच:
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ||
४५ ख
अङ्गिरा उवाच:
पक्षे पक्षे गते राजन्योऽश्नीय़ाद्वर्षमेव तु |
४६ क
अङ्गिरा उवाच:
षण्मासानशनं तस्य भगवानङ्गिराव्रवीत् |
४६ ख
अङ्गिरा उवाच:
षष्टिं वर्षसहस्राणि दिवमावसते च सः ||
४६ ग
अङ्गिरा उवाच:
वीणानां वल्लकीनां च वेणूनां च विशां पते |
४७ क
अङ्गिरा उवाच:
सुघोषैर्मधुरैः शव्दैः सुप्तः स प्रतिवोध्यते ||
४७ ख
अङ्गिरा उवाच:
संवत्सरमिहैकं तु मासि मासि पिवेत्पय़ः |
४८ क
अङ्गिरा उवाच:
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ||
४८ ख
अङ्गिरा उवाच:
सिंहव्याघ्रप्रय़ुक्तेन विमानेन स गच्छति |
४९ क
अङ्गिरा उवाच:
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ||
४९ ख
अङ्गिरा उवाच:
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीय़ते |
५० क