chevron_left आदि पर्व अध्याय ११
डुण्डुभ उवाच:
सखा वभूव मे पूर्वं खगमो नाम वै द्विजः |
१ क
डुण्डुभ उवाच:
भृशं संशितवाक्तात तपोवलसमन्वितः ||
१ ख
डुण्डुभ उवाच:
स मय़ा क्रीडता वाल्ये कृत्वा तार्णमथोरगम् |
२ क
डुण्डुभ उवाच:
अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||
२ ख
डुण्डुभ उवाच:
लव्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः |
३ क
डुण्डुभ उवाच:
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||
३ ख
डुण्डुभ उवाच:
यथावीर्यस्त्वय़ा सर्पः कृतोऽय़ं मद्विभीषय़ा |
४ क
डुण्डुभ उवाच:
तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||
४ ख
डुण्डुभ उवाच:
तस्याहं तपसो वीर्यं जानमानस्तपोधन |
५ क
डुण्डुभ उवाच:
भृशमुद्विग्नहृदय़स्तमवोचं वनौकसम् ||
५ ख
डुण्डुभ उवाच:
प्रय़तः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः |
६ क
डुण्डुभ उवाच:
सखेति हसतेदं ते नर्मार्थं वै कृतं मय़ा ||
६ ख
डुण्डुभ उवाच:
क्षन्तुमर्हसि मे व्रह्मञ्शापोऽय़ं विनिवर्त्यताम् |
७ क
डुण्डुभ उवाच:
सोऽथ मामव्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||
७ ख
डुण्डुभ उवाच:
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः |
८ क
डुण्डुभ उवाच:
नानृतं वै मय़ा प्रोक्तं भवितेदं कथञ्चन ||
८ ख
डुण्डुभ उवाच:
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत |
९ क
डुण्डुभ उवाच:
श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||
९ ख
डुण्डुभ उवाच:
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः |
१० क
डुण्डुभ उवाच:
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||
१० ख
डुण्डुभ उवाच:
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः |
११ क
डुण्डुभ उवाच:
स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||
११ ख
डुण्डुभ उवाच:
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः |
१२ क
डुण्डुभ उवाच:
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्व्राह्मणः क्वचित् ||
१२ ख
डुण्डुभ उवाच:
व्राह्मणः सौम्य एवेह जाय़तेति परा श्रुतिः |
१३ क
डुण्डुभ उवाच:
वेदवेदाङ्गवित्तात सर्वभूताभय़प्रदः ||
१३ ख
डुण्डुभ उवाच:
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् |
१४ क
डुण्डुभ उवाच:
व्राह्मणस्य परो धर्मो वेदानां धरणादपि ||
१४ ख
डुण्डुभ उवाच:
क्षत्रिय़स्य तु यो धर्मः स नेहेष्यति वै तव |
१५ क
डुण्डुभ उवाच:
दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||
१५ ख
डुण्डुभ उवाच:
तदिदं क्षत्रिय़स्यासीत्कर्म वै शृणु मे रुरो |
१६ क
डुण्डुभ उवाच:
जनमेजय़स्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||
१६ ख
डुण्डुभ उवाच:
परित्राणं च भीतानां सर्पाणां व्राह्मणादपि |
१७ क
डुण्डुभ उवाच:
तपोवीर्यवलोपेताद्वेदवेदाङ्गपारगात् |
१७ ख
डुण्डुभ उवाच:
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||
१७ ग