सञ्जय़ उवाच:
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वाय़सीं गदाम् |
१ क
सञ्जय़ उवाच:
आदाय़ तरसा राजंस्तस्थौ गिरिरिवाचलः ||
१ ख
सञ्जय़ उवाच:
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् |
२ क
सञ्जय़ उवाच:
सशृङ्गमिव कैलासं सवज्रमिव वासवम् ||
२ ख
सञ्जय़ उवाच:
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् |
३ क
सञ्जय़ उवाच:
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||
३ ख
सञ्जय़ उवाच:
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः |
४ क
सञ्जय़ उवाच:
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ||
४ ख
सञ्जय़ उवाच:
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ |
५ क
सञ्जय़ उवाच:
तावकाश्च परे चैव साधु साध्वित्यथाव्रुवन् ||
५ ख
सञ्जय़ उवाच:
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् |
६ क
सञ्जय़ उवाच:
सोढुमुत्सहते वेगं भीमसेनस्य संय़ुगे ||
६ ख
सञ्जय़ उवाच:
तथा मद्राधिपस्यापि गदावेगं महात्मनः |
७ क
सञ्जय़ उवाच:
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् ||
७ ख
सञ्जय़ उवाच:
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |
८ क
सञ्जय़ उवाच:
आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ||
८ ख
सञ्जय़ उवाच:
मण्डलावर्तमार्गेषु गदाविहरणेषु च |
९ क
सञ्जय़ उवाच:
निर्विशेषमभूद्युद्धं तय़ोः पुरुषसिंहय़ोः ||
९ ख
सञ्जय़ उवाच:
तप्तहेममय़ैः शुभ्रैर्वभूव भय़वर्धनी |
१० क
सञ्जय़ उवाच:
अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ||
१० ख
सञ्जय़ उवाच:
तथैव चरतो मार्गान्मण्डलेषु महात्मनः |
११ क
सञ्जय़ उवाच:
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा ||
११ ख
सञ्जय़ उवाच:
ताडिता मद्रराजेन भीमस्य गदय़ा गदा |
१२ क
सञ्जय़ उवाच:
दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ||
१२ ख
सञ्जय़ उवाच:
तथा भीमेन शल्यस्य ताडिता गदय़ा गदा |
१३ क
सञ्जय़ उवाच:
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ||
१३ ख
सञ्जय़ उवाच:
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ |
१४ क
सञ्जय़ उवाच:
तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ||
१४ ख
सञ्जय़ उवाच:
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ |
१५ क
सञ्जय़ उवाच:
प्रेक्षणीय़तरावास्तां पुष्पिताविव किंशुकौ ||
१५ ख
सञ्जय़ उवाच:
गदय़ा मद्रराजेन सव्यदक्षिणमाहतः |
१६ क
सञ्जय़ उवाच:
भीमसेनो महावाहुर्न चचालाचलो यथा ||
१६ ख
सञ्जय़ उवाच:
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः |
१७ क
सञ्जय़ उवाच:
शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ||
१७ ख
सञ्जय़ उवाच:
शुश्रुवे दिक्षु सर्वासु तय़ोः पुरुषसिंहय़ोः |
१८ क
सञ्जय़ उवाच:
गदानिपातसंह्रादो वज्रय़ोरिव निस्वनः ||
१८ ख
सञ्जय़ उवाच:
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ |
१९ क
सञ्जय़ उवाच:
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ||
१९ ख
सञ्जय़ उवाच:
अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तय़ोः |
२० क
सञ्जय़ उवाच:
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ||
२० ख
सञ्जय़ उवाच:
प्रार्थय़ानौ तदान्योऽन्यं मण्डलानि विचेरतुः |
२१ क
सञ्जय़ उवाच:
क्रिय़ाविशेषं कृतिनौ दर्शय़ामासतुस्तदा ||
२१ ख
सञ्जय़ उवाच:
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ |
२२ क
सञ्जय़ उवाच:
तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ||
२२ ख
सञ्जय़ उवाच:
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ |
२३ क
सञ्जय़ उवाच:
युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ||
२३ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्वीरास्तदा हाहाकृतोऽभवन् |
२४ क
सञ्जय़ उवाच:
भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ||
२४ ख
सञ्जय़ उवाच:
ततः सगदमारोप्य मद्राणामृषभं रथे |
२५ क
सञ्जय़ उवाच:
अपोवाह कृपः शल्यं तूर्णमाय़ोधनादपि ||
२५ ख
सञ्जय़ उवाच:
क्षीववद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः |
२६ क
सञ्जय़ उवाच:
भीमसेनो गदापाणिः समाह्वय़त मद्रपम् ||
२६ ख
सञ्जय़ उवाच:
ततस्तु तावकाः शूरा नानाशस्त्रसमाय़ुताः |
२७ क
सञ्जय़ उवाच:
नानावादित्रशव्देन पाण्डुसेनामय़ोधय़न् ||
२७ ख
सञ्जय़ उवाच:
भुजावुच्छ्रित्य शस्त्रं च शव्देन महता ततः |
२८ क
सञ्जय़ उवाच:
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ||
२८ ख
सञ्जय़ उवाच:
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः |
२९ क
सञ्जय़ उवाच:
प्रय़युः सिंहनादेन दुर्योधनवधेप्सय़ा ||
२९ ख
सञ्जय़ उवाच:
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ |
३० क
सञ्जय़ उवाच:
प्रासेन चेकितानं वै विव्याध हृदय़े भृशम् ||
३० ख
सञ्जय़ उवाच:
स पपात रथोपस्थे तव पुत्रेण ताडितः |
३१ क
सञ्जय़ उवाच:
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ||
३१ ख
सञ्जय़ उवाच:
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः |
३२ क
सञ्जय़ उवाच:
प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ||
३२ ख
सञ्जय़ उवाच:
तावकानामनीकेषु पाण्डवा जितकाशिनः |
३३ क
सञ्जय़ उवाच:
व्यचरन्त महाराज प्रेक्षणीय़ाः समन्ततः ||
३३ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च सौवलश्च महावलः |
३४ क
सञ्जय़ उवाच:
अय़ोधय़न्धर्मराजं मद्रराजपुरस्कृताः ||
३४ ख
सञ्जय़ उवाच:
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् |
३५ क
सञ्जय़ उवाच:
दुर्योधनो महाराज धृष्टद्युम्नमय़ोधय़त् ||
३५ ख
सञ्जय़ उवाच:
त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः |
३६ क
सञ्जय़ उवाच:
अय़ोधय़न्त विजय़ं द्रोणपुत्रपुरस्कृताः ||
३६ ख
सञ्जय़ उवाच:
विजय़े धृतसङ्कल्पाः समभित्यक्तजीविताः |
३७ क
सञ्जय़ उवाच:
प्राविशंस्तावका राजन्हंसा इव महत्सरः ||
३७ ख
सञ्जय़ उवाच:
ततो युद्धमभूद्घोरं परस्परवधैषिणाम् |
३८ क
सञ्जय़ उवाच:
अन्योन्यवधसंय़ुक्तमन्योन्यप्रीतिवर्धनम् ||
३८ ख
सञ्जय़ उवाच:
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षय़े |
३९ क
सञ्जय़ उवाच:
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ||
३९ ख
सञ्जय़ उवाच:
श्रवणान्नामधेय़ानां पाण्डवानां च कीर्तनात् |
४० क
सञ्जय़ उवाच:
परस्परं विजानीमो ये चाय़ुध्यन्नभीतवत् ||
४० ख
सञ्जय़ उवाच:
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् |
४१ क
सञ्जय़ उवाच:
दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ||
४१ ख
सञ्जय़ उवाच:
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भय़ानके |
४२ क
सञ्जय़ उवाच:
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||
४२ ख
सञ्जय़ उवाच:
व्रह्मलोकपरा भूत्वा प्रार्थय़न्तो जय़ं युधि |
४३ क
सञ्जय़ उवाच:
सुय़ुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ||
४३ ख
सञ्जय़ उवाच:
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः |
४४ क
सञ्जय़ उवाच:
स्वर्गसंसक्तमनसो योधा युय़ुधिरे तदा ||
४४ ख
सञ्जय़ उवाच:
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |
४५ क
सञ्जय़ उवाच:
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ||
४५ ख
सञ्जय़ उवाच:
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत |
४६ क
सञ्जय़ उवाच:
इति स्म वाचः श्रूय़न्ते तव तेषां च वै वले ||
४६ ख
सञ्जय़ उवाच:
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् |
४७ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैर्हन्तुकामो महारथम् ||
४७ ख
सञ्जय़ उवाच:
तस्य पार्थो महाराज नाराचान्वै चतुर्दश |
४८ क
सञ्जय़ उवाच:
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ||
४८ ख
सञ्जय़ उवाच:
तं वार्य पाण्डवं वाणैर्हन्तुकामो महाय़शाः |
४९ क
सञ्जय़ उवाच:
विव्याध समरे क्रुद्धो वहुभिः कङ्कपत्रिभिः ||
४९ ख
सञ्जय़ उवाच:
अथ भूय़ो महाराज शरेण नतपर्वणा |
५० क
सञ्जय़ उवाच:
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ||
५० ख