chevron_left शल्य पर्व अध्याय ११
सञ्जय़ उवाच:
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाय़शाः |
५१ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैः कङ्कवर्हिणवाजितैः ||
५१ ख
सञ्जय़ उवाच:
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः |
५२ क
सञ्जय़ उवाच:
द्रुमसेनं चतुःषष्ट्या निजघान महारथः ||
५२ ख
सञ्जय़ उवाच:
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना |
५३ क
सञ्जय़ उवाच:
निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ||
५३ ख
सञ्जय़ उवाच:
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः |
५४ क
सञ्जय़ उवाच:
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ||
५४ ख
सञ्जय़ उवाच:
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम |
५५ क
सञ्जय़ उवाच:
सम्प्रेषय़च्छितान्पार्थः शरानाशीविषोपमान् ||
५५ ख
सञ्जय़ उवाच:
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः |
५६ क
सञ्जय़ उवाच:
प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ||
५६ ख
सञ्जय़ उवाच:
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना |
५७ क
सञ्जय़ उवाच:
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ||
५७ ख
सञ्जय़ उवाच:
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् |
५८ क
सञ्जय़ उवाच:
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ||
५८ ख
सञ्जय़ उवाच:
शल्यः साय़कवर्षेण पर्जन्य इव वृष्टिमान् |
५९ क
सञ्जय़ उवाच:
अभ्यवर्षदमेय़ात्मा क्षत्रिय़ं क्षत्रिय़र्षभः ||
५९ ख
सञ्जय़ उवाच:
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ |
६० क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडय़त् ||
६० ख
सञ्जय़ उवाच:
ततो वाणमय़ं जालं विततं पाण्डवोरसि |
६१ क
सञ्जय़ उवाच:
अपश्याम महाराज मेघजालमिवोद्गतम् ||
६१ ख
सञ्जय़ उवाच:
तस्य शल्यो रणे क्रुद्धो वाणैः संनतपर्वभिः |
६२ क
सञ्जय़ उवाच:
दिशः प्रच्छादय़ामास प्रदिशश्च महारथः ||
६२ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा वाणजालेन पीडितः |
६३ क
सञ्जय़ उवाच:
वभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ||
६३ ख