युधिष्ठिर उवाच:
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ |
१ क
युधिष्ठिर उवाच:
श्रीः पद्मा वसते नित्यं तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अत्र ते वर्तय़िष्यामि यथादृष्टं यथाश्रुतम् |
२ क
भीष्म उवाच:
रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ||
२ ख
भीष्म उवाच:
नाराय़णस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रिय़ं पद्मसमानवक्त्राम् |
३ क
भीष्म उवाच:
कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ||
३ ख
भीष्म उवाच:
कानीह भूतान्युपसेवसे त्वं; सन्तिष्ठती कानि न सेवसे त्वम् |
४ क
भीष्म उवाच:
तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे व्रूहि महर्षिकन्ये ||
४ ख
भीष्म उवाच:
एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य |
५ क
भीष्म उवाच:
उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना ||
५ ख
भीष्म उवाच:
वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने |
६ क
भीष्म उवाच:
नाकर्मशीले पुरुषे वसामि; न नास्तिके साङ्करिके कृतघ्ने |
६ ख
भीष्म उवाच:
न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूय़े ||
६ ग
भीष्म उवाच:
ये चाल्पतेजोवलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र |
७ क
भीष्म उवाच:
न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु ||
७ ख
भीष्म उवाच:
यश्चात्मनि प्रार्थय़ते न किं चि; द्यश्च स्वभावोपहतान्तरात्मा |
८ क
भीष्म उवाच:
तेष्वल्पसन्तोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि ||
८ ख
भीष्म उवाच:
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु |
९ क
भीष्म उवाच:
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ||
९ ख
भीष्म उवाच:
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च |
१० क
भीष्म उवाच:
वसामि सत्यशीलासु स्वभावनिरतासु च ||
१० ख
भीष्म उवाच:
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् |
११ क
भीष्म उवाच:
परस्य वेश्माभिरतामलज्जा; मेवंविधां स्त्रीं परिवर्जय़ामि ||
११ ख
भीष्म उवाच:
लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रिय़ां च |
१२ क
भीष्म उवाच:
निद्राभिभूतां सततं शय़ाना; मेवंविधां स्त्रीं परिवर्जय़ामि ||
१२ ख
भीष्म उवाच:
सत्यासु नित्यं प्रिय़दर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु |
१३ क
भीष्म उवाच:
वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु ||
१३ ख
भीष्म उवाच:
यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु |
१४ क
भीष्म उवाच:
वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ||
१४ ख
भीष्म उवाच:
शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु |
१५ क
भीष्म उवाच:
नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु ||
१५ ख
भीष्म उवाच:
विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु |
१६ क
भीष्म उवाच:
वसामि नित्यं सुवहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु |
१६ ख
भीष्म उवाच:
मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् ||
१६ ग
भीष्म उवाच:
यस्मिन्गृहे हूय़ते हव्यवाहो; गोव्राह्मणश्चार्च्यते देवताश्च |
१७ क
भीष्म उवाच:
काले च पुष्पैर्वलय़ः क्रिय़न्ते; तस्मिन्गृहे नित्यमुपैमि वासम् ||
१७ ख
भीष्म उवाच:
स्वाध्याय़नित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव |
१८ क
भीष्म उवाच:
वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ||
१८ ख
भीष्म उवाच:
नाराय़णे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता |
१९ क
भीष्म उवाच:
तस्मिन्हि धर्मः सुमहान्निविष्टो; व्रह्मण्यता चात्र तथा प्रिय़त्वम् ||
१९ ख
भीष्म उवाच:
नाहं शरीरेण वसामि देवि; नैवं मय़ा शक्यमिहाभिधातुम् |
२० क
भीष्म उवाच:
यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मय़शोर्थकामैः ||
२० ख