chevron_left द्रोण पर्व अध्याय ११
सञ्जय़ उवाच:
हन्त ते वर्णय़िष्यामि सर्वं प्रत्यक्षदर्शिवान् |
१ क
सञ्जय़ उवाच:
यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जय़ैः ||
१ ख
सञ्जय़ उवाच:
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः |
२ क
सञ्जय़ उवाच:
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
यत्कौरवाणामृषभादापगेय़ादनन्तरम् |
३ क
सञ्जय़ उवाच:
सेनापत्येन मां राजन्नद्य सत्कृतवानसि ||
३ ख
सञ्जय़ उवाच:
सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव |
४ क
सञ्जय़ उवाच:
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ||
४ ख
सञ्जय़ उवाच:
ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः |
५ क
सञ्जय़ उवाच:
तमथोवाच दुर्धर्षमाचार्यं जय़तां वरम् ||
५ ख
सञ्जय़ उवाच:
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् |
६ क
सञ्जय़ उवाच:
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय़ ||
६ ख
सञ्जय़ उवाच:
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः |
७ क
सञ्जय़ उवाच:
सेनां प्रहर्षय़न्सर्वामिदं वचनमव्रवीत् ||
७ ख
सञ्जय़ उवाच:
धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि |
८ क
सञ्जय़ उवाच:
न वधार्थं सुदुर्धर्ष वरमद्य प्रय़ाचसि ||
८ ख
सञ्जय़ उवाच:
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि |
९ क
सञ्जय़ उवाच:
नाशंससि क्रिय़ामेतां मत्तो दुर्योधन ध्रुवम् ||
९ ख
सञ्जय़ उवाच:
आहो स्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते |
१० क
सञ्जय़ उवाच:
यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ||
१० ख
सञ्जय़ उवाच:
अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् |
११ क
सञ्जय़ उवाच:
राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ||
११ ख
सञ्जय़ उवाच:
धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः |
१२ क
सञ्जय़ उवाच:
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ||
१२ ख
सञ्जय़ उवाच:
द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत |
१३ क
सञ्जय़ उवाच:
सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ||
१३ ख
सञ्जय़ उवाच:
नाकारो गूहितुं शक्यो वृहस्पतिसमैरपि |
१४ क
सञ्जय़ उवाच:
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमव्रवीत् ||
१४ ख
सञ्जय़ उवाच:
वधे कुन्तीसुतस्याजौ नाचार्य विजय़ो मम |
१५ क
सञ्जय़ उवाच:
हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ||
१५ ख
सञ्जय़ उवाच:
न च शक्यो रणे सर्वैर्निहन्तुममरैरपि |
१६ क
सञ्जय़ उवाच:
य एव चैषां शेषः स्यात्स एवास्मान्न शेषय़ेत् ||
१६ ख
सञ्जय़ उवाच:
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते |
१७ क
सञ्जय़ उवाच:
पुनर्यास्यन्त्यरण्याय़ कौन्तेय़ास्तमनुव्रताः ||
१७ ख
सञ्जय़ उवाच:
सोऽय़ं मम जय़ो व्यक्तं दीर्घकालं भविष्यति |
१८ क
सञ्जय़ उवाच:
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ||
१८ ख
सञ्जय़ उवाच:
तस्य जिह्ममभिप्राय़ं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् |
१९ क
सञ्जय़ उवाच:
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य वुद्धिमान् ||
१९ ख
द्रोण उवाच:
न चेद्युधिष्ठिरं वीर पालय़ेदर्जुनो युधि |
२० क
द्रोण उवाच:
मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ||
२० ख
द्रोण उवाच:
न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि |
२१ क
द्रोण उवाच:
प्रत्युद्यातुमतस्तात नैतदामर्षय़ाम्यहम् ||
२१ ख
द्रोण उवाच:
असंशय़ं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि |
२२ क
द्रोण उवाच:
तरुणः कीर्तिय़ुक्तश्च एकाय़नगतश्च सः ||
२२ ख
द्रोण उवाच:
अस्त्राणीन्द्राच्च रुद्राच्च भूय़ांसि समवाप्तवान् |
२३ क
द्रोण उवाच:
अमर्षितश्च ते राजंस्तेन नामर्षय़ाम्यहम् ||
२३ ख
द्रोण उवाच:
स चापक्रम्यतां युद्धाद्येनोपाय़ेन शक्यते |
२४ क
द्रोण उवाच:
अपनीते ततः पार्थे धर्मराजो जितस्त्वय़ा ||
२४ ख
द्रोण उवाच:
ग्रहणं चेज्जय़ं तस्य मन्यसे पुरुषर्षभ |
२५ क
द्रोण उवाच:
एतेन चाभ्युपाय़ेन ध्रुवं ग्रहणमेष्यति ||
२५ ख
द्रोण उवाच:
अहं गृहीत्वा राजानं सत्यधर्मपराय़णम् |
२६ क
द्रोण उवाच:
आनय़िष्यामि ते राजन्वशमद्य न संशय़ः ||
२६ ख
द्रोण उवाच:
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः |
२७ क
द्रोण उवाच:
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जय़े ||
२७ ख
द्रोण उवाच:
फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः |
२८ क
द्रोण उवाच:
ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ||
२८ ख
सञ्जय़ उवाच:
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे |
२९ क
सञ्जय़ उवाच:
गृहीतं तममन्यन्त तव पुत्राः सुवालिशाः ||
२९ ख
सञ्जय़ उवाच:
पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः |
३० क
सञ्जय़ उवाच:
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो वहुलीकृतः ||
३० ख
सञ्जय़ उवाच:
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् |
३१ क
सञ्जय़ उवाच:
सैन्यस्थानेषु सर्वेषु व्याघोषितमरिन्दम ||
३१ ख