chevron_left भीष्म पर्व अध्याय १०९
सञ्जय़ उवाच:
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः |
१ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जय़द्रथः ||
१ ख
सञ्जय़ उवाच:
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा |
२ क
सञ्जय़ उवाच:
दशैते तावका योधा भीमसेनमय़ोधय़न् ||
२ ख
सञ्जय़ उवाच:
महत्या सेनय़ा युक्ता नानादेशसमुत्थय़ा |
३ क
सञ्जय़ उवाच:
भीष्मस्य समरे राजन्प्रार्थय़ाना महद्यशः ||
३ ख
सञ्जय़ उवाच:
शल्यस्तु नवभिर्वाणैर्भीमसेनमताडय़त् |
४ क
सञ्जय़ उवाच:
कृतवर्मा त्रिभिर्वाणैः कृपश्च नवभिः शरैः ||
४ ख
सञ्जय़ उवाच:
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष |
५ क
सञ्जय़ उवाच:
दशभिर्दशभिर्भल्लैर्भीमसेनमताडय़न् ||
५ ख
सञ्जय़ उवाच:
सैन्धवश्च त्रिभिर्वाणैर्जत्रुदेशेऽभ्यताडय़त् |
६ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः |
६ ख
सञ्जय़ उवाच:
दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ||
६ ग
सञ्जय़ उवाच:
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् |
७ क
सञ्जय़ उवाच:
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् |
७ ख
सञ्जय़ उवाच:
विव्याध वहुभिर्वाणैर्भीमसेनो महावलः ||
७ ग
सञ्जय़ उवाच:
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः |
८ क
सञ्जय़ उवाच:
कृपस्य सशरं चापं मध्ये चिच्छेद भारत |
८ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ||
८ ग
सञ्जय़ उवाच:
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडय़त् |
९ क
सञ्जय़ उवाच:
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ||
९ ख
सञ्जय़ उवाच:
विकर्णं दशभिर्वाणैः पञ्चभिश्च जय़द्रथम् |
१० क
सञ्जय़ उवाच:
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ||
१० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ गौतमो रथिनां वरः |
११ क
सञ्जय़ उवाच:
भीमं विव्याध संरव्धो दशभिर्निशितैः शरैः ||
११ ख
सञ्जय़ उवाच:
स विद्धो वहुभिर्वाणैस्तोत्त्रैरिव महाद्विपः |
१२ क
सञ्जय़ उवाच:
ततः क्रुद्धो महावाहुर्भीमसेनः प्रतापवान् |
१२ ख
सञ्जय़ उवाच:
गौतमं ताडय़ामास शरैर्वहुभिराहवे ||
१२ ग
सञ्जय़ उवाच:
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः |
१३ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ कालान्तकसमद्युतिः ||
१३ ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
१४ क
सञ्जय़ उवाच:
शरांश्चिक्षेप निशितान्भीमसेनस्य संय़ुगे ||
१४ ख
सञ्जय़ उवाच:
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत |
१५ क
सञ्जय़ उवाच:
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ||
१५ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |
१६ क
सञ्जय़ उवाच:
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ||
१६ ख
सञ्जय़ उवाच:
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः |
१७ क
सञ्जय़ उवाच:
महारथाञ्शरैर्विद्ध्वा वारय़ित्वा महारथः |
१७ ख
सञ्जय़ उवाच:
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ||
१७ ग
सञ्जय़ उवाच:
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् |
१८ क
सञ्जय़ उवाच:
स सन्धाय़ शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् |
१८ ख
सञ्जय़ उवाच:
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाव्रवीत् ||
१८ ग
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च भगदत्तश्च मारिष |
१९ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संय़ुगे ||
१९ ख
सञ्जय़ उवाच:
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् |
२० क
सञ्जय़ उवाच:
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ||
२० ख
सञ्जय़ उवाच:
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः |
२१ क
सञ्जय़ उवाच:
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ||
२१ ख
सञ्जय़ उवाच:
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः |
२२ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ||
२२ ख
सञ्जय़ उवाच:
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् |
२३ क
सञ्जय़ उवाच:
मद्रराजं त्रिभिर्वाणैर्वाह्वोरुरसि चार्पय़त् ||
२३ ख
सञ्जय़ उवाच:
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः |
२४ क
सञ्जय़ उवाच:
ताडय़ामास समरे सिंहवच्च ननाद च ||
२४ ख
सञ्जय़ उवाच:
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् |
२५ क
सञ्जय़ उवाच:
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडय़न् ||
२५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे |
२६ क
सञ्जय़ उवाच:
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्वुदैः ||
२६ ख
सञ्जय़ उवाच:
शल्यं च नवभिर्वाणैर्भृशं विद्ध्वा महाय़शाः |
२७ क
सञ्जय़ उवाच:
प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ||
२७ ख
सञ्जय़ उवाच:
ततस्तु सशरं चापं सात्वतस्य महात्मनः |
२८ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ||
२८ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ कृतवर्मा वृकोदरम् |
२९ क
सञ्जय़ उवाच:
आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ||
२९ ख
सञ्जय़ उवाच:
भीमस्तु समरे विद्ध्वा शल्यं नवभिराय़सैः |
३० क
सञ्जय़ उवाच:
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ||
३० ख
सञ्जय़ उवाच:
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् |
३१ क
सञ्जय़ उवाच:
ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ||
३१ ख
सञ्जय़ उवाच:
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः |
३२ क
सञ्जय़ उवाच:
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ||
३२ ख
सञ्जय़ उवाच:
ते चापि रथिनां श्रेष्ठा भीमाय़ निशिताञ्शरान् |
३३ क
सञ्जय़ उवाच:
प्रेषय़ामासुरव्यग्राः शतशोऽथ सहस्रशः ||
३३ ख
सञ्जय़ उवाच:
तस्य शक्तिं महावेगां भगदत्तो महारथः |
३४ क
सञ्जय़ उवाच:
चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ||
३४ ख
सञ्जय़ उवाच:
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः |
३५ क
सञ्जय़ उवाच:
शतघ्नीं च कृपो राजञ्शरं शल्यश्च संय़ुगे ||
३५ ख
सञ्जय़ उवाच:
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् |
३६ क
सञ्जय़ उवाच:
भीमसेनं समुद्दिश्य प्रेषय़ामासुरोजसा ||
३६ ख
सञ्जय़ उवाच:
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः |
३७ क
सञ्जय़ उवाच:
पट्टिशं च त्रिभिर्वाणैश्चिच्छेद तिलकाण्डवत् ||
३७ ख
सञ्जय़ उवाच:
स विभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः |
३८ क
सञ्जय़ उवाच:
मद्रराजप्रय़ुक्तं च शरं छित्त्वा महावलः ||
३८ ख
सञ्जय़ उवाच:
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे |
३९ क
सञ्जय़ उवाच:
तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ||
३९ ख
सञ्जय़ उवाच:
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् |
४० क
सञ्जय़ उवाच:
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडय़त् ||
४० ख
सञ्जय़ उवाच:
ततो धनञ्जय़स्तत्र वर्तमाने महारणे |
४१ क
सञ्जय़ उवाच:
जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् |
४१ ख
सञ्जय़ उवाच:
निघ्नन्तं समरे शत्रून्योधय़ानं च साय़कैः ||
४१ ग
सञ्जय़ उवाच:
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ |
४२ क
सञ्जय़ उवाच:
नाशशंसुर्जय़ं तत्र तावकाः पुरुषर्षभ ||
४२ ख
सञ्जय़ उवाच:
अथार्जुनो रणे भीष्मं योधय़न्वै महारथम् |
४३ क
सञ्जय़ उवाच:
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ||
४३ ख
सञ्जय़ उवाच:
आससाद रणे योधांस्तावकान्दश भारत |
४४ क
सञ्जय़ उवाच:
ये स्म भीमं रणे राजन्योधय़न्तो व्यवस्थिताः |
४४ ख
सञ्जय़ उवाच:
वीभत्सुस्तानथाविध्यद्भीमस्य प्रिय़काम्यया ||
४४ ग
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सुशर्माणमचोदय़त् |
४५ क
सञ्जय़ उवाच:
अर्जुनस्य वधार्थाय़ भीमसेनस्य चोभय़ोः ||
४५ ख
सञ्जय़ उवाच:
सुशर्मन्गच्छ शीघ्रं त्वं वलौघैः परिवारितः |
४६ क
सञ्जय़ उवाच:
जहि पाण्डुसुतावेतौ धनञ्जय़वृकोदरौ ||
४६ ख