धृतराष्ट्र उवाच:
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने |
१ क
धृतराष्ट्र उवाच:
अहं चैव विजानामि सर्वे चेमे नराधिपाः ||
१ ख
धृतराष्ट्र उवाच:
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदय़म् |
२ क
धृतराष्ट्र उवाच:
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ||
२ ख
धृतराष्ट्र उवाच:
यदि त्वहमनुग्राह्यः कौरवेषु दय़ा यदि |
३ क
धृतराष्ट्र उवाच:
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ||
३ ख
व्यास उवाच:
अय़माय़ाति वै राजन्मैत्रेय़ो भगवानृषिः |
४ क
व्यास उवाच:
अन्वीय़ पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षय़ा ||
४ ख
व्यास उवाच:
एष दुर्योधनं पुत्रं तव राजन्महानृषिः |
५ क
व्यास उवाच:
अनुशास्ता यथान्याय़ं शमाय़ास्य कुलस्य ते ||
५ ख
व्यास उवाच:
व्रूय़ाद्यदेष राजेन्द्र तत्कार्यमविशङ्कय़ा |
६ क
व्यास उवाच:
अक्रिय़ाय़ां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ||
६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा यय़ौ व्यासो मैत्रेय़ः प्रत्यदृश्यत |
७ क
वैशम्पाय़न उवाच:
पूजय़ा प्रतिजग्राह सपुत्रस्तं नराधिपः ||
७ ख
वैशम्पाय़न उवाच:
दत्त्वार्घ्याद्याः क्रिय़ाः सर्वा विश्रान्तं मुनिपुङ्गवम् |
८ क
वैशम्पाय़न उवाच:
प्रश्रय़ेणाव्रवीद्राजा धृतराष्ट्रोऽम्विकासुतः ||
८ ख
वैशम्पाय़न उवाच:
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले |
९ क
वैशम्पाय़न उवाच:
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ||
९ ख
वैशम्पाय़न उवाच:
समय़े स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः |
१० क
वैशम्पाय़न उवाच:
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ||
१० ख
मैत्रेय़ उवाच:
तीर्थय़ात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् |
११ क
मैत्रेय़ उवाच:
यदृच्छय़ा धर्मराजं दृष्टवान्काम्यके वने ||
११ ख
मैत्रेय़ उवाच:
तं जटाजिनसंवीतं तपोवननिवासिनम् |
१२ क
मैत्रेय़ उवाच:
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ||
१२ ख
मैत्रेय़ उवाच:
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् |
१३ क
मैत्रेय़ उवाच:
अनय़ं द्यूतरूपेण महापाय़मुपस्थितम् ||
१३ ख
मैत्रेय़ उवाच:
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षय़ा |
१४ क
मैत्रेय़ उवाच:
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वय़ि मे प्रभो ||
१४ ख
मैत्रेय़ उवाच:
नैतदौपय़िकं राजंस्त्वय़ि भीष्मे च जीवति |
१५ क
मैत्रेय़ उवाच:
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ||
१५ ख
मैत्रेय़ उवाच:
मेढीभूतः स्वय़ं राजन्निग्रहे प्रग्रहे भवान् |
१६ क
मैत्रेय़ उवाच:
किमर्थमनय़ं घोरमुत्पतन्तमुपेक्षसे ||
१६ ख
मैत्रेय़ उवाच:
दस्यूनामिव यद्वृत्तं सभाय़ां कुरुनन्दन |
१७ क
मैत्रेय़ उवाच:
तेन न भ्राजसे राजंस्तापसानां समागमे ||
१७ ख
वैशम्पाय़न उवाच:
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् |
१८ क
वैशम्पाय़न उवाच:
उवाच श्लक्ष्णय़ा वाचा मैत्रेय़ो भगवानृषिः ||
१८ ख
वैशम्पाय़न उवाच:
दुर्योधन महावाहो निवोध वदतां वर |
१९ क
वैशम्पाय़न उवाच:
वचनं मे महाप्राज्ञ व्रुवतो यद्धितं तव ||
१९ ख
वैशम्पाय़न उवाच:
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः |
२० क
वैशम्पाय़न उवाच:
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ||
२० ख
वैशम्पाय़न उवाच:
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तय़ोधिनः |
२१ क
वैशम्पाय़न उवाच:
सर्वे नागाय़ुतप्राणा वज्रसंहनना दृढाः ||
२१ ख
वैशम्पाय़न उवाच:
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः |
२२ क
वैशम्पाय़न उवाच:
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् |
२२ ख
वैशम्पाय़न उवाच:
हिडिम्ववकमुख्यानां किर्मीरस्य च रक्षसः ||
२२ ग
वैशम्पाय़न उवाच:
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् |
२३ क
वैशम्पाय़न उवाच:
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ||
२३ ख
वैशम्पाय़न उवाच:
तं भीमः समरश्लाघी वलेन वलिनां वरः |
२४ क
वैशम्पाय़न उवाच:
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ||
२४ ख
वैशम्पाय़न उवाच:
पश्य दिग्विजय़े राजन्यथा भीमेन पातितः |
२५ क
वैशम्पाय़न उवाच:
जरासन्धो महेष्वासो नागाय़ुतवलो युधि ||
२५ ख
वैशम्पाय़न उवाच:
सम्वन्धी वासुदेवश्च येषां श्यालश्च पार्षतः |
२६ क
वैशम्पाय़न उवाच:
कस्तान्युधि समासीत जरामरणवान्नरः ||
२६ ख
वैशम्पाय़न उवाच:
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ |
२७ क
वैशम्पाय़न उवाच:
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ||
२७ ख
वैशम्पाय़न उवाच:
एवं तु व्रुवतस्तस्य मैत्रेय़स्य विशां पते |
२८ क
वैशम्पाय़न उवाच:
ऊरुं गजकराकारं करेणाभिजघान सः ||
२८ ख
वैशम्पाय़न उवाच:
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् |
२९ क
वैशम्पाय़न उवाच:
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ||
२९ ख
वैशम्पाय़न उवाच:
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् |
३० क
वैशम्पाय़न उवाच:
दृष्ट्वा दुर्योधनं राजन्मैत्रेय़ं कोप आविशत् ||
३० ख
वैशम्पाय़न उवाच:
स कोपवशमापन्नो मैत्रेय़ो मुनिसत्तमः |
३१ क
वैशम्पाय़न उवाच:
विधिना सम्प्रय़ुक्तश्च शापाय़ास्य मनो दधे ||
३१ ख
वैशम्पाय़न उवाच:
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः |
३२ क
वैशम्पाय़न उवाच:
मैत्रेय़ो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ||
३२ ख
वैशम्पाय़न उवाच:
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि |
३३ क
वैशम्पाय़न उवाच:
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ||
३३ ख
वैशम्पाय़न उवाच:
त्वदभिद्रोहसंय़ुक्तं युद्धमुत्पत्स्यते महत् |
३४ क
वैशम्पाय़न उवाच:
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते वली ||
३४ ख
वैशम्पाय़न उवाच:
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः |
३५ क
वैशम्पाय़न उवाच:
प्रसादय़ामास मुनिं नैतदेवं भवेदिति ||
३५ ख
मैत्रेय़ उवाच:
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा |
३६ क
मैत्रेय़ उवाच:
शापो न भविता तात विपरीते भविष्यति ||
३६ ख
वैशम्पाय़न उवाच:
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा |
३७ क
वैशम्पाय़न उवाच:
मैत्रेय़ं प्राह किर्मीरः कथं भीमेन पातितः ||
३७ ख
मैत्रेय़ उवाच:
नाहं वक्ष्याम्यसूय़ा ते न ते शुश्रूषते सुतः |
३८ क
मैत्रेय़ उवाच:
एष ते विदुरः सर्वमाख्यास्यति गते मय़ि ||
३८ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा मैत्रेय़ः प्रातिष्ठत यथागतम् |
३९ क
वैशम्पाय़न उवाच:
किर्मीरवधसंविग्नो वहिर्दुर्योधनोऽगमत् ||
३९ ख