chevron_left विराट पर्व अध्याय ११
वैशम्पाय़न उवाच:
अथापरोऽदृश्यत पाण्डवः प्रभु; र्विराटराज्ञस्तुरगान्समीक्षतः |
१ क
वैशम्पाय़न उवाच:
तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् ||
१ ख
वैशम्पाय़न उवाच:
स वै हय़ानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् |
२ क
वैशम्पाय़न उवाच:
ततोऽव्रवीत्ताननुगानमित्रहा; कुतोऽय़माय़ाति नरोऽमरप्रभः ||
२ ख
वैशम्पाय़न उवाच:
अय़ं हय़ान्वीक्षति मामकान्दृढं; ध्रुवं हय़ज्ञो भविता विचक्षणः |
३ क
वैशम्पाय़न उवाच:
प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा ||
३ ख
वैशम्पाय़न उवाच:
अभ्येत्य राजानममित्रहाव्रवी; ज्जय़ोऽस्तु ते पार्थिव भद्रमस्तु च |
४ क
वैशम्पाय़न उवाच:
हय़ेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् ||
४ ख
विराट उवाच:
ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि |
५ क
विराट उवाच:
कुतोऽसि कस्यासि कथं त्वमागतः; प्रव्रूहि शिल्पं तव विद्यते च यत् ||
५ ख
नकुल उवाच:
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |
६ क
नकुल उवाच:
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ||
६ ख
नकुल उवाच:
अश्वानां प्रकृतिं वेद्मि विनय़ं चापि सर्वशः |
७ क
नकुल उवाच:
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ||
७ ख
नकुल उवाच:
न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हय़ाः |
८ क
नकुल उवाच:
जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः ||
८ ख
विराट उवाच:
यदस्ति किञ्चिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै |
९ क
विराट उवाच:
ये चापि केचिन्मम वाजिय़ोजका; स्त्वदाश्रय़ाः सारथय़श्च सन्तु मे ||
९ ख
विराट उवाच:
इदं तवेष्टं यदि वै सुरोपम; व्रवीहि यत्ते प्रसमीक्षितं वसु |
१० क
विराट उवाच:
न तेऽनुरूपं हय़कर्म विद्यते; प्रभासि राजेव हि संमतो मम ||
१० ख
विराट उवाच:
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रिय़दर्श दर्शनम् |
११ क
विराट उवाच:
कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः ||
११ ख
वैशम्पाय़न उवाच:
तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः |
१२ क
वैशम्पाय़न उवाच:
न चैनमन्येऽपि विदुः कथञ्चन; प्रिय़ाभिरामं विचरन्तमन्तरा ||
१२ ख
वैशम्पाय़न उवाच:
एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः |
१३ क
वैशम्पाय़न उवाच:
अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतय़ोऽतिदुःखिताः ||
१३ ख