chevron_left वन पर्व अध्याय १६०
वैशम्पाय़न उवाच:
ततः सूर्योदय़े धौम्यः कृत्वाह्निकमरिन्दम |
१ क
वैशम्पाय़न उवाच:
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ||
१ ख
वैशम्पाय़न उवाच:
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह |
२ क
वैशम्पाय़न उवाच:
ततः प्राञ्जलय़ः सर्वे व्राह्मणांस्तानपूजय़न् ||
२ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे |
३ क
वैशम्पाय़न उवाच:
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमव्रवीत् ||
३ ख
वैशम्पाय़न उवाच:
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति |
४ क
वैशम्पाय़न उवाच:
शैलराजो महाराज मन्दरोऽभिविराजते ||
४ ख
वैशम्पाय़न उवाच:
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः |
५ क
वैशम्पाय़न उवाच:
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ||
५ ख
वैशम्पाय़न उवाच:
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च |
६ क
वैशम्पाय़न उवाच:
ऋषय़ः सर्वधर्मज्ञाः सद्म तात मनीषिणः ||
६ ख
वैशम्पाय़न उवाच:
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः |
७ क
वैशम्पाय़न उवाच:
ऋषय़श्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ||
७ ख
वैशम्पाय़न उवाच:
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः |
८ क
वैशम्पाय़न उवाच:
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ||
८ ख
वैशम्पाय़न उवाच:
एतत्संय़मनं पुण्यमतीवाद्भुतदर्शनम् |
९ क
वैशम्पाय़न उवाच:
प्रेतराजस्य भवनमृद्ध्या परमय़ा युतम् ||
९ ख
वैशम्पाय़न उवाच:
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति |
१० क
वैशम्पाय़न उवाच:
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ||
१० ख
वैशम्पाय़न उवाच:
एतं पर्वतराजानं समुद्रं च महोदधिम् |
११ क
वैशम्पाय़न उवाच:
आवसन्वरुणो राजा भूतानि परिरक्षति ||
११ ख
वैशम्पाय़न उवाच:
उदीचीं दीपय़न्नेष दिशं तिष्ठति कीर्तिमान् |
१२ क
वैशम्पाय़न उवाच:
महामेरुर्महाभाग शिवो व्रह्मविदां गतिः ||
१२ ख
वैशम्पाय़न उवाच:
यस्मिन्व्रह्मसदश्चैव तिष्ठते च प्रजापतिः |
१३ क
वैशम्पाय़न उवाच:
भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ||
१३ ख
वैशम्पाय़न उवाच:
यानाहुर्व्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् |
१४ क
वैशम्पाय़न उवाच:
तेषामपि महामेरुः स्थानं शिवमनामय़म् ||
१४ ख
वैशम्पाय़न उवाच:
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदय़न्ति च |
१५ क
वैशम्पाय़न उवाच:
सप्त देवर्षय़स्तात वसिष्ठप्रमुखाः सदा ||
१५ ख
वैशम्पाय़न उवाच:
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् |
१६ क
वैशम्पाय़न उवाच:
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ||
१६ ख
वैशम्पाय़न उवाच:
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् |
१७ क
वैशम्पाय़न उवाच:
अनादिनिधनं देवं प्रभुं नाराय़णं परम् ||
१७ ख
वैशम्पाय़न उवाच:
व्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते |
१८ क
वैशम्पाय़न उवाच:
देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमय़ं शिवम् ||
१८ ख
वैशम्पाय़न उवाच:
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः |
१९ क
वैशम्पाय़न उवाच:
स्वय़ैव प्रभय़ा राजन्दुष्प्रेक्ष्यं देवदानवैः ||
१९ ख
वैशम्पाय़न उवाच:
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च |
२० क
वैशम्पाय़न उवाच:
स्वय़ं विभुरदीनात्मा तत्र ह्यभिविराजते ||
२० ख
वैशम्पाय़न उवाच:
यतय़स्तत्र गच्छन्ति भक्त्या नाराय़णं हरिम् |
२१ क
वैशम्पाय़न उवाच:
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ||
२१ ख
वैशम्पाय़न उवाच:
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः |
२२ क
वैशम्पाय़न उवाच:
तत्र गत्वा पुनर्नेमं लोकमाय़ान्ति भारत ||
२२ ख
वैशम्पाय़न उवाच:
स्थानमेतन्महाभाग ध्रुवमक्षय़मव्ययम् |
२३ क
वैशम्पाय़न उवाच:
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ||
२३ ख
वैशम्पाय़न उवाच:
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि |
२४ क
वैशम्पाय़न उवाच:
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ||
२४ ख
वैशम्पाय़न उवाच:
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः |
२५ क
वैशम्पाय़न उवाच:
उदीचीं भजते काष्ठां दिशमेष विभावसुः ||
२५ ख
वैशम्पाय़न उवाच:
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव |
२६ क
वैशम्पाय़न उवाच:
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ||
२६ ख
वैशम्पाय़न उवाच:
स मासं विभजन्कालं वहुधा पर्वसन्धिषु |
२७ क
वैशम्पाय़न उवाच:
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ||
२७ ख
वैशम्पाय़न उवाच:
एवमेष परिक्रम्य महामेरुमतन्द्रितः |
२८ क
वैशम्पाय़न उवाच:
भावय़न्सर्वभूतानि पुनर्गच्छति मन्दरम् ||
२८ ख
वैशम्पाय़न उवाच:
तथा तमिस्रहा देवो मय़ूखैर्भावय़ञ्जगत् |
२९ क
वैशम्पाय़न उवाच:
मार्गमेतदसम्वाधमादित्यः परिवर्तते ||
२९ ख
वैशम्पाय़न उवाच:
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् |
३० क
वैशम्पाय़न उवाच:
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ||
३० ख
वैशम्पाय़न उवाच:
स्थावराणां च भूतानां जङ्गमानां च तेजसा |
३१ क
वैशम्पाय़न उवाच:
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ||
३१ ख
वैशम्पाय़न उवाच:
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् |
३२ क
वैशम्पाय़न उवाच:
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ||
३२ ख
वैशम्पाय़न उवाच:
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् |
३३ क
वैशम्पाय़न उवाच:
पुनः सृजति वर्षाणि भगवान्भावय़न्प्रजाः ||
३३ ख
वैशम्पाय़न उवाच:
वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् |
३४ क
वैशम्पाय़न उवाच:
वर्धय़न्सुमहातेजाः पुनः प्रतिनिवर्तते ||
३४ ख
वैशम्पाय़न उवाच:
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः |
३५ क
वैशम्पाय़न उवाच:
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ||
३५ ख
वैशम्पाय़न उवाच:
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव |
३६ क
वैशम्पाय़न उवाच:
आदाय़ैव तु भूतानां तेजो विसृजते पुनः ||
३६ ख
वैशम्पाय़न उवाच:
विभजन्सर्वभूतानामाय़ुः कर्म च भारत |
३७ क
वैशम्पाय़न उवाच:
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ||
३७ ख