सञ्जय़ उवाच:
ततो दुर्योधनो द्रोणमभिगम्येदमव्रवीत् |
१ क
सञ्जय़ उवाच:
अमर्षवशमापन्नो जनय़न्हर्षतेजसी ||
१ ख
सञ्जय़ उवाच:
न मर्षणीय़ाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः |
२ क
सञ्जय़ उवाच:
सपत्ना ग्लानमनसो लव्धलक्ष्या विशेषतः ||
२ ख
सञ्जय़ उवाच:
तत्तु मर्षितमस्माभिर्भवतः प्रिय़काम्यया |
३ क
सञ्जय़ उवाच:
त एते परिविश्रान्ताः पाण्डवा वलवत्तराः ||
३ ख
सञ्जय़ उवाच:
सर्वथा परिहीनाः स्म तेजसा च वलेन च |
४ क
सञ्जय़ उवाच:
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ||
४ ख
सञ्जय़ उवाच:
दिव्यान्यस्त्राणि सर्वाणि व्रह्मास्त्रादीनि यान्यपि |
५ क
सञ्जय़ उवाच:
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ||
५ ख
सञ्जय़ उवाच:
न पाण्डवेय़ा न वय़ं नान्ये लोके धनुर्धराः |
६ क
सञ्जय़ उवाच:
युध्यमानस्य ते तुल्याः सत्यमेतद्व्रवीमि ते ||
६ ख
सञ्जय़ उवाच:
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम |
७ क
सञ्जय़ उवाच:
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशय़ः ||
७ ख
सञ्जय़ उवाच:
स भवान्मर्षय़त्येनांस्त्वत्तो भीतान्विशेषतः |
८ क
सञ्जय़ उवाच:
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ||
८ ख
सञ्जय़ उवाच:
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते |
९ क
सञ्जय़ उवाच:
समन्युरव्रवीद्राजन्दुर्योधनमिदं वचः ||
९ ख
सञ्जय़ उवाच:
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे |
१० क
सञ्जय़ उवाच:
अतः परं मय़ा कार्यं क्षुद्रं विजय़गृद्धिना |
१० ख
सञ्जय़ उवाच:
अनस्त्रविदय़ं सर्वो हन्तव्योऽस्त्रविदा जनः ||
१० ग
सञ्जय़ उवाच:
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् |
११ क
सञ्जय़ उवाच:
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ||
११ ख
सञ्जय़ उवाच:
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् |
१२ क
सञ्जय़ उवाच:
विमोक्ष्ये कवचं राजन्सत्येनाय़ुधमालभे ||
१२ ख
सञ्जय़ उवाच:
मन्यसे यच्च कौन्तेय़मर्जुनं श्रान्तमाहवे |
१३ क
सञ्जय़ उवाच:
तस्य वीर्यं महावाहो शृणु सत्येन कौरव ||
१३ ख
सञ्जय़ उवाच:
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः |
१४ क
सञ्जय़ उवाच:
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ||
१४ ख
सञ्जय़ उवाच:
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः |
१५ क
सञ्जय़ उवाच:
साय़कैर्वारितश्चापि वर्षमाणो महात्मना ||
१५ ख
सञ्जय़ उवाच:
यक्षा नागास्तथा दैत्या ये चान्ये वलगर्विताः |
१६ क
सञ्जय़ उवाच:
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ||
१६ ख
सञ्जय़ उवाच:
गन्धर्वा घोषय़ात्राय़ां चित्रसेनादय़ो जिताः |
१७ क
सञ्जय़ उवाच:
यूय़ं तैर्ह्रिय़माणाश्च मोक्षिता दृढधन्वना ||
१७ ख
सञ्जय़ उवाच:
निवातकवचाश्चापि देवानां शत्रवस्तथा |
१८ क
सञ्जय़ उवाच:
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ||
१८ ख
सञ्जय़ उवाच:
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
१९ क
सञ्जय़ उवाच:
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ||
१९ ख
सञ्जय़ उवाच:
प्रत्यक्षं चैव ते सर्वं यथा वलमिदं तव |
२० क
सञ्जय़ उवाच:
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ||
२० ख
सञ्जय़ उवाच:
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा |
२१ क
सञ्जय़ उवाच:
द्रोणं तव सुतो राजन्पुनरेवेदमव्रवीत् ||
२१ ख
सञ्जय़ उवाच:
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे |
२२ क
सञ्जय़ उवाच:
हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् ||
२२ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव |
२३ क
सञ्जय़ उवाच:
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाव्रवीत् ||
२३ ख
सञ्जय़ उवाच:
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा |
२४ क
सञ्जय़ उवाच:
अक्षय़ं क्षपय़ेत्कश्चित्क्षत्रिय़ः क्षत्रिय़र्षभम् ||
२४ ख
सञ्जय़ उवाच:
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः |
२५ क
सञ्जय़ उवाच:
नासुरोरगरक्षांसि क्षपय़ेय़ुः सहाय़ुधम् ||
२५ ख
सञ्जय़ उवाच:
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत |
२६ क
सञ्जय़ उवाच:
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ||
२६ ख
सञ्जय़ उवाच:
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चय़ः |
२७ क
सञ्जय़ उवाच:
श्रेय़सस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ||
२७ ख
सञ्जय़ उवाच:
गच्छ त्वमपि कौन्तेय़मात्मार्थेभ्यो हि माचिरम् |
२८ क
सञ्जय़ उवाच:
त्वमप्याशंससे योद्धुं कुलजः क्षत्रिय़ो ह्यसि ||
२८ ख
सञ्जय़ उवाच:
इमान्किं पार्थिवान्सर्वान्घातय़िष्यस्यनागसः |
२९ क
सञ्जय़ उवाच:
त्वमस्य मूलं वैरस्य तस्मादासादय़ार्जुनम् ||
२९ ख
सञ्जय़ उवाच:
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः |
३० क
सञ्जय़ उवाच:
दूर्द्यूतदेवी गान्धारिः प्रय़ात्वर्जुनमाहवे ||
३० ख
सञ्जय़ उवाच:
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः |
३१ क
सञ्जय़ उवाच:
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ||
३१ ख
सञ्जय़ उवाच:
त्वय़ा कथितमत्यन्तं कर्णेन सह हृष्टवत् |
३२ क
सञ्जय़ उवाच:
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ||
३२ ख
सञ्जय़ उवाच:
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे |
३३ क
सञ्जय़ उवाच:
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रय़ः ||
३३ ख
सञ्जय़ उवाच:
इति ते कत्थमानस्य श्रुतं संसदि संसदि |
३४ क
सञ्जय़ उवाच:
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ||
३४ ख
सञ्जय़ उवाच:
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः |
३५ क
सञ्जय़ उवाच:
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जय़ात् ||
३५ ख
सञ्जय़ उवाच:
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् |
३६ क
सञ्जय़ उवाच:
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ||
३६ ख
सञ्जय़ उवाच:
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे |
३७ क
सञ्जय़ उवाच:
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ||
३७ ख