chevron_left द्रोण पर्व अध्याय १०९
सञ्जय़ उवाच:
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः |
१ क
सञ्जय़ उवाच:
रथमन्यं समास्थाय़ सद्यो विव्याध पाण्डवम् ||
१ ख
सञ्जय़ उवाच:
महागजाविवासाद्य विषाणाग्रैः परस्परम् |
२ क
सञ्जय़ उवाच:
शरैः पूर्णाय़तोत्सृष्टैरन्योन्यमभिजघ्नतुः ||
२ ख
सञ्जय़ उवाच:
अथ कर्णः शरव्रातैर्भीमं वलवदर्दय़त् |
३ क
सञ्जय़ उवाच:
ननाद वलवन्नादं पुनर्विव्याध चोरसि ||
३ ख
सञ्जय़ उवाच:
तं भीमो दशभिर्वाणैः प्रत्यविध्यदजिह्मगैः |
४ क
सञ्जय़ उवाच:
पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ||
४ ख
सञ्जय़ उवाच:
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे |
५ क
सञ्जय़ उवाच:
ध्वजमेकेन विव्याध साय़केन शितेन ह ||
५ ख
सञ्जय़ उवाच:
साय़कानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत |
६ क
सञ्जय़ उवाच:
तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ||
६ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना |
७ क
सञ्जय़ उवाच:
सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ||
७ ख
सञ्जय़ उवाच:
ततः शरं महाराज सर्वकाय़ावदारणम् |
८ क
सञ्जय़ उवाच:
प्राहिणोद्भीमसेनाय़ वलाय़ेन्द्र इवाशनिम् ||
८ ख
सञ्जय़ उवाच:
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः |
९ क
सञ्जय़ उवाच:
अगच्छद्दारय़न्भूमिं चित्रपुङ्खः शिलीमुखः ||
९ ख
सञ्जय़ उवाच:
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् |
१० क
सञ्जय़ उवाच:
प्राहिणोत्सूतपुत्राय़ षडस्रामविचारय़न् ||
१० ख
सञ्जय़ उवाच:
तय़ा जघानाधिरथेः सदश्वान्साधुवाहिनः |
११ क
सञ्जय़ उवाच:
गदय़ा भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ||
११ ख
सञ्जय़ उवाच:
ततो भीमो महावाहुः क्षुराभ्यां भरतर्षभ |
१२ क
सञ्जय़ उवाच:
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ||
१२ ख
सञ्जय़ उवाच:
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् |
१३ क
सञ्जय़ उवाच:
विस्फारय़न्धनुः कर्णस्तस्थौ भारत दुर्मनाः ||
१३ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम राधेय़स्य पराक्रमम् |
१४ क
सञ्जय़ उवाच:
विरथो रथिनां श्रेष्ठो वारय़ामास यद्रिपुम् ||
१४ ख
सञ्जय़ उवाच:
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे |
१५ क
सञ्जय़ उवाच:
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ||
१५ ख
सञ्जय़ उवाच:
एष दुर्मुख राधेय़ो भीमेन विरथीकृतः |
१६ क
सञ्जय़ उवाच:
तं रथेन नरश्रेष्ठं सम्पादय़ महारथम् ||
१६ ख
सञ्जय़ उवाच:
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः |
१७ क
सञ्जय़ उवाच:
त्वरमाणोऽव्ययात्कर्णं भीमं चावारय़च्छरैः ||
१७ ख
सञ्जय़ उवाच:
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् |
१८ क
सञ्जय़ उवाच:
वाय़ुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ||
१८ ख
सञ्जय़ उवाच:
ततः कर्णं महाराज वारय़ित्वा शिलीमुखैः |
१९ क
सञ्जय़ उवाच:
दुर्मुखाय़ रथं शीघ्रं प्रेषय़ामास पाण्डवः ||
१९ ख
सञ्जय़ उवाच:
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः |
२० क
सञ्जय़ उवाच:
सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षय़म् ||
२० ख
सञ्जय़ उवाच:
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते |
२१ क
सञ्जय़ उवाच:
आस्थितः प्रवभौ राजन्दीप्यमान इवांशुमान् ||
२१ ख
सञ्जय़ उवाच:
शय़ानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् |
२२ क
सञ्जय़ उवाच:
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ||
२२ ख
सञ्जय़ उवाच:
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् |
२३ क
सञ्जय़ उवाच:
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ||
२३ ख
सञ्जय़ उवाच:
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः |
२४ क
सञ्जय़ उवाच:
प्राहिणोत्सूतपुत्राय़ भीमसेनश्चतुर्दश ||
२४ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः |
२५ क
सञ्जय़ उवाच:
हेमचित्रा महाराज द्योतय़न्तो दिशो दश ||
२५ ख
सञ्जय़ उवाच:
अपिवन्सूतपुत्रस्य शोणितं रक्तभोजनाः |
२६ क
सञ्जय़ उवाच:
क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ||
२६ ख
सञ्जय़ उवाच:
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः |
२७ क
सञ्जय़ उवाच:
अर्धप्रविष्टाः संरव्धा विलानीव महोरगाः ||
२७ ख
सञ्जय़ उवाच:
तं प्रत्यविध्यद्राधेय़ो जाम्वूनदविभूषितैः |
२८ क
सञ्जय़ उवाच:
चतुर्दशभिरत्युग्रैर्नाराचैरविचारय़न् ||
२८ ख
सञ्जय़ उवाच:
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः |
२९ क
सञ्जय़ उवाच:
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ||
२९ ख
सञ्जय़ उवाच:
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् |
३० क
सञ्जय़ उवाच:
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ||
३० ख
सञ्जय़ उवाच:
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः |
३१ क
सञ्जय़ उवाच:
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ||
३१ ख
सञ्जय़ उवाच:
स भीमस्त्रिभिराय़स्तः सूतपुत्रं पतत्रिभिः |
३२ क
सञ्जय़ उवाच:
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ||
३२ ख
सञ्जय़ उवाच:
स विह्वलो महाराज कर्णो भीमवलार्दितः |
३३ क
सञ्जय़ उवाच:
प्राद्रवज्जवनैरश्वै रणं हित्वा महाय़शाः ||
३३ ख
सञ्जय़ उवाच:
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् |
३४ क
सञ्जय़ उवाच:
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ||
३४ ख