अर्जुन उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
१ क
अर्जुन उवाच:
तापसैः सह संवादं शक्रस्य भरतर्षभ ||
१ ख
अर्जुन उवाच:
केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः |
२ क
अर्जुन उवाच:
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ||
२ ख
अर्जुन उवाच:
धर्मोऽय़मिति मन्वाना व्रह्मचर्ये व्यवस्थिताः |
३ क
अर्जुन उवाच:
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपाय़त ||
३ ख
अर्जुन उवाच:
तानावभाषे भगवान्पक्षी भूत्वा हिरण्मय़ः |
४ क
अर्जुन उवाच:
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ||
४ ख
अर्जुन उवाच:
पुण्यं च वत कर्मैषां प्रशस्तं चैव जीवितम् |
५ क
अर्जुन उवाच:
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपराय़णाः ||
५ ख
ऋषय़ ऊचुः:
अहो वताय़ं शकुनिर्विघसाशान्प्रशंसति |
६ क
ऋषय़ ऊचुः:
अस्मान्नूनमय़ं शास्ति वय़ं च विघसाशिनः ||
६ ख
शकुनिरु उवाच:
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् |
७ क
शकुनिरु उवाच:
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ||
७ ख
ऋषय़ ऊचुः:
इदं श्रेय़ः परमिति वय़मेवाभ्युपास्महे |
८ क
ऋषय़ ऊचुः:
शकुने व्रूहि यच्छ्रेय़ो भृशं वै श्रद्दधाम ते ||
८ ख
शकुनिरु उवाच:
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना |
९ क
शकुनिरु उवाच:
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ||
९ ख
ऋषय़ ऊचुः:
शृणुमस्ते वचस्तात पन्थानो विदितास्तव |
१० क
ऋषय़ ऊचुः:
निय़ोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ||
१० ख
शकुनिरु उवाच:
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् |
११ क
शकुनिरु उवाच:
शव्दानां प्रवरो मन्त्रो व्राह्मणो द्विपदां वरः ||
११ ख
शकुनिरु उवाच:
मन्त्रोऽय़ं जातकर्मादि व्राह्मणस्य विधीय़ते |
१२ क
शकुनिरु उवाच:
जीवतो यो यथाकालं श्मशाननिधनादिति ||
१२ ख
शकुनिरु उवाच:
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः |
१३ क
शकुनिरु उवाच:
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ||
१३ ख
शकुनिरु उवाच:
आम्नाय़दृढवादीनि तथा सिद्धिरिहेष्यते |
१४ क
शकुनिरु उवाच:
मासार्धमासा ऋतव आदित्यशशितारकम् ||
१४ ख
शकुनिरु उवाच:
ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् |
१५ क
शकुनिरु उवाच:
सिद्धिक्षेत्रमिदं पुण्यमय़मेवाश्रमो महान् ||
१५ ख
शकुनिरु उवाच:
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः |
१६ क
शकुनिरु उवाच:
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ||
१६ ख
शकुनिरु उवाच:
देववंशान्पितृवंशान्व्रह्मवंशांश्च शाश्वतान् |
१७ क
शकुनिरु उवाच:
सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ||
१७ ख
शकुनिरु उवाच:
एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् |
१८ क
शकुनिरु उवाच:
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ||
१८ ख
शकुनिरु उवाच:
देववंशान्पितृवंशान्व्रह्मवंशांश्च शाश्वतान् |
१९ क
शकुनिरु उवाच:
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ||
१९ ख
शकुनिरु उवाच:
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः |
२० क
शकुनिरु उवाच:
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रव्रवीमि वः ||
२० ख
शकुनिरु उवाच:
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशय़ः |
२१ क
शकुनिरु उवाच:
कुटुम्वविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ||
२१ ख
शकुनिरु उवाच:
एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः |
२२ क
शकुनिरु उवाच:
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ||
२२ ख
शकुनिरु उवाच:
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः |
२३ क
शकुनिरु उवाच:
साय़म्प्रातर्विभज्यान्नं स्वकुटुम्वे यथाविधि ||
२३ ख
शकुनिरु उवाच:
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च |
२४ क
शकुनिरु उवाच:
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ||
२४ ख
शकुनिरु उवाच:
तस्मात्स्वधर्ममास्थाय़ सुव्रताः सत्यवादिनः |
२५ क
शकुनिरु उवाच:
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ||
२५ ख
शकुनिरु उवाच:
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः |
२६ क
शकुनिरु उवाच:
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ||
२६ ख
शकुनिरु उवाच:
ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् |
२७ क
शकुनिरु उवाच:
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ||
२७ ख
शकुनिरु उवाच:
तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्व्य शाश्वतम् |
२८ क
शकुनिरु उवाच:
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ||
२८ ख