chevron_left भीष्म पर्व अध्याय ११
धृतराष्ट्र उवाच:
भारतस्यास्य वर्षस्य तथा हैमवतस्य च |
१ क
धृतराष्ट्र उवाच:
प्रमाणमाय़ुषः सूत फलं चापि शुभाशुभम् ||
१ ख
धृतराष्ट्र उवाच:
अनागतमतिक्रान्तं वर्तमानं च सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ||
२ ख
सञ्जय़ उवाच:
चत्वारि भारते वर्षे युगानि भरतर्षभ |
३ क
सञ्जय़ उवाच:
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ||
३ ख
सञ्जय़ उवाच:
पूर्वं कृतय़ुगं नाम ततस्त्रेताय़ुगं विभो |
४ क
सञ्जय़ उवाच:
सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ||
४ ख
सञ्जय़ उवाच:
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम |
५ क
सञ्जय़ उवाच:
आय़ुःसङ्ख्या कृतय़ुगे सङ्ख्याता राजसत्तम ||
५ ख
सञ्जय़ उवाच:
तथा त्रीणि सहस्राणि त्रेताय़ां मनुजाधिप |
६ क
सञ्जय़ उवाच:
द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति ||
६ ख
सञ्जय़ उवाच:
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ |
७ क
सञ्जय़ उवाच:
गर्भस्थाश्च म्रिय़न्तेऽत्र तथा जाता म्रिय़न्ति च ||
७ ख
सञ्जय़ उवाच:
महावला महासत्त्वाः प्रजागुणसमन्विताः |
८ क
सञ्जय़ उवाच:
अजाय़न्त कृते राजन्मुनय़ः सुतपोधनाः ||
८ ख
सञ्जय़ उवाच:
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः |
९ क
सञ्जय़ उवाच:
जाताः कृतय़ुगे राजन्धनिनः प्रिय़दर्शनाः ||
९ ख
सञ्जय़ उवाच:
आय़ुष्मन्तो महावीरा धनुर्धरवरा युधि |
१० क
सञ्जय़ उवाच:
जाय़न्ते क्षत्रिय़ाः शूरास्त्रेताय़ां चक्रवर्तिनः ||
१० ख
सञ्जय़ उवाच:
सर्ववर्णा महाराज जाय़न्ते द्वापरे सति |
११ क
सञ्जय़ उवाच:
महोत्साहा महावीर्याः परस्परवधैषिणः ||
११ ख
सञ्जय़ उवाच:
तेजसाल्पेन संय़ुक्ताः क्रोधनाः पुरुषा नृप |
१२ क
सञ्जय़ उवाच:
लुव्धाश्चानृतकाश्चैव पुष्ये जाय़न्ति भारत ||
१२ ख
सञ्जय़ उवाच:
ईर्ष्या मानस्तथा क्रोधो माय़ासूय़ा तथैव च |
१३ क
सञ्जय़ उवाच:
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ||
१३ ख
सञ्जय़ उवाच:
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप |
१४ क
सञ्जय़ उवाच:
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ||
१४ ख