जनमेजय़ उवाच:
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् |
१ क
जनमेजय़ उवाच:
यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ||
१ ख
जनमेजय़ उवाच:
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः |
२ क
जनमेजय़ उवाच:
प्रजाविरहितो वापि भूतपूर्वः कदाचन ||
२ ख
जनमेजय़ उवाच:
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् |
३ क
जनमेजय़ उवाच:
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ||
३ ख
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि यन्मां त्वं परिपृच्छसि |
४ क
वैशम्पाय़न उवाच:
पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ||
४ ख
वैशम्पाय़न उवाच:
प्रवीरेश्वररौद्राश्वास्त्रय़ः पुत्रा महारथाः |
५ क
वैशम्पाय़न उवाच:
पूरोः पौष्ट्यामजाय़न्त प्रवीरस्तत्र वंशकृत् ||
५ ख
वैशम्पाय़न उवाच:
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः |
६ क
वैशम्पाय़न उवाच:
पृथिव्याश्चतुरन्ताय़ा गोप्ता राजीवलोचनः ||
६ ख
वैशम्पाय़न उवाच:
सुभ्रूः संहननो वाग्मी सौवीरीतनय़ास्त्रय़ः |
७ क
वैशम्पाय़न उवाच:
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ||
७ ख
वैशम्पाय़न उवाच:
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः |
८ क
वैशम्पाय़न उवाच:
यज्वानो जज्ञिरे शूराः प्रजावन्तो वहुश्रुताः |
८ ख
वैशम्पाय़न उवाच:
सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपराय़णाः ||
८ ग
वैशम्पाय़न उवाच:
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् |
९ क
वैशम्पाय़न उवाच:
स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ||
९ ख
वैशम्पाय़न उवाच:
तेजेपुर्वलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः |
१० क
वैशम्पाय़न उवाच:
धर्मेपुः संनतेपुश्च दशमो देवविक्रमः |
१० ख
वैशम्पाय़न उवाच:
अनाधृष्टिसुतास्तात राजसूय़ाश्वमेधिनः ||
१० ग
वैशम्पाय़न उवाच:
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् |
११ क
वैशम्पाय़न उवाच:
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः |
११ ख
वैशम्पाय़न उवाच:
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ||
११ ग
वैशम्पाय़न उवाच:
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् |
१२ क
वैशम्पाय़न उवाच:
आजहार यशो दीप्तं जिगाय़ च वसुन्धराम् ||
१२ ख
वैशम्पाय़न उवाच:
इलिनं तु सुतं तंसुर्जनय़ामास वीर्यवान् |
१३ क
वैशम्पाय़न उवाच:
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जय़तां वरः ||
१३ ख
वैशम्पाय़न उवाच:
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः |
१४ क
वैशम्पाय़न उवाच:
इलिनो जनय़ामास दुःषन्तप्रभृतीन्नृप ||
१४ ख
वैशम्पाय़न उवाच:
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च |
१५ क
वैशम्पाय़न उवाच:
तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय़ ||
१५ ख
वैशम्पाय़न उवाच:
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः |
१६ क
वैशम्पाय़न उवाच:
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ||
१६ ख
वैशम्पाय़न उवाच:
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् |
१७ क
वैशम्पाय़न उवाच:
नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ||
१७ ख
वैशम्पाय़न उवाच:
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा |
१८ क
वैशम्पाय़न उवाच:
लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ||
१८ ख
वैशम्पाय़न उवाच:
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः |
१९ क
वैशम्पाय़न उवाच:
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचय़त् ||
१९ ख
वैशम्पाय़न उवाच:
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् |
२० क
वैशम्पाय़न उवाच:
ततः स वितथो नाम भुमन्योरभवत्सुतः ||
२० ख
वैशम्पाय़न उवाच:
सुहोत्रश्च सुहोता च सुहविः सुय़जुस्तथा |
२१ क
वैशम्पाय़न उवाच:
पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ||
२१ ख
वैशम्पाय़न उवाच:
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् |
२२ क
वैशम्पाय़न उवाच:
राजसूय़ाश्वमेधाद्यैः सोऽय़जद्वहुभिः सवैः ||
२२ ख
वैशम्पाय़न उवाच:
सुहोत्रः पृथिवीं सर्वां वुभुजे सागराम्वराम् |
२३ क
वैशम्पाय़न उवाच:
पूर्णां हस्तिगवाश्वस्य वहुरत्नसमाकुलाम् ||
२३ ख
वैशम्पाय़न उवाच:
ममज्जेव मही तस्य भूरिभारावपीडिता |
२४ क
वैशम्पाय़न उवाच:
हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ||
२४ ख
वैशम्पाय़न उवाच:
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः |
२५ क
वैशम्पाय़न उवाच:
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः |
२५ ख
वैशम्पाय़न उवाच:
प्रवृद्धजनसस्या च सहदेवा व्यरोचत ||
२५ ग
वैशम्पाय़न उवाच:
ऐक्ष्वाकी जनय़ामास सुहोत्रात्पृथिवीपतेः |
२६ क
वैशम्पाय़न उवाच:
अजमीढं सुमीढं च पुरुमीढं च भारत ||
२६ ख
वैशम्पाय़न उवाच:
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः |
२७ क
वैशम्पाय़न उवाच:
षट्पुत्रान्सोऽप्यजनय़त्तिसृषु स्त्रीषु भारत ||
२७ ख
वैशम्पाय़न उवाच:
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ |
२८ क
वैशम्पाय़न उवाच:
केशिन्यजनय़ज्जह्नुमुभौ च जनरूपिणौ ||
२८ ख
वैशम्पाय़न उवाच:
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः |
२९ क
वैशम्पाय़न उवाच:
अन्वय़ाः कुशिका राजञ्जह्नोरमिततेजसः ||
२९ ख
वैशम्पाय़न उवाच:
जनरूपिणय़ोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् |
३० क
वैशम्पाय़न उवाच:
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ||
३० ख
वैशम्पाय़न उवाच:
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् |
३१ क
वैशम्पाय़न उवाच:
सङ्क्षय़ः सुमहानासीत्प्रजानामिति शुश्रुमः ||
३१ ख
वैशम्पाय़न उवाच:
व्यशीर्यत ततो राष्ट्रं क्षय़ैर्नानाविधैस्तथा |
३२ क
वैशम्पाय़न उवाच:
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् |
३२ ख
वैशम्पाय़न उवाच:
अभ्यघ्नन्भारतांश्चैव सपत्नानां वलानि च ||
३२ ग
वैशम्पाय़न उवाच:
चालय़न्वसुधां चैव वलेन चतुरङ्गिणा |
३३ क
वैशम्पाय़न उवाच:
अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् |
३३ ख
वैशम्पाय़न उवाच:
अक्षौहिणीभिर्दशभिः स एनं समरेऽजय़त् ||
३३ ग
वैशम्पाय़न उवाच:
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः |
३४ क
वैशम्पाय़न उवाच:
राजा संवरणस्तस्मात्पलाय़त महाभय़ात् ||
३४ ख
वैशम्पाय़न उवाच:
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा |
३५ क
वैशम्पाय़न उवाच:
नदीविषय़पर्यन्ते पर्वतस्य समीपतः |
३५ ख
वैशम्पाय़न उवाच:
तत्रावसन्वहून्कालान्भारता दुर्गमाश्रिताः ||
३५ ग
वैशम्पाय़न उवाच:
तेषां निवसतां तत्र सहस्रं परिवत्सरान् |
३६ क
वैशम्पाय़न उवाच:
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ||
३६ ख
वैशम्पाय़न उवाच:
तमागतं प्रय़त्नेन प्रत्युद्गम्याभिवाद्य च |
३७ क
वैशम्पाय़न उवाच:
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा |
३७ ख
वैशम्पाय़न उवाच:
निवेद्य सर्वमृषय़े सत्कारेण सुवर्चसे ||
३७ ग
वैशम्पाय़न उवाच:
तं समामष्टमीमुष्टं राजा वव्रे स्वय़ं तदा |
३८ क
वैशम्पाय़न उवाच:
पुरोहितो भवान्नोऽस्तु राज्याय़ प्रय़तामहे |
३८ ख
वैशम्पाय़न उवाच:
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ||
३८ ग
वैशम्पाय़न उवाच:
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् |
३९ क
वैशम्पाय़न उवाच:
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ||
३९ ख
वैशम्पाय़न उवाच:
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् |
४० क
वैशम्पाय़न उवाच:
पुनर्वलिभृतश्चैव चक्रे सर्वमहीक्षितः ||
४० ख
वैशम्पाय़न उवाच:
ततः स पृथिवीं प्राप्य पुनरीजे महावलः |
४१ क
वैशम्पाय़न उवाच:
आजमीढो महाय़ज्ञैर्वहुभिर्भूरिदक्षिणैः ||
४१ ख
वैशम्पाय़न उवाच:
ततः संवरणात्सौरी सुषुवे तपती कुरुम् |
४२ क
वैशम्पाय़न उवाच:
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ||
४२ ख
वैशम्पाय़न उवाच:
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् |
४३ क
वैशम्पाय़न उवाच:
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ||
४३ ख
वैशम्पाय़न उवाच:
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् |
४४ क
वैशम्पाय़न उवाच:
जनमेजय़ं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः |
४४ ख
वैशम्पाय़न उवाच:
पञ्चैतान्वाहिनी पुत्रान्व्यजाय़त मनस्विनी ||
४४ ग
वैशम्पाय़न उवाच:
अभिष्वतः परिक्षित्तु शवलाश्वश्च वीर्यवान् |
४५ क
वैशम्पाय़न उवाच:
अभिराजो विराजश्च शल्मलश्च महावलः ||
४५ ख