वैशम्पाय़न उवाच:
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा |
१ क
वैशम्पाय़न उवाच:
महादुःखपरीतात्मा वभूव जनमेजय़ ||
१ ख
वैशम्पाय़न उवाच:
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः |
२ क
वैशम्पाय़न उवाच:
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ||
२ ख
वैशम्पाय़न उवाच:
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् |
३ क
वैशम्पाय़न उवाच:
सुहृदो भृशसंविग्नाः सान्त्वय़ां चक्रिरे तदा ||
३ ख
वैशम्पाय़न उवाच:
ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा |
४ क
वैशम्पाय़न उवाच:
नकुलः कृष्णय़ा सार्धमुपाय़ात्परमार्तय़ा ||
४ ख
वैशम्पाय़न उवाच:
उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रिय़म् |
५ क
वैशम्पाय़न उवाच:
तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ||
५ ख
वैशम्पाय़न उवाच:
कम्पमानेव कदली वातेनाभिसमीरिता |
६ क
वैशम्पाय़न उवाच:
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ||
६ ख
वैशम्पाय़न उवाच:
वभूव वदनं तस्याः सहसा शोककर्शितम् |
७ क
वैशम्पाय़न उवाच:
फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ||
७ ख
वैशम्पाय़न उवाच:
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः |
८ क
वैशम्पाय़न उवाच:
वाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ||
८ ख
वैशम्पाय़न उवाच:
सा समाश्वासिता तेन भीमसेनेन भामिनी |
९ क
वैशम्पाय़न उवाच:
रुदती पाण्डवं कृष्णा सहभ्रातरमव्रवीत् ||
९ ख
वैशम्पाय़न उवाच:
दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् |
१० क
वैशम्पाय़न उवाच:
आत्मजान्क्षत्रधर्मेण सम्प्रदाय़ यमाय़ वै ||
१० ख
वैशम्पाय़न उवाच:
दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् |
११ क
वैशम्पाय़न उवाच:
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ||
११ ख
वैशम्पाय़न उवाच:
आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् |
१२ क
वैशम्पाय़न उवाच:
उपप्लव्ये मय़ा सार्धं दिष्ट्या त्वं न स्मरिष्यसि ||
१२ ख
वैशम्पाय़न उवाच:
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा |
१३ क
वैशम्पाय़न उवाच:
शोकस्तपति मां पार्थ हुताशन इवाशय़म् ||
१३ ख
वैशम्पाय़न उवाच:
तस्य पापकृतो द्रौणेर्न चेदद्य त्वय़ा मृधे |
१४ क
वैशम्पाय़न उवाच:
ह्रिय़ते सानुवन्धस्य युधि विक्रम्य जीवितम् ||
१४ ख
वैशम्पाय़न उवाच:
इहैव प्राय़मासिष्ये तन्निवोधत पाण्डवाः |
१५ क
वैशम्पाय़न उवाच:
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ||
१५ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् |
१६ क
वैशम्पाय़न उवाच:
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ||
१६ ख
वैशम्पाय़न उवाच:
दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रिय़ाम् |
१७ क
वैशम्पाय़न उवाच:
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ||
१७ ख
वैशम्पाय़न उवाच:
धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे |
१८ क
वैशम्पाय़न उवाच:
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ||
१८ ख
वैशम्पाय़न उवाच:
द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः |
१९ क
वैशम्पाय़न उवाच:
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ||
१९ ख
द्रौपद्यु उवाच:
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः |
२० क
द्रौपद्यु उवाच:
निहत्य सङ्ख्ये तं पापं पश्येय़ं मणिमाहृतम् |
२० ख
द्रौपद्यु उवाच:
राजञ्शिरसि तं कृत्वा जीवेय़मिति मे मतिः ||
२० ग
वैशम्पाय़न उवाच:
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना |
२१ क
वैशम्पाय़न उवाच:
भीमसेनमथाभ्येत्य कुपिता वाक्यमव्रवीत् ||
२१ ख
वैशम्पाय़न उवाच:
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् |
२२ क
वैशम्पाय़न उवाच:
जहि तं पापकर्माणं शम्वरं मघवानिव |
२२ ख
वैशम्पाय़न उवाच:
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ||
२२ ग
वैशम्पाय़न उवाच:
श्रुतं तत्सर्वलोकेषु परमव्यसने यथा |
२३ क
वैशम्पाय़न उवाच:
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते |
२३ ख
वैशम्पाय़न उवाच:
हिडिम्वदर्शने चैव तथा त्वमभवो गतिः ||
२३ ग
वैशम्पाय़न उवाच:
तथा विराटनगरे कीचकेन भृशार्दिताम् |
२४ क
वैशम्पाय़न उवाच:
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ||
२४ ख
वैशम्पाय़न उवाच:
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा |
२५ क
वैशम्पाय़न उवाच:
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ||
२५ ख
वैशम्पाय़न उवाच:
तस्या वहुविधं दुःखान्निशम्य परिदेवितम् |
२६ क
वैशम्पाय़न उवाच:
नामर्षय़त कौन्तेय़ो भीमसेनो महावलः ||
२६ ख
वैशम्पाय़न उवाच:
स काञ्चनविचित्राङ्गमारुरोह महारथम् |
२७ क
वैशम्पाय़न उवाच:
आदाय़ रुचिरं चित्रं समार्गणगुणं धनुः ||
२७ ख
वैशम्पाय़न उवाच:
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः |
२८ क
वैशम्पाय़न उवाच:
विस्फार्य सशरं चापं तूर्णमश्वानचोदय़त् ||
२८ ख
वैशम्पाय़न उवाच:
ते हय़ाः पुरुषव्याघ्र चोदिता वातरंहसः |
२९ क
वैशम्पाय़न उवाच:
वेगेन त्वरिता जग्मुर्हरय़ः शीघ्रगामिनः ||
२९ ख
वैशम्पाय़न उवाच:
शिविरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः |
३० क
वैशम्पाय़न उवाच:
द्रोणपुत्ररथस्याशु यय़ौ मार्गेण वीर्यवान् ||
३० ख