वैशम्पाय़न उवाच:
तं व्यतीतमतिक्रम्य राजा स्वमिव वान्धवम् |
१ क
वैशम्पाय़न उवाच:
सभार्यः शोकदुःखार्तः पर्यदेवय़दातुरः ||
१ ख
पाण्डुरु उवाच:
सतामपि कुले जाताः कर्मणा वत दुर्गतिम् |
२ क
पाण्डुरु उवाच:
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ||
२ ख
पाण्डुरु उवाच:
शश्वद्धर्मात्मना जातो वाल एव पिता मम |
३ क
पाण्डुरु उवाच:
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ||
३ ख
पाण्डुरु उवाच:
तस्य कामात्मनः क्षेत्रे राज्ञः संय़तवागृषिः |
४ क
पाण्डुरु उवाच:
कृष्णद्वैपाय़नः साक्षाद्भगवान्मामजीजनत् ||
४ ख
पाण्डुरु उवाच:
तस्याद्य व्यसने वुद्धिः सञ्जातेय़ं ममाधमा |
५ क
पाण्डुरु उवाच:
त्यक्तस्य देवैरनय़ान्मृगय़ाय़ां दुरात्मनः ||
५ ख
पाण्डुरु उवाच:
मोक्षमेव व्यवस्यामि वन्धो हि व्यसनं महत् |
६ क
पाण्डुरु उवाच:
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् |
६ ख
पाण्डुरु उवाच:
अतीव तपसात्मानं योजय़िष्याम्यसंशय़म् ||
६ ग
पाण्डुरु उवाच:
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |
७ क
पाण्डुरु उवाच:
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ||
७ ख
पाण्डुरु उवाच:
पांसुना समवच्छन्नः शून्यागारप्रतिश्रय़ः |
८ क
पाण्डुरु उवाच:
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रिय़ाप्रिय़ः ||
८ ख
पाण्डुरु उवाच:
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |
९ क
पाण्डुरु उवाच:
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ||
९ ख
पाण्डुरु उवाच:
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |
१० क
पाण्डुरु उवाच:
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ||
१० ख
पाण्डुरु उवाच:
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् |
११ क
पाण्डुरु उवाच:
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ||
११ ख
पाण्डुरु उवाच:
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च |
१२ क
पाण्डुरु उवाच:
असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ||
१२ ख
पाण्डुरु उवाच:
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् |
१३ क
पाण्डुरु उवाच:
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरय़न् ||
१३ ख
पाण्डुरु उवाच:
वास्यैकं तक्षतो वाहुं चन्दनेनैकमुक्षतः |
१४ क
पाण्डुरु उवाच:
नाकल्याणं न कल्याणं प्रध्याय़न्नुभय़ोस्तय़ोः ||
१४ ख
पाण्डुरु उवाच:
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |
१५ क
पाण्डुरु उवाच:
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ||
१५ ख
पाण्डुरु उवाच:
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदय़क्रिय़ाः |
१६ क
पाण्डुरु उवाच:
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ||
१६ ख
पाण्डुरु उवाच:
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रिय़क्रिय़ः |
१७ क
पाण्डुरु उवाच:
सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ||
१७ ख
पाण्डुरु उवाच:
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः |
१८ क
पाण्डुरु उवाच:
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||
१८ ख
पाण्डुरु उवाच:
एतय़ा सततं वृत्त्या चरन्नेवम्प्रकारय़ा |
१९ क
पाण्डुरु उवाच:
देहं सन्धारय़िष्यामि निर्भय़ं मार्गमास्थितः ||
१९ ख
पाण्डुरु उवाच:
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते |
२० क
पाण्डुरु उवाच:
स्वधर्मात्सततापेते रमेय़ं वीर्यवर्जितः ||
२० ख
पाण्डुरु उवाच:
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा |
२१ क
पाण्डुरु उवाच:
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ||
२१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः |
२२ क
वैशम्पाय़न उवाच:
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ||
२२ ख
वैशम्पाय़न उवाच:
कौसल्या विदुरः क्षत्ता राजा च सह वन्धुभिः |
२३ क
वैशम्पाय़न उवाच:
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ||
२३ ख
वैशम्पाय़न उवाच:
व्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः |
२४ क
वैशम्पाय़न उवाच:
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रय़ाः |
२४ ख
वैशम्पाय़न उवाच:
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ||
२४ ग
वैशम्पाय़न उवाच:
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः |
२५ क
वैशम्पाय़न उवाच:
तत्समं वचनं कुन्ती माद्री च समभाषताम् ||
२५ ख
वैशम्पाय़न उवाच:
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ |
२६ क
वैशम्पाय़न उवाच:
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् |
२६ ख
वैशम्पाय़न उवाच:
त्वमेव भविता सार्थः स्वर्गस्यापि न संशय़ः ||
२६ ग
वैशम्पाय़न उवाच:
प्रणिधाय़ेन्द्रिय़ग्रामं भर्तृलोकपराय़णे |
२७ क
वैशम्पाय़न उवाच:
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ||
२७ ख
वैशम्पाय़न उवाच:
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते |
२८ क
वैशम्पाय़न उवाच:
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशय़ः ||
२८ ख
पाण्डुरु उवाच:
यदि व्यवसितं ह्येतद्युवय़ोर्धर्मसंहितम् |
२९ क
पाण्डुरु उवाच:
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||
२९ ख
पाण्डुरु उवाच:
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः |
३० क
पाण्डुरु उवाच:
वल्कली फलमूलाशी चरिष्यामि महावने ||
३० ख
पाण्डुरु उवाच:
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् |
३१ क
पाण्डुरु उवाच:
कृशः परिमिताहारश्चीरचर्मजटाधरः ||
३१ ख
पाण्डुरु उवाच:
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः |
३२ क
पाण्डुरु उवाच:
तपसा दुश्चरेणेदं शरीरमुपशोषय़न् ||
३२ ख
पाण्डुरु उवाच:
एकान्तशीली विमृशन्पक्वापक्वेन वर्तय़न् |
३३ क
पाण्डुरु उवाच:
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पय़न् ||
३३ ख
पाण्डुरु उवाच:
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् |
३४ क
पाण्डुरु उवाच:
नाप्रिय़ाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ||
३४ ख
पाण्डुरु उवाच:
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |
३५ क
पाण्डुरु उवाच:
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ||
३५ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः |
३६ क
वैशम्पाय़न उवाच:
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च |
३६ ख
वैशम्पाय़न उवाच:
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ||
३६ ग
वैशम्पाय़न उवाच:
प्रदाय़ सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत |
३७ क
वैशम्पाय़न उवाच:
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ||
३७ ख
वैशम्पाय़न उवाच:
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् |
३८ क
वैशम्पाय़न उवाच:
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ||
३८ ख
वैशम्पाय़न उवाच:
ततस्तस्यानुय़ात्राणि ते चैव परिचारकाः |
३९ क
वैशम्पाय़न उवाच:
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः |
३९ ख
वैशम्पाय़न उवाच:
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ||
३९ ग
वैशम्पाय़न उवाच:
उष्णमश्रु विमुञ्चन्तस्तं विहाय़ महीपतिम् |
४० क
वैशम्पाय़न उवाच:
यय़ुर्नागपुरं तूर्णं सर्वमादाय़ तद्वचः ||
४० ख
वैशम्पाय़न उवाच:
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने |
४१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ||
४१ ख
वैशम्पाय़न उवाच:
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः |
४२ क
वैशम्पाय़न उवाच:
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ||
४२ ख
वैशम्पाय़न उवाच:
स चैत्ररथमासाद्य वारिषेणमतीत्य च |
४३ क
वैशम्पाय़न उवाच:
हिमवन्तमतिक्रम्य प्रय़यौ गन्धमादनम् ||
४३ ख
वैशम्पाय़न उवाच:
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः |
४४ क
वैशम्पाय़न उवाच:
उवास स तदा राजा समेषु विषमेषु च ||
४४ ख
वैशम्पाय़न उवाच:
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च |
४५ क
वैशम्पाय़न उवाच:
शतशृङ्गे महाराज तापसः समपद्यत ||
४५ ख