chevron_left आश्वमेधिक पर्व अध्याय ११
वैशम्पाय़न उवाच:
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा |
१ क
वैशम्पाय़न उवाच:
वासुदेवो महातेजास्ततो वचनमाददे ||
१ ख
वैशम्पाय़न उवाच:
तं नृपं दीनमनसं निहतज्ञातिवान्धवम् |
२ क
वैशम्पाय़न उवाच:
उपप्लुतमिवादित्यं सधूममिव पावकम् ||
२ ख
वैशम्पाय़न उवाच:
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः |
३ क
वैशम्पाय़न उवाच:
आश्वासय़न्धर्मसुतं प्रवक्तुमुपचक्रमे ||
३ ख
वासुदेव उवाच:
सर्वं जिह्मं मृत्युपदमार्जवं व्रह्मणः पदम् |
४ क
वासुदेव उवाच:
एतावाञ्ज्ञानविषय़ः किं प्रलापः करिष्यति ||
४ ख
वासुदेव उवाच:
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः |
५ क
वासुदेव उवाच:
कथं शत्रुं शरीरस्थमात्मानं नाववुध्यसे ||
५ ख
वासुदेव उवाच:
अत्र ते वर्तय़िष्यामि यथाधर्मं यथाश्रुतम् |
६ क
वासुदेव उवाच:
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ||
६ ख
वासुदेव उवाच:
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप |
७ क
वासुदेव उवाच:
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषय़े हृते |
७ ख
वासुदेव उवाच:
धराहरणदुर्गन्धो विषय़ः समपद्यत ||
७ ग
वासुदेव उवाच:
शतक्रतुश्चुकोपाथ गन्धस्य विषय़े हृते |
८ क
वासुदेव उवाच:
वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ||
८ ख
वासुदेव उवाच:
स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा |
९ क
वासुदेव उवाच:
विवेश सहसैवापो जग्राह विषय़ं ततः ||
९ ख
वासुदेव उवाच:
व्याप्तास्वथाप्सु वृत्रेण रसे च विषय़े हृते |
१० क
वासुदेव उवाच:
शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ||
१० ख
वासुदेव उवाच:
स वध्यमानो वज्रेण सलिले भूरितेजसा |
११ क
वासुदेव उवाच:
विवेश सहसा ज्योतिर्जग्राह विषय़ं ततः ||
११ ख
वासुदेव उवाच:
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषय़े हृते |
१२ क
वासुदेव उवाच:
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||
१२ ख
वासुदेव उवाच:
स वध्यमानो वज्रेण सुभृशं भूरितेजसा |
१३ क
वासुदेव उवाच:
विवेश सहसा वाय़ुं जग्राह विषय़ं ततः ||
१३ ख
वासुदेव उवाच:
व्याप्ते वाय़ौ तु वृत्रेण स्पर्शेऽथ विषय़े हृते |
१४ क
वासुदेव उवाच:
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||
१४ ख
वासुदेव उवाच:
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
१५ क
वासुदेव उवाच:
आकाशमभिदुद्राव जग्राह विषय़ं ततः ||
१५ ख
वासुदेव उवाच:
आकाशे वृत्रभूते च शव्दे च विषय़े हृते |
१६ क
वासुदेव उवाच:
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||
१६ ख
वासुदेव उवाच:
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |
१७ क
वासुदेव उवाच:
विवेश सहसा शक्रं जग्राह विषय़ं ततः ||
१७ ख
वासुदेव उवाच:
तस्य वृत्रगृहीतस्य मोहः समभवन्महान् |
१८ क
वासुदेव उवाच:
रथन्तरेण तं तात वसिष्ठः प्रत्यवोधय़त् ||
१८ ख
वासुदेव उवाच:
ततो वृत्रं शरीरस्थं जघान भरतर्षभ |
१९ क
वासुदेव उवाच:
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ||
१९ ख
वासुदेव उवाच:
इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु |
२० क
वासुदेव उवाच:
ऋषिभिश्च मम प्रोक्तं तन्निवोध नराधिप ||
२० ख